Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 161
________________ विज्ञप्तिलेखसंग्रह 15 जहीहि भगवन् ! नित्यं मदं तनु नुतं दमम् । कुरु भक्तियुतं लोकैनंगधीर ! रधीगण ! ॥५३॥ -रथः । जगतीगतसत्कीर्तिर्जिननिर्जितदुःस्मरः । रक्ष ततोऽरभिद्धी(द्वी?)र, सुमनोमनदत्त स ॥ ५४॥-कलशः । जप दासे भवोत्तंसपरदानप्रदः सतः। दादी(दा)नघ ! रमादेवौ सेनघनवरप्रभ! ॥५५॥ - अर्धभ्रमः । युग्मम् । जज्ञे येन वृता सवा सद्बुद्धिः सिद्धिगामिनी । भजे तं तप्तदुस्तापतपसं सकलं जिनम् ॥५६॥ - शरः । जग्मुर्यस्माद् विपक्षौघा भजेयं भवभेदकम् । कम्बुकण्ठं कलाकनं रंकताकककं तकम् ॥ ५७॥ - मुद्गरः । जवात् त्यक्त्वा मदं भव्य ! भज सन्ततमीश्वरम् । रजनीनाथवदनं गत्याऽसममतङ्गजम् ॥ ५८ ॥ - वज्रम् । जडताभेदिपादाम्भोजन्मानं जिनपुङ्गवम् । जनतातारकं वन्दे, जपापुष्पौघपूजितम् ॥ ५९॥ - स्वस्तिकबन्धः। जङ्घास्तम्भयुगश्रीभिर्जितशुण्डा(ण्ड) लसत्प्रभम् । भक्तियुग् भविसम्भारतमोरविकरं परम् ॥६॥-ध्वजबन्धः । कल्याणवत्कान्तकरो जनव्रजकष्टातिभिन्यायकजे विभावसुः । कल्याणवृन्दानि करोतु निर्धमः, कलायुतः कञ्जकरो नमद्धरिः ॥ ६१॥ जयश्रियं चेद् वरितुं समुत्सुकास्तत् त्रैशलेयं भजतां कथं न तत् । यदीयसत्कीर्तिसुपर्वनिम्नगा, निर्माति नित्यं विमलं जगत्रयम् ॥ ६२ ॥ -अष्टारचक्रम् । आनन्दनं जनमनस्यनयेन मान-श्रीनन्दनत्रिनयनं विनतिं नयैनम् । नूनं जिनं विनयनमनरा नरेनं, पीनध्वनद्घनघनखनमानतेनम् ॥ ६३ ॥-२८ दलकमलम् । सुरनरभरपरशरणं, रदरम्यरमारतारतरवक्त्रम् । सुरवरकारस्करमारहरमरं वरकरं धीरम् ॥ ६४ ॥ स्मरपरवरकरचरण रतिरकर दरहरं निरस्तारम् । नरवारपरस्थरतरपरमार मारमारहरम् ॥६५॥-यमलम् । विनमे नमतं तेन विनतं नयिनन्दनम् । भिन्नं मानवनं ध्यानस्थानं सन्नयनं जन!॥६६॥-गोमूत्रिकात्रयम् । मादान्तरायमदनोत्कटदुष्टकुम्भिकुम्भिद्विषन् प्रवरभागतभीतिनीतिः । नीतिप्रयुक्तनतसङ्गतपाददामादा मानवान् प्रति कुरुष्व जिनेन्द्र सन्माम् ॥ ६७॥-दर्पणः । • संसारापारसारप्रबलसममहाकष्टक(कृ)न्नक्रवास[:], संयुक्ताम्भोधिसाधिबुडदसमनृणां पातृपाच्छ्रीविलासः । सत्त्वान् पायादपादत्त भव सकुशलस्तारहारप्रकाशः, सर्वज्ञः प्रत्नसातः प्रणतसंततससिद्धिसिद्धिप्रदः सः॥६८॥श्रीवत्सः। श्रीवर्धमानभगवानसमानमानः, श्रीवर्धमानभगवानसमानमानः। श्रीवर्धमानभगवानसमानमानः, श्रीवर्धमानभगवानसमानमानः ॥ ६९ ॥ इत्थं वर्णनपद्धति प्रणयतां नानाविधालङ्कृतिश्रेणीभूषितनैकवृत्तनिवहैरानन्दनं सर्वतः । - नत्वा तत्त्वविदां महोनिधिमिमं सैद्धार्थितीर्थकरं, ही-श्री-बुद्धिनिवासमन्दिरमहो! सस्फूर्तिकीर्तिश्रियम्।।७०॥ श्रीमहावीरजिनप्रणामकरणपद्धतिः। [अथ यत्र गच्छाधिपतेर्वविासः, तन्नगरीवर्णनम् । ] अथ सा नगरी नरामरासुरसद्विस्मयकारिणी परा । पथिकैः प्रथमं निजागतेरतिथित्वं समनायि चक्षुषोः ॥ ७१॥ परिपीय तदेकमन्दिरं, नवनव्यं प्रथमानमुत्सवम् । अपि तैर्जनितं विचित्रितैरिव जीवद्भिरहो ! सविस्मयैः ॥७२॥ • वरवर्त्मविवर्तिनस्ततो, विषयीभूतविनोदिवस्तुनः । विशदास्पदमेत्य तां पुरं, परमानन्दपदं विजज्ञिरे ॥७३॥ तदवेक्षणतः स्वचक्षुषोः, किल निर्माय सुपारणां ततः। पुरि तत्र विमेनिरे निजं, स्थितिमाधाय कृतार्थमागमम् ॥७४॥ स्फटिकाद्रिसमस्फुटस्फुरत्स्फुटिकागारकराकरैरिव । दधती परिहासिकां तु या, प्रथितायास्तत एव किं दिवः ॥७५॥ किल तत्र समस्तवस्तु यत्, सकलं तन्नगरे सदूषणम् । सकलङ्कतया त्वनीदृशं, नगरेज्ञास्ति तदद्भुतत्वभृत् ॥ ७६ ॥ - अर्थतः कुलकम् । Jain Education Intemational cation International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238