________________
तपोगणप्रतिश्रीविजयसिंहसूरि प्रति पं० अमरचन्द्रप्रेषिता
[१२] - विज्ञप्ति का -
स्वस्तिश्रीपतगेश्वरध्वजवधूर्यस्य क्रमाम्भोरुहं, भेजे चञ्चलतामपास्य विलसत्कैवल्यकान्तागृहम् । खर्वापीव तरङ्गपाणिकमलेनालिङ्गय पाथोनिधिं, स श्रीनाभिनरेन्द्रवंशगगनप्रद्योतनद्योमणिः ॥१॥ स्वस्तिश्रीशिवसुन्दरीस्तनतटासक्तोऽपि संकीर्त्यते, यो विश्वत्रितयेषु निर्जितजराभीरुर्विपश्चिजनैः ।। श्रीनाभेयरविहिनस्तु दुरितध्वान्तं वचोभानुभिर्भक्तिप्रह्वतनुस्पृशां त्रिजगतीध्येयाभिधानो ह्यसौ ॥ २॥ स्वस्तिश्रीभ्रंमरीव पादकमलं भेजे युगादिप्रभोः, कल्याणद्रुमसिञ्चनेषु जलदं श्रेयःश्रियामाश्रयम् । संसाराम्बुपतत्समस्तमनुजान् संरक्षणे तीर्थपो, जीयान्नाभिवसुन्धरापतिसुतः पोतायमानः प्रभुः ॥३॥ स्वस्ति क्षीरतरङ्गमालिदुहिता सिन्दूरपूरायते, सीमन्तं भवभूरुहेषु विलसज्वालाकलापानलः । नम्रवर्गिनरेन्द्रमौलिमुकुटे शोणत्वमुत्पादयन् , श्रीमन्नाभिनरेशबालनखरो माञ्जिष्ठशोभां दधन् ॥ ४॥ ॥ ____अजितं जितकर्मवैरिणं, विकचाम्भोजपलाशलोचनम् ।
विजयातनुजोऽपि योऽभवद् , विजयाकामुक एव केवलम् ॥ ५॥ अजितं जितशत्रुवाहिनीपतिनेमीललनाधवाङ्गजम् । विजयातनुजोऽपि कीर्त्यते, विजयोत्पादक एव यो बुधैः ॥६॥
चन्द्रप्रभ चन्द्रमरीचिज्योत्स्ना-विडम्बि वक्त्रं पदलक्ष्मदम्भात् ।
दोषाकरत्वं मयि जातमीश ! कुतः प्रभो ! प्रष्टुमिवागतोऽयम् ॥ ७॥ चन्द्रप्रभं भव्यकुमुद्वतीषु चन्द्रप्रभं तीर्थपति भजध्वम् । चन्द्रानना यद्वदनं विलोक्य, पलाशपत्रप्रतिमं वदन्ति ॥८॥ भजत शीतलतीर्थपतिं जना भवति मुक्तिवधूकरपीडने । अधरयन्निव चन्दनविग्रुषो मधुरया सुगिरा यदि वाञ्छना ॥९॥ प्रणतदेवनरोरगनायक-प्रवरमौलिमणीकषतेजितम् । क्रमणपङ्कजयामलमहतो, नमत शीतलतीर्थपतेरिदम् ॥ १० ॥ ...... यसद्विमललोचनशोभास्पर्धकं किमु मृगं रुपयेव । विश्वसेनतनयः कृतवान् यो, बन्दिनं निजपदाङ्कमिषेण ॥११॥ वृक्षजा मृगपतेरिति वामदेवसन्निधिमत्सुविलोक्य । लाञ्छनच्छलतयैव कुरङ्गाश्शांतिपादयामलं भजन्ति स्म ॥१२॥ 20 समद्रभपालकलाब्धिचन्द्रनेमेः क्रमाम्भोजयुगं चकास्ति । यत्पर्युपास्त्या भुवनत्रयेषु, त्रिरेखतां तत्समवाप कम्बुः॥१३॥
त्रिविक्रमत्वं च चलप्रियत्वं, जातं कुतो यस्य हरिः स जीयात् । विज्ञप्तिकामः किमु पाञ्चजन्यमप्रैषि नेमेः पदलक्ष्मदम्भात् ॥ १४ ॥ निरीक्ष्य पार्थो भवपातकेन, वचोगुणैः खिन्नजनानुद्धृत्य । - सप्तेषु सप्ताहिफणस्य दंभात् , सप्तार्गला यो नरकेषु चक्रे ॥१५॥ सप्तस्फटालङ्कृतनागराजमधत्त किं सप्तभुवः पतित्वम् । आसाद्य वामेयजिनः स जीयात् , मौलौ कृतान्यातपवारणानि ॥ १६ ॥ निःकामविश्वत्रितयस्य बन्धोः, पादाम्बुजं वीरजिनेश्वरस्य ।
आसाद्य मुक्तिं किमु लक्ष्मदम्भात्, देहीति वक्तुं हरिरागतोऽयम् ॥१७॥ सिद्धार्थधात्रीपतिराजवंशनभोऽङ्गणाहर्मणिरेष वीरः । पतित्वपितृत्वसमानधर्ममारोप्य यं या भजति स्म चित्रम् ॥१८॥
॥ इति श्रीजिनवर्णनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org