________________
5
10
15
20
25
१५८
विज्ञप्तिलेखसंग्रह
श्री तातपादैर्विगतप्रमादैः, सदैव शिष्योपरि सुप्रसादैः । प्रसादपत्री प्रवरा प्रया, मन्मानसानन्दकृतेति शीघ्रम् ॥ ६४॥ श्रीतातैरवधार्या त्रिसन्ध्यमपि मन्नतिर्विशेषेण । नत्यनुनती प्रसाद्ये, कृतस्थितीनां निजोपान्ते ॥ ६५ ॥ अथ सर्वेषां नत्यनुनती -
षटूत्रिंशत्सूरिगुणसहित श्रीमत् श्रीविजयसिंहसूरीणाम् । शीलादिव्रतगुणमणिरोहणगिरिसंनिभानां च ॥ ६६ ॥ जैनप्रमाण- शैव प्रमाण- सिद्धान्तविदिततत्त्वानाम् । वाचकशिरोमणीनां, वाचकचारित्रविजयानाम् ॥ ६७ ॥ साहित्यतर्कशास्त्र- च्छन्दप्रमुखैकनिपुणबुद्धीनाम् । कान्त्या जितमदनानां, वाघकलावण्यविजयानाम् ॥ ६८ ॥ श्रीशत्रुञ्जयकार्य प्रविधानप्रवणचित्तवृत्तीनाम् । सौजन्यगुणगरिष्ठश्रीपण्डितदेव विजयानाम् ॥ ६९ ॥ सुरगुरुसमबुद्धीनां लिवीकृतानेकलेखपत्राणाम् । सकलप्रधानमुख्य श्री पण्डित कुशल विजयानाम् ॥ ७० ॥ नूतनजिनवरभुवनाभिनवार्हतबिम्बमुदितचित्तानाम् । श्रीगुरुसेवारसिकश्रीपण्डितकुमर विजयानाम् ॥ ७१ ॥ स्वाध्यायविनयकारकगणिवरगणिपद्मविजयसंज्ञानाम् ।
गणिषीमविजयनाम्नां समस्तमुनिभक्तिचित्तानाम् ॥ ७२ ॥
गणिहंस विजयनाम्नां स्वकीयचातुर्यविजितहंसानाम् । गणिहर्षविजयनाम्नां गुरुसेवारसिकचित्तानाम् ॥७३॥ गणिसोमविमलनाम्नां, सुवर्णसंयुक्तसोमवदनानाम् । गणिवृद्धिविजयनाम्नां विद्याविनयैकचित्तानाम् ॥ ७४॥ गणिप्रेमविजयनाम्नां, चन्द्राननचन्द्रविजयसंज्ञानाम् । गणिभावविजयनाम्नां कुशाग्रसमशेमुषीणां च ॥७५॥ गणि साधुविजयनाम्नामधीतगाथाशतप्रविदितानाम् ।
मुनिमेघविजयनाम्नां षिमाविजय - किरणविजयानाम् ॥ ७६ ॥ सदयादि विजयनानां, रङ्गितदशनालिरङ्ग विजयानाम् । श्रीगुरुसेवारसिकक्षुल्लक मुनिहस्ति विजयानाम् ॥७७॥ गणि सत्यविजयनानां, सत्यादिकगुणगणाभिरामानाम् । गणिमान विजयनाम्नां दुःकरतपकारकाणां च ॥७८॥ गणिला भविजयनाम्नां श्रीगुरुचरणारविन्दमधुपानाम् ।
गणिलक्ष्मि विजयनाम्नां क्षुल्लकमुनिलक्ष्मि विजयानाम् ॥ ७९ ॥
गणिहेमविजयनाम्नां वाचकचरणारविन्दमधुपानाम् । मुनिहेमविजयनाम्नां रवि विजयानां मुनिवराणाम् ॥ ८० ॥ इत्यादिसकल मुनिवरपुरन्दराणां च साधुसाध्वीनाम् । अत्रत्ययतिजनानां गणिवरगणिमान विजयानाम् ॥ ८१ ॥ गणिदेवविजयनाम्नां मुनिवरमुनिधर्म विजयसंज्ञानाम्। लक्ष्मीविजयमुनीनां कृपाकृपाविजयसंज्ञानाम् ॥ ८२ ॥ थिरविजयप्रमुखाणामित्यादिकस कलमुनिवराणां च । श्रीतातैर्गतपापैर्नतिरवधार्या त्रिसन्ध्यमपि ॥ ८३ ॥
अत्रत्यसकलसङ्घः क्षितितलविन्यस्त मस्तको नित्यम् । प्रणमतितरां सुभक्त्या गुरुराजं गुरुगणगरिष्ठम् ॥ ८४ ॥ श्रीताँतैर्जिननमनावसरे च स्मृतिपथं सदा कार्यः । शिष्याणुकः स्वकीयः सुन्दरजिनभवननिकरेषु ॥ ८५ ॥ यत् क्षुण्णं लेखान्तर्मात्राक्षरबिन्दुकार्थयतिभिश्च । तत्सर्वं क्षन्तव्यं श्रीगुरुराजैः क्षमावर्यैः ॥ ८६ ॥ मार्गशीर्षसिते पक्षे, पञ्चम्यां च तिथौ मुदा । लिवीकृतो मया लेखो, भूरि भक्त्येति मङ्गलम् ॥ ८७ ॥
Jain Education International
*
[ पत्रपृष्ठे - ' उपाध्यायश्री कीर्तिविजय' इति शिरोलेखः । ]
For Private & Personal Use Only
www.jainelibrary.org