Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 181
________________ १६० विज्ञप्तिलेखसंग्रह • अथ नगरवर्णनम् - बभुर्विहारा वसुधाविशालसीमंतिनीभालललामतुल्याः। जगत्पतीनां सुरभूपतीनां, पदप्रदा धर्मनरेन्द्रगेहाः ॥ १९ ॥ बभुर्विहारा धरणीतलेषु विमानराजी किमु नाकिभूपतेः । विलोक्य भूपीठसमागतेयं जगद्विभूनामिति तय॑ते बुधैः॥२०॥ यत्रार्हतां वेश्मशिरस्सु बद्धा बभुर्नवीना विलसत्पताकाः । जित्वा दिवं शीघ्रजयत्वसूचाकराणि चिह्नान्यनिशं दधौ किम् ॥ २१ ॥ यस्यां वलक्षा वरवैजयन्त्यो, विभान्ति हर्येषु जिनेश्वराणाम् । विज्ञातुकामः त्रिदशापगौषः, पुरस्समृद्धिं समियाय मेने ॥ २२ ॥ क्षीणाष्टकर्माश्रयशीर्षभागे, बभुः पताकाः परितो लुलन्त्यः । किमाह्वयन्ति प्रणतिप्रवीणान् , जनान् क्वणर्किकिणिकारवेण ॥ २३॥ ॥ यत्राहतां सद्मनि वैजयन्त्यो, विरेजिरे वायुवशाल्लुलन्त्यः । निवारयन्तीव तमःप्रवेशं पुरिप्रदेशे परितो विचित्राः ॥२४॥ जिनेन्द्रहर्म्यध्वजतुङ्गदण्डाः, स्फुरन्मणीभिः खचिता विरेजुः । विरंचिनोज़ धरणार्थमुच्चैः धृता मरुन्मन्दिरवीविधानाम् ॥ २५॥ यस्यां पुरि श्रीजिनमन्दिरेषु, सोपानपतिः परितश्चकास्ति । सिद्ध्यग्रभागाश्रयणाय मेने, निःश्रेणिका किं विधिना कृतेयम् ॥ २६ ॥ सदा ये प्रभुं भावशुद्ध्या भजन्ते, त्रिकालं नरास्ते वजन्त्यूर्ध्वमेव । जिनेन्द्रगृहोत्तुङ्गशृङ्गे सुवर्णाः, ब्रुवन्तो यथाऽस्माकमेवेति कुम्भाः ॥ २७॥ यस्यां गृहस्य प्रमदाजनानां, चन्द्राश्मरत्नप्रविनिर्मितायाम् । प्रणालिकायां स्वपनानि ग्रीष्मे, भवन्ति नीरेण विनापि बाढम् ॥ २८॥ यत्रार्हतद्युम्नवतां गृहाणि,स्फुरन्मणीभिः खचितानि येषु । साशङ्कमेताः प्रमदा विरेजे, संक्रान्तदेहाः स्वपतिं भजन्ति॥२९॥ गृहे गृहे यत्र विभान्ति नार्यों, विनिद्रपाथोजसुपत्रनेत्राः।। समभ्यसन्तीव भुवस्समागता, निमेषविद्यां किमु नाकिपत्न्यः ॥ ३०॥ . अलक्ष्यलक्ष्मीश्वरमन्दिरेषु, पयोनिधेर्दैहभवां कुशीलम् । विलोक्य विज्ञाय विमर्षभावात् , कृष्णोऽपि कृष्णत्वमवाप देहे ॥ ३१ ॥ भासते विशदपौषधशाला, धर्मदन्तिपतिखेलनशाला । चित्रविचित्रितपवित्रविशाला, स्वस्तिकादिकृतमङ्गलमाला॥३२॥ - श्रियः पदे श्रीमति गूर्जराहनिवृद्धरास्त्रीतिलकायमाने । प्रोत्तुङ्गवप्रप्रविराजमाने, श्रीपत्तने भूवलयप्रसिद्धे ॥३३॥ श्रीमद्गुरोः पादसुपर्वपादपविन्याससंचारपवित्रिते वरे । सुश्रीमति श्रीमति तत्र भूतलद्रङ्गोत्तमे मोदरसातिपूरिते ॥३४॥ चारुमानसुधना अपि लोका भूरि भूरि जितनागरलोकाः। आर्जवादिसुगुणा गंतशोका बुद्धिभिर्विजिताखिललोकाः॥३५॥ तीर्थाधीशविहारवारितमहापापप्रकर्षोदयाद् वेलानिर्जितवासहपतिव्रातैस्सदा सेवितात् ।। दुर्गस्थैः कपिशीर्षकैर्वरकरैस्त्रैलोक्यलक्ष्मी हठादाह्वातुं रविद्योतनात् शुभमयाद् रङ्गात् सुरात् पत्तनात् ॥ ३६ ॥ सानन्दमुलासितपूर्वकायं, स्वभालविन्यस्तकराब्जयुग्मम् । विराजि रोमाकुरभृद् विधत्ते, विज्ञप्तिकां द्राग् अमरादिचन्द्रः॥ ३७॥ पूर्वाद्रिशैले शिखरानुकारे, चञ्चत्प्रभाराजिविशालबिम्बे । पयोजबन्धोर्महतां समाजे, हर्षादुपेते सदुपाश्रयान्तः॥३८॥ अपि चश्रीमद्धनिनां पुरतः प्रातः प्रातः सुपर्वसदृशानाम् । वाच्यते करणं मुक्तेर्वृत्तिर्वरयोगशास्त्रस्य ॥ ३९ ॥ 35 सुविहितसाधुजनानां पठनं परिपाठनं सदानुमतम् । सन्नन्दिभवनयोगोद्वहनादिसुकृत्यमतिरम्यम् ॥ ४०॥ Jain Education Intemational ducation Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238