Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 184
________________ १६ उदयविजयप्रेषिता विज्ञप्तिका साक्षादतिक्रामति सिन्धुसङ्गात् , सीमानमेतत्पुररत्नभून । यद्वा पुरस्यास्य सदा प्रसङ्गात्, सीमानतिक्रामक एष सिन्धुः ॥१५॥ श्रीणामजस्रं प्रभवः पयोधिर्मन्ये पुरस्यास्य समीपवृत्तेः । समीपवृत्तेर्यदि वा पयोधेः, पुरं पुरं वा श्रिय एकभूमिः ॥ १६ ॥ अस्माकमत्यच्छतराशयानां, सन्तापको मित्रतयापि पापः । सुधावलेपा इति यंत्र गेहाः, सूरं ध्वजाप्रैः परिताडयन्ति ॥१७॥ खरस्वरूपोऽपि हि मित्रनामा, व्यतीतवस्त्रीभवदन्दवृन्दः।। शद्धाशया यत्र सुधावलिप्ता. गृहा ध्वजस्तं परिधापयन्ति ॥१८॥ राजाऽपि रात्रौ परितः प्रचारं, करोषि(ति) तंद्रष्टमनह एव । प्रच्छादयन्तीति यदीयगेहाः, सुधाकरं नक्तमिह ध्वजागः ॥ १९॥ वस्तूनि सर्वाण्यपि यत्र काममगण्यतामानि भवन्ति नित्यम् । सद्रोहणाद्राविव रत्नमाला, तारावली वा गगने प्रदीप्रा ॥ २०॥ सौगन्धिकाट्टेषु समाततास्ते, कस्तूरिका वा हिमवालुका वा । तदट्टलक्ष्म्याः किल नित्यतायै, निशादिने साधु नियत्रिते ते ॥२१॥ यदुच्चगेहावलिराहती गीरिवानिशं निर्मलतां बिभर्ति । याणी पिकानां शितिपाक्षिकाणां, कुहूमयं तेन वृथा करोति ॥ २२ ॥ यस्मात् सुधाभिः सितिमानमेते, गेहा दधाना निजदीप्तिदभैः । निधीन् समग्रानपि पूर्णिमायाः, श्रियं प्रदीप्रामपि लम्भयन्ति ॥ २३॥-पमलम् । क्रयाणकानां निकरः पयोधिमार्गेण यत्रैति पुनः प्रयाति । मीनादिराशाविव पद्मपाणिमुख्यग्रहाणां गगनाध्वनौषः ॥ २४ ॥ उग्राश्च भोगाश्च सुनागराश्च, स्फरन्ति यस्यां शतशोऽपि लोकाः । भोगार्णसां वासकृते धुनद्यां, मीनाकरा वा मकराकरा वा ॥ २५॥ त्रिभिस्त्रिधा यत्र भृशं विभक्ता, पुरस्य सर्वाऽपि हि राजधानी। अर्थेन कामेन वृषेण चेति, सम्यग् मिलित्वा विगलद्विरोधे ॥ २६ ॥ श्रीपूज्यविष्णुप्रतिबद्धवासे, भोगाम्बुधौ द्रङ्गमणीयमाने । इत्यादिवृत्तैरुपवर्ण्यमाने, पुराभिधे तत्र पुरप्रधाने ॥ २७ ॥ - इति नगरशोभा । यत्पूज्यपादैः प्रथमं व्यलोकि, स्वभक्तिसंयुक्तजनोपसेव्यम् । जीराउलीपार्श्वजिनेन्द्रचैत्यादिभिः सनाथीकृतमध्यभागम ॥ २८ ॥ मुनिद्विषोऽस्यां कटुकाः पुराऽपि, चैत्यद्विषो लुम्पकपक्षदक्षाः। द्वयीद्विषः साम्प्रतमत्र केचिद्, विशेष एष प्रबभूव नव्यः ॥ २९ ॥ सुश्रावकास्तेन च येऽत्र जैनचैत्यादिपूजाविधिसावधानाः। तन्मानिनः स्वानपि पूर्वजान् ये, व्यामूढरूपानिव मानयन्ति ॥ ३०॥ श्रीपत्तनं धर्ममयं च राजद, रङ्गाभिधं धननिवासभूमिः।। कामाश्रयः सूर्यपुरं त्रयीमुत्क्रयीमयं वैतदिदं न विद्मः ॥ ३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238