________________
अमरचन्द्रप्रेषिता विज्ञप्तिका
१६५ सततभवोल्बणतापापनोदमेघागमे सुकृतिरम्ये । परिपाट्यां समुपेयुषि पर्वणि सांवत्सराभिधे रम्ये ॥४१॥ विश्वविश्वजनवाञ्छितवस्तुप्रापणे सुरतरोरतिरम्ये । कल्पसूत्रवरसूत्रवाचनं, याचनं सुकृतवार्द्धिसुतायाः ॥४२॥ श्रीमजिनपतिशासनमहोदयोद्दामविजयकृत्परमः । द्वादशदिवसामारिप्रदानकृत् भवति पटुपटहः ॥४३॥ नार्डिधमनिर्णेजककुलालकैवर्ततक्षकमुखानाम् । यत्र च न भवति कृत्यं द्यूतकृतां तन्तुवायानाम् ॥ ४४ ॥
किं बहुना?इत्याधनेकसौकृतकृत्यं निर्विघ्नमहितविध्वसि । समहामहं बभूव च सदोदयं दलितपापभरम् ॥४५॥ तत्रानन्दसुखानुबन्धिभगवत्पादारविन्दद्वयी, ध्यानोद्धृतशुभोदयैः फलवतो जाग्रन्महापुण्यतः। जज्ञे यत्परिपूर्तिरुज्वलतरा धर्मस्य धर्मात्मनां, निर्दूताखिलकल्मषं कलिकलाप्लोषैकदुष्टात्मनः ॥ ४६॥ अथ श्रीतातपादानां वर्णनम् - त्वपर्युपास्तिः फलदा मुनीश ! विशुद्धभावेन कृता जनैः । अमर्त्यभावं समवाप्य सद्योऽपुनर्भवं ते सततं लभन्ते॥४७॥ ॥
तपोधनद्वन्द्वचरे पतङ्ग !, ये स्युस्तवाराधनतो वियुक्ताः।
निःश्रेयसं दुर्मतिभिर्दुराप्यं, कार्यं भवेत् कारणतो विना न ॥४८॥ नैयायिका निर्भयतो वदन्ति, द्रव्ये गुणानां समवेतभावः। चेतश्चमत्कारकृतेन चैतत् , भवद्गुणानां गमनं ककुप्सु॥४९॥
त्वदीयमूर्ति प्रविलोक्य लोका, अमन्दमानन्दभरेण नित्यम् ।
वितर्कशीलाः किमु चन्द्रज्योत्स्नां, भवन्ति किं शान्तरसप्रदेशाः ॥ ५० ॥ त्वदीयरूपं जलशायिकान्तासूनोस्समानं प्रविलोक्य मोदम्। वामध्रुवो रात्रिदिनं भजन्ते, त्वद्वेष्यभावो हि न साधुधर्मः॥
त्वदीयमूर्ति कृतकृत्यभावं, निर्माय मेने हि सरोरुहासनः।
अहं जगन्मोहनकप(१) मन्ये, त्वदाकृतेस्साम्यवियोगभावात् ॥५२॥ इत्यादिकैः सद्गुणशोभमानैः, भूपालसंसत्समवासमानैः । श्रीतातपादैविगतापवादैस्सदावधार्या प्रणतिर्मदीया ॥ ५३॥ तत्रत्य
__20 श्रीमत्तातपदाम्भोजसेवाविधिसमुत्सुकाः । श्रीराजसुन्दराद्वाना विबुधश्रेणिभूषणम् ॥ ५४॥ श्रीहस्तिहस्तिविजया विबुधा बुद्धिशालिनः । श्रीऋद्धिसोमविबुधा विनयर्द्धिविभूषिताः ॥ ५५॥ प्रज्ञावज्ञातधिषणाः कोविदश्रेणिमण्डनम् । उदयाद्विजयाह्वाना मुक्तितो विजया बुधाः॥५६॥ श्रीसत्यविजयविज्ञाः श्रीहर्षविजया बुधाः । शिवाद्विजयगणयो रवितो विजयास्तथा ॥ ५७ ॥ गणिगङ्गदर्शनाख्याः सिद्धितो विजया अपि । विजयात्सोमगणयः सर्वेऽप्यन्येऽपि साधवः॥५८॥ 25 इत्यादिसाधुसिंहानां प्रत्येकं मुनिपुङ्गवैः । प्रसाद्या[ ह्यानुनतिर्मे श्रीमत्तातैः क्षमाधरैः ॥५९॥
तथात्रत्यकोविदा लीलचन्द्राह्वाश्चारित्राचन्द्रनामकाः । लावण्यचन्द्रगणयो गुणचन्द्राभिधानकाः ॥६॥ हेमचन्द्राभिधः साधुर्जिनचन्द्राभिधो मुनिः । इत्यादियतयस्सर्वे नमन्ति स्म निरन्तरम् ॥ ६१॥ आश्विनाभिधमासस्य पक्षे शुक्लेतरे तिथौ । सप्तम्यां लिखितो लेख इति मङ्गलमालिका ॥ ६२॥ तातपादपदाम्भोजसेवाव्रतमधुव्रतः । प्रणति स्म लीलचन्द्रस्त्रिसायं बहुभक्तियुक् ॥ ६३॥
लेख्य देवकपत्तनात् उ० श्रीअमरचन्द्रगणिः । पूज्याराध्यसकलसकलानूचानशिर कोटीरहीर
श्री१९श्रीविजयसिंहसरिसिंहानामियं विज्ञप्तिः । श्रीपत्तननगरे ।
वि.म.ले. २१
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org