________________
उदयविजयप्रेषिता विज्ञप्तिका
मदीयसम्पर्किमुनिव्रजस्य, श्रीपूज्यभक्तिप्रवणाशयस्य । तथा हि-वीराद्विजयाः प्रबुद्धा, रवेः पदाद्या विजयाश्च विज्ञाः ॥ १९ ॥ दीपादयो वा विजया गणेशाः, शिवादिमाः सद्विजयाः सधर्माः । ततः परं सत्कुशलप्रधाना, गणेशवर्या विजयाग्रशब्दाः ॥ ५० ॥ देवादिमाः सद्विजया जिनाद्या, लाधादयोऽन्ये स्थिरवासभाजः । गणिः कृपायो विजयश्च हेमादिमः पुनः सद्विजयो गणीष्टः ॥५१॥
झञ्झाभिधानश्च मुनिः सुवृद्धसत्यादयोऽत्रत्यजनाः प्रतीताः। अत्रत्यसद्धोऽनघभक्तिशाली, सर्वेऽपि चैते प्रणमन्ति पूज्यान् ॥५२॥ श्रीपूज्यनामात्र जिनाधिनाथाः, प्रीत्या नमस्साविषयीक्रियन्ते । प्रणामवेलामधिगम्य तेषामहं स्वचित्तंऽपि विधय आर्षेः॥ ५३॥ सद्यस्कपद्यैलिखितेन शीघ्रं, वैयग्र्ययोगाच्च मनोऽप्रसत्तेः । यथातथागुम्फितमेतदास्ते, दूष्यं न वैदुष्यपयोधिभिस्तत् ॥ ५४॥ श्रीगूर्जरक्ष्मावलयेऽत्र वर्षे, पादोऽवधार्योऽथ विपर्ययो वा । इत्यादि विस्तारवदेव सर्व, प्रसादनीयं कृतनिर्णयं यत् ॥ ५५ ॥ सत्काल्गुने मासि वलक्षपक्षे, योगप्रमेयप्रमकर्मवाट्याम् ।
कनीव पत्री प्रगुणीकृतेयं, पाणौ गृहीता प्रतनोतु भद्रम् ॥ ५६ ॥ ॥ पूज्याराध्यसकलभद्दारकदेवभधारकश्री१९श्रीविजयप्रभसूरीश्वर
चरणसरोजानां श्रीपुरवन्दिरे । सं० १७१८ वर्षे ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org