________________
१५७
कीर्तिविजयप्रेषिता विज्ञप्तिका महेभ्यसभ्यावलिशोभितायां, समग्रदेवेन्द्रसो(शो)भानिभायाम् । अनेकचातुर्यगुणप्रकर्ष-सुश्राविकाश्रावकशोभितायाम् ॥ ४१॥ प्रज्ञप्तिसूत्राङ्ग-सुराजप्रश्नी-ससूत्रवृत्तेविधिवत् सुवाचनम् ।
सदर्थसंदर्भनयान्वितायाः, सदर्थतः शम्भुसमुद्भवायाः ॥ ४२ ॥ समस्तवाचंयमशास्त्रपाठनं, सदैव योगोद्वहनं च वाहनम् । तुर्यव्रतोच्चारणपूर्वकं च, श्रद्धापरश्राद्धपरंपराणाम् ॥४३॥
सदोपधानादिक्रियाकलाप-सुवाहनं मोक्षसुखाभिलाषिणाम् ।
सुश्राविकाश्रावकसञ्चयानां, सानन्दनन्द्युत्सवपूर्वकं च ॥ ४४ ॥ निःशेषधर्मादिककत्यजातं. संजायते जातमघोत्सवेन । क्रमागते वार्षिकनामपर्वणि. प्रमोदितानेकनसत्सपर्वणि ॥४५ समस्तपर्वप्रकरप्रगर्व-प्रहारिणि प्रोद्भुतशर्मणीह । निरन्तरं सप्तदशप्रकार-जिनार्यनं श्रीजिनमन्दिरेषु ॥ ४६॥
पूगीफलश्रीफललड्डुकादिभिः, प्रभावनापूर्वकमद्भुतं च ।।
साधर्मिकाणां शुकभक्षिकादिभिः, सुभक्तिपूर्व प्रतिपक्षिकादिषु ॥ ४७ ॥ सद्रव्यसङ्घातसुदानपूर-प्रमोदितानेकवनीपकौघम् । समस्तसत्त्वाभयदानकानां, प्रघोषणं प्रोद्भुतशब्दकौधैः ॥४८॥ यथाक्रमं चाक्रिकतैलिकादि-कुकर्ममर्मालिनिवर्तनं च । अनेकवादित्रसमस्तसङ्घ-पुरस्सरं श्रीजिनराजवन्दनम् ॥४९॥ दुष्टाष्टकर्मावलिकाष्ठपुञ्ज-प्रज्वालनं प्राग्र्यधनं जयाभम् । अनेकपक्षक्षपणाष्टमादि-सुदुस्तपं श्रेणिविधानपूर्वकम् ॥५०॥ इत्यादिपर्वावलिपुण्यकृत्यं, विघ्नाद्यभावेन सुखेन जातम् । श्रीतातपादप्रवराम्बुजन्म-प्रौढप्रभावादपरं सुदृष्ट्या ॥५१॥ 15
प्रभो! त्वदीयं वदनं निरीक्ष्य, समस्तलक्ष्म्याः सदनं सदोदयम् । तमखिनीप्राणपतिर्जगाम, सू(शून्यालये सर्वकलोज्झितः सन् ॥ ५२ ॥ वाचंयमाधीश्वर ! तावकीनं, वृत्ताननं वीक्ष्य कलाभिरामम् । दोषाकरोऽहं निजकीयचित्ते, ज्ञात्वेत्यगात् सू(शू)न्यपदे सलज्जः ॥ ५३॥ प्रभो ! त्वदीयाननकौमुदीशः, चकास्ति विश्वत्रितये मुनीश!।
प्रोल्लासयन् पावनपुण्यमार्गः, चकोरसङ्घातमतीव प्रीत्या ॥ ५४॥ विभ्राजते त्वन्मुखशर्वरीशः, क्षोणीतले प्रोन्नतसन्नरेशः। प्रकर्षयन् पण्डितमानवौघ-श्रोतस्विनीप्राणपतिं सहेलम् ॥५५॥
समस्तसूरीशमनोज्ञवक्त्र-सुधाकरः कान्तिसुधाप्रयुक्तः । विबोधयन् मानवकैरवौघ, संकोचयन् दुर्मदवादिवारिजान् ॥ ५६ ॥ श्रीमत्थिरानन्दन ! तावकीनं, समीक्ष्य वक्त्रं विबुधा वदन्ति । किं कौमुदीशः कलकान्तिमत्त्वात् , किं दर्पणः पेशलकान्तिमत्त्वात् ॥ ५७ ॥ विभ्राजते त्वन्मुखपूर्णिमेन्दुर्विखे(धे) यथा मञ्जलरक्तकन्दुः ।
मनोज्ञलावण्यसुचन्द्रिकौघ, विराजमानः थिरराजपुत्र ! ॥ ५८ ॥ श्रीमद्गणाधीश्वर ! तावकीनमुखौषधीप्राणपतिर्विभाति । हर्षप्रकर्ष जनयन् नितान्तं, समस्तभव्यव्रजकैरवाणाम् ॥५९॥ त्वदीयवक्त्रप्रभया जितः सन् , पद्माकरः पद्मसरोवरेषु । पङ्कप्रकर्षेषु गृहं चकार, से(शे)वालसंयुक्तशरीरयष्टिः॥६०॥"
दृष्ट्वा त्वदीयाननकान्तकान्ति, पाथोरुहं पद्मसरोवरेषु ।
सी(शी)तादि दुःखं सहते सदैव, प्राप्तुं प्रभो ! त्वन्मुखकान्तिसाम्यम् ॥ ६१ ॥ महीतले त्वद्वदनारविन्दं, विराजते सूरिशिरोवतंसम् । अनेकभव्यव्रजराजहंसः, संसेव्यमानं कमलानिधानम् ॥६२॥
इत्यादिकसद्गुणसो(शो)भितायां, समस्तसूरीशशिरोमणीनाम् । अथैव मां मोदकरा भविष्यति, प्रसादपत्री करुणापराणाम् ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal Use Only