Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 188
________________ १६७ लाभविजयप्रेषितो विज्ञप्तिलेखः यदीयदानं प्रविलोक्य नाकिद्रुमा नितान्तं किल लजिता वै । गतप्रभा नन्दनकानने गता विलज्जिता यान्ति नगाटवीषु हि ॥१७॥ ओजोऽन्वितामन्वहमादरेण, यदीयमूर्ति प्रविलोक्य पूषा । दासो बभूवेति किलावजाने, ददाति नो चेत् किमयं प्रदक्षिणाम् ॥ १८॥ अहिमहीपतिरंहियुगे विभोर्वसति यस्य सुधाझरशर्मणः । कथयितुं किमितीव विषोज्झितं, कुरु विभो ! किल मां सुधयान्वितम् ॥ १९ ॥ जयति यस्य यशो जगतस्त्रये, जनमनःसुखदं विशदं सदा। यदधिपीय नराः प्रविमेनिरे, मनसि मिष्टतराऽपि सुधा मुदा ॥ २० ॥ हीँ ॥ खस्तिश्रीमधुपीनिषेवितपदम्भोज जगजीवनमीडे नागहदे स्थितं भगवतं (१) तं वामवामाङ्गजम् । कैलासोदरसोदरं गुणभरं बिभ्राणमानन्ददम् , संसारोदधितारणं गतमदं शार्दूलविक्रीडितम् ॥ २१ ॥ . यदीयवक्त्रस्य मनोहरत्वं, विलोक्य वार्ज बहुलज्जितं सत् । लीनद्विरेफालिमिषात् किमेतद् भुङ्क्ते विषं दोषविशेषशेषम् ॥ २२ ॥ यदीयवक्त्रं निखिलाम्बुजन्मराजं चकाराम्बुजभूर्यदेतत् । तदास्यदास्यं कुरुते हि मञ्जकञ्जद्वयं नेत्रयुगच्छलेन ॥२३॥ यदास्यपद्म प्रविलोक्य पद्मं जले ममजातिविलजितं सत् । बुधैर्जनैरेव विमन्यते स्म नो चेदिदं प्रादुरभूत्ततः किमु ॥२४॥ यस्यास्यपाथोजमलं विलोक्य, लज्जाप्रपूर्ण जलजं बभूव । ततो द्विरेफालिमिषात् करालां, निजोदरे प्रक्षिपतीव शस्त्रीम् ॥ २५ ॥ सर्वभद्रकरं देवपञ्चकं नौम्यहं लसत् । सद्गुणौषधरं दुष्टकर्महं स्वच्छमानसम् ॥ २६ ॥ - धनुर्बन्धः । सकलमङ्गलकेलिकलागृहम् , विबुधपङ्कजकाननभास्करम् । समभिनम्य मुदा जिनपञ्चकममरसद्मकृतस्थिति सर्वदा ॥ २७ ॥ ॥इति जिनवर्णनम् ॥ अथ परमगुरुपदपवित्रीकृतपुरवर्णनम् - हीँ ॥ यस्मिन् पुरे काननमस्ति रम्यं तमालताम्बूलपियालशालि । ___मालूरजम्बीरकरीरसारं सत्तालमालामलकीविशालम् ॥ २८॥ मत्तभ्रमद्भुङ्गकुलैः कलथि सत्कोकिलाकेकिकलारवालि । विलासियूनोर्हृदयस्य चौर्यकरं हरिद्वस्त्रधरं नरथि ॥२९॥ रसालसाला बहुनमशाखाः, फलातिभारेण नतोत्तमाङ्गाः।। वदन्ति यस्मिन् विपिने नितान्तं, विश्वंभरां खां जननी मुदेव ॥ ३०॥ कि(क)म्रोऽस्ति वप्रो न विनम्रदेहो, हिरण्मयः सर्वबुधैः प्रवर्ण्यः । विस्मेरकान्तिः कपिशीर्षकालिशालिस्तु वृन्दारकशैलरूपः ॥ ३१॥ मेनेऽहमेवं नहि वप्र एष मेरुस्समादाय दिवं करे खे । स्वर्लोकलोकैः परिभूषिताङ्गस्समागतस्सद्गुरुवन्दनाय ॥३२॥ यस्मिन् पुरे भान्ति निकेतनानि, मरुल्ललत्पल्लवसद्ध्वजाभिः । देवापगाराजितमूर्धदेशा अनल्पदेहा इव मेनकेशाः ॥ ३३॥ यस्मिन् पुरे वेश्मशिरःस्थलेषु, भान्ति ध्वजावायुचलप्रदेशाः । समाधिनाथस्य लसन्ति कीर्तयः, किमु प्रधाना गगनाङ्गणेऽन्वहम् ॥ ३४ ॥ यस्मिन् पुरे समवरैर्मनोहरैर्ध्वजव्रजै राजितसच्छिरोभिः । विभासमानैः किमु तन्यतेऽरं हास्यं सुपर्वालिपतिनगर्याः ॥ ३५॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238