________________
विज्ञप्तिलेखसंग्रह
श्रीमजिनानां प्रतिमा विभान्ति, प्रासादमध्ये वरकान्तिकान्ताः । अनेकदेवेन्द्रसुरेन्द्रचन्द्रासुरेन्द्रनागेन्द्रकृतैकसेवाः ॥१८॥ प्रासादपतौ विरराज कुम्भः, सुवर्णवर्णप्रभयाभिरामः ।
भव्याङ्गिनां कामितपूरणाय, क्षोणीतले कामघटेव नित्यम् ॥ १९॥ 5 यस्मिन् पुरे राजति राजलोकः, सदैव दूरीकृतसर्वशोकः । सन्मानसंशोभितसाधुलोको, दाक्षिण्यचातुर्यगुणोपपेतः॥२०॥ पण्याङ्गनापात्रपरंपराभिर्विराजते वर्यपुरं पुराग्रम् । अष्टादशाग्रेसरवर्णवर्य, महीधरश्रेणिविराजमानम् ॥ २१ ॥
सुश्राविका यत्र पुरप्रधाने, विवेकचातुर्यगुणैकराजी। सिद्धान्तशास्त्रार्थविचारदक्षा, साक्षात् सदा भाति सरखतीव ॥ २२ ॥ यस्मिन् पुरे खञ्जनमञ्जलाक्षि-लक्ष्मीव साक्षाललना विभाति । सुवर्णमुक्ताफलभूषणौघ-विभूषितक्षेत्रमनोज्ञयष्टिः ॥ २३ ॥ यस्मिन् पुरे भाति सदा सदाभा रामा रमेव प्रतिवासरं हि ।
प्रकुर्वती खीयपतेश्च सेवां, स्वकीयनाथानुगतैकचित्ता ॥ २४ ॥ यस्यां नगर्या रमणीयरामा, विभाति नित्यं सुगुणैकधामा । सद्धर्ममार्गे कृतगीतगाना, सुराङ्गनागानसमानगाना ॥२५॥ यस्यां नगर्यां प्रमदा समोदा, हर्षप्रकर्षेण ददाति दानम् । वाचंयमानां वरसंयमानां, महोदयानन्दसुखप्रदानाम् ॥२६॥
यस्मिन् पुरे भाति सदा सतीव, सीमंतिनीश्रेणिरतीव नित्यम् ।
पतिव्रतादिप्रगुणाभिरामा, सद्धर्मममैकसुसावधाना ॥ २७॥ विभ्राजते यत्र पुरे मृगाक्षी स्वकीयगत्या जितराजहंसी । मनोज्ञमाधुर्यवचःप्रपञ्चसन्तर्जितानेकपिकैकगाना ॥२८॥
उपाश्रये यत्र विभाति रामा, श्रीमद्गुरूणां पुरतः सकामा ।
मुक्ताफलस्वस्तिकसत्समूह-सम्पादनैः शोभितदेहदेशा ॥ २९ ॥ 20 सुश्राविका भान्ति पुरप्रधाने, यत्रापणश्रेणिविराजमाने । समस्तलक्ष्मीधनदोपमाना, सद्धर्मकार्येषु सुसावधाना ॥३०॥ उपासका यत्र पुरे जयन्तु, चातुर्यधैर्यादिगुणाभिरामाः। निःशेषशास्त्रार्थविचारसार्थविज्ञातजीवादिकतत्त्वंतत्त्वाः॥३१॥
जयन्तु यस्मिन्नगरे समस्त-श्राद्धाः सुधाकल्पवचःप्रपञ्चाः । सन्यायमार्गार्जितहाटकौघाः, संवर्धितानेकपवित्रपुण्याः ॥ ३२ ॥ यस्मिन्निलादुर्गवरे जयन्तु, सुश्रावकाः पुष्कलि-शङ्खतुल्याः । सद्धर्ममार्गप्रवरप्रतिज्ञा, देवासुरश्रेण्यहतप्रभावाः ॥ ३३॥ खदारसन्तुष्टिभृतः सुशीलाः, सुदर्शनश्रेष्ठिसमप्रतिज्ञाः ।
श्रद्धालवः श्राद्धगुणप्रकृष्टा, जयन्तु यस्मिन्नगरे गुणज्ञाः ॥ ३४॥ श्रीतातपादाम्बुजरेणुपुञ्ज-पवित्रिते श्रीमति तत्र दुर्गे । इलाभिधाने नगरप्रधाने, निःशेषलक्ष्मीललनानिधाने ॥३५॥
श्रद्धापरश्राद्धसहस्रयुक्तात् , मनोज्ञहावलिशोभमानात् । विद्यापुराद्वर्यवशासमूहात्, प्रज्ञातसिद्धान्तरहस्यपौरात् ॥३६॥ क्षोणीतले न्यस्तनिजोत्तमाङ्गः, संयोजितात्मीयकराम्बुजन्मा।
सत्कीर्तिपूर्व विजयाभिधानः, शिशुः प्रकृष्टाणुनिभः सहेलम् ॥ ३७॥ हर्षप्रक(कमनोज्ञचित्तं, सोत्साहसंयुक्तमतीव भक्त्या । खोत्कण्ठसङ्घातसमन्वितं च, सद्वादशावर्तकवन्दनेन ॥३८॥ विज्ञप्तिकां संतनुतेऽभिवन्ध, यथा प्रयुक्तं हि यथात्रकृत्यम् । प्रौढप्रभाते कमलाकरेषु, प्रबोधितानेकपयोजराशौ ॥३९॥ 35 समस्तचक्रावलिचक्रवाकीप्रमोदसन्दोहविधानदक्षे । भानौ प्रभापिञ्जरितास्य लोके, समुत्थिते कुङ्कुमरक्तभानौ ॥४०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org