________________
१६४
विज्ञप्तिलेखसंग्रह . इत्यादिवृत्तैरुपवर्ण्यरूपादकथ्यरूपाजलधीरितार्थम् । श्रीस्तम्भतीर्थादतिदम्भलोकाच्छ्रीपूज्यतत्त्वीकरणप्रवीणात् ॥ ३२॥ भक्तीरितः प्रीतिपवित्रितात्माऽऽत्मारामलीनैकमना मनाग्ज्ञः । ज्ञप्त्योदयादिविजयः स्थिरश्री, प्रमोदसिन्धुः कृतवन्दनादिः ॥ ३३॥ विनीतभावस्तरणिप्रमाणावर्तान् विनिर्माय नतिं वितन्वन् । विज्ञप्तिमाविष्कुरुते यथाऽत्र, कृत्यं प्रभातेऽरुणपूतलोके ॥ ३४ ॥
खाध्याय आद्याङ्गमुखागमानां, व्याख्यानमावश्यकवृद्धवृत्तः । तदुत्तरं पर्व समभ्युपेतं, श्रीवार्षिकं नाम सुधर्मसेव्यम् ॥ ३५ ॥ जिनालये सप्तदशप्रकारा, पूजा चतुःपारणकादि सर्वम् । पर्वोचितं कल्पसुवाचनादि, तत्रापि जज्ञेऽस्ति च जायमानम् ॥ ३६ ॥ श्रीपार्श्वनाथस्य पदप्रसादः, श्रीपूज्यरागेण स सद्वितीयः । निबन्धनीभावमियाय तत्राधुनाऽप्यसावेव तदीयहेतुः ॥ ३७॥
अपरम् - मातुं न शक्नोति गुणान् यदीयान् , ब्रह्माऽपि मानातिगताप्रपन्नान् । तत्संख्ययैते गगने विकीर्णास्तारागणास्तेन परिस्फुरन्ति ॥ ३८॥ यद्गच्छमध्ये बहवोऽपि मूढा, अपि स्फुरद्धस्तमहामहिम्ना । क्षणेन पाण्डित्यरमां भजन्ते, न हीरसूर्यादिषु तत्प्रसिद्धम् ॥ ३९ ॥ विद्याऽपि येषां स्वत एव सिद्धा, रूपं च वाणी च विशालरूपा । एकैकभावस्य कथाप्रबन्धे, पाथोजजन्माऽप्यसमर्थ एव ॥४०॥ सीमातिगानां गुणमण्डलानां, मुक्ताफलानां प्रविधातुकामः । मालां विधिः पारमनामुवंस्ता, विमुक्तवांस्ता वियतीह ताराः ॥४१॥ सभूषणा सम्प्रति सा सुराष्ट्रावनी कनी हेममणीखनीव । पन्न्यासमुच्चैः सुविहारलक्ष्म्या, श्रीपूज्यतो या पुरवद् बिभर्ति ॥ ४२ ॥ यदीयगच्छे कवयोऽप्यनेके, क्रियापरास्तार्किकपुङ्गवाश्च । व्यापारिणां वा जगतीपतीनां, कोशेषु माणिक्यपरम्परेव ॥४३॥ भाणी यदीया जननी प्रतीता, शिवागणाख्योऽपि च यत्पिताऽऽसीत् । क्रियापरो यस्य च शिष्यवर्गः, स्वर्गङ्गया यस्य यशः समानम् ॥ ४४ ॥
अहो महज्ज्ञानमहो क्रियेयमहो तपः क्रोधजयोऽप्यहो सः। विशिष्य कः ख्यातुमलं गुणांस्तान्, यद्देहपेटीमणिरत्नराशीन् ॥४५॥ गुणैरनेकैरिति वर्णनीयैर्मम प्रणामो मनसाऽवधार्यः ।
अनुप्रणामः प्रभुसेवकानां, प्रसादनीयः प्रततव्रतानाम् ॥ ४६॥ तथा हि-लक्ष्मीविजयाख्यविज्ञा, यशःपदाद्या विजयाः समत्राः । धनादयो वा विजयास्तथाऽन्ये, विज्ञाश्च हेमाद्विजयादयोऽपि ॥४७॥
इत्यादिकानां पुनरार्यिकाणां, मानेन्दिराणामपरापराणाम् । नामोऽनुनामश्च विधापनीयः, प्राप्तः स्मृतेर्गोचरतां गणेन्द्रैः॥४८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org