________________
१६०
विज्ञप्तिलेखसंग्रह
• अथ नगरवर्णनम् - बभुर्विहारा वसुधाविशालसीमंतिनीभालललामतुल्याः। जगत्पतीनां सुरभूपतीनां, पदप्रदा धर्मनरेन्द्रगेहाः ॥ १९ ॥ बभुर्विहारा धरणीतलेषु विमानराजी किमु नाकिभूपतेः । विलोक्य भूपीठसमागतेयं जगद्विभूनामिति तय॑ते बुधैः॥२०॥
यत्रार्हतां वेश्मशिरस्सु बद्धा बभुर्नवीना विलसत्पताकाः । जित्वा दिवं शीघ्रजयत्वसूचाकराणि चिह्नान्यनिशं दधौ किम् ॥ २१ ॥ यस्यां वलक्षा वरवैजयन्त्यो, विभान्ति हर्येषु जिनेश्वराणाम् । विज्ञातुकामः त्रिदशापगौषः, पुरस्समृद्धिं समियाय मेने ॥ २२ ॥ क्षीणाष्टकर्माश्रयशीर्षभागे, बभुः पताकाः परितो लुलन्त्यः ।
किमाह्वयन्ति प्रणतिप्रवीणान् , जनान् क्वणर्किकिणिकारवेण ॥ २३॥ ॥ यत्राहतां सद्मनि वैजयन्त्यो, विरेजिरे वायुवशाल्लुलन्त्यः । निवारयन्तीव तमःप्रवेशं पुरिप्रदेशे परितो विचित्राः ॥२४॥
जिनेन्द्रहर्म्यध्वजतुङ्गदण्डाः, स्फुरन्मणीभिः खचिता विरेजुः । विरंचिनोज़ धरणार्थमुच्चैः धृता मरुन्मन्दिरवीविधानाम् ॥ २५॥ यस्यां पुरि श्रीजिनमन्दिरेषु, सोपानपतिः परितश्चकास्ति । सिद्ध्यग्रभागाश्रयणाय मेने, निःश्रेणिका किं विधिना कृतेयम् ॥ २६ ॥ सदा ये प्रभुं भावशुद्ध्या भजन्ते, त्रिकालं नरास्ते वजन्त्यूर्ध्वमेव । जिनेन्द्रगृहोत्तुङ्गशृङ्गे सुवर्णाः, ब्रुवन्तो यथाऽस्माकमेवेति कुम्भाः ॥ २७॥ यस्यां गृहस्य प्रमदाजनानां, चन्द्राश्मरत्नप्रविनिर्मितायाम् ।
प्रणालिकायां स्वपनानि ग्रीष्मे, भवन्ति नीरेण विनापि बाढम् ॥ २८॥ यत्रार्हतद्युम्नवतां गृहाणि,स्फुरन्मणीभिः खचितानि येषु । साशङ्कमेताः प्रमदा विरेजे, संक्रान्तदेहाः स्वपतिं भजन्ति॥२९॥
गृहे गृहे यत्र विभान्ति नार्यों, विनिद्रपाथोजसुपत्रनेत्राः।। समभ्यसन्तीव भुवस्समागता, निमेषविद्यां किमु नाकिपत्न्यः ॥ ३०॥ . अलक्ष्यलक्ष्मीश्वरमन्दिरेषु, पयोनिधेर्दैहभवां कुशीलम् ।
विलोक्य विज्ञाय विमर्षभावात् , कृष्णोऽपि कृष्णत्वमवाप देहे ॥ ३१ ॥ भासते विशदपौषधशाला, धर्मदन्तिपतिखेलनशाला । चित्रविचित्रितपवित्रविशाला, स्वस्तिकादिकृतमङ्गलमाला॥३२॥ - श्रियः पदे श्रीमति गूर्जराहनिवृद्धरास्त्रीतिलकायमाने । प्रोत्तुङ्गवप्रप्रविराजमाने, श्रीपत्तने भूवलयप्रसिद्धे ॥३३॥
श्रीमद्गुरोः पादसुपर्वपादपविन्याससंचारपवित्रिते वरे । सुश्रीमति श्रीमति तत्र भूतलद्रङ्गोत्तमे मोदरसातिपूरिते ॥३४॥ चारुमानसुधना अपि लोका भूरि भूरि जितनागरलोकाः। आर्जवादिसुगुणा गंतशोका बुद्धिभिर्विजिताखिललोकाः॥३५॥ तीर्थाधीशविहारवारितमहापापप्रकर्षोदयाद् वेलानिर्जितवासहपतिव्रातैस्सदा सेवितात् ।। दुर्गस्थैः कपिशीर्षकैर्वरकरैस्त्रैलोक्यलक्ष्मी हठादाह्वातुं रविद्योतनात् शुभमयाद् रङ्गात् सुरात् पत्तनात् ॥ ३६ ॥
सानन्दमुलासितपूर्वकायं, स्वभालविन्यस्तकराब्जयुग्मम् ।
विराजि रोमाकुरभृद् विधत्ते, विज्ञप्तिकां द्राग् अमरादिचन्द्रः॥ ३७॥ पूर्वाद्रिशैले शिखरानुकारे, चञ्चत्प्रभाराजिविशालबिम्बे । पयोजबन्धोर्महतां समाजे, हर्षादुपेते सदुपाश्रयान्तः॥३८॥
अपि चश्रीमद्धनिनां पुरतः प्रातः प्रातः सुपर्वसदृशानाम् । वाच्यते करणं मुक्तेर्वृत्तिर्वरयोगशास्त्रस्य ॥ ३९ ॥ 35 सुविहितसाधुजनानां पठनं परिपाठनं सदानुमतम् । सन्नन्दिभवनयोगोद्वहनादिसुकृत्यमतिरम्यम् ॥ ४०॥
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org