________________
विज्ञप्तिलेखसंग्रह
15
जहीहि भगवन् ! नित्यं मदं तनु नुतं दमम् । कुरु भक्तियुतं लोकैनंगधीर ! रधीगण ! ॥५३॥ -रथः । जगतीगतसत्कीर्तिर्जिननिर्जितदुःस्मरः । रक्ष ततोऽरभिद्धी(द्वी?)र, सुमनोमनदत्त स ॥ ५४॥-कलशः । जप दासे भवोत्तंसपरदानप्रदः सतः। दादी(दा)नघ ! रमादेवौ सेनघनवरप्रभ! ॥५५॥ - अर्धभ्रमः । युग्मम् । जज्ञे येन वृता सवा सद्बुद्धिः सिद्धिगामिनी । भजे तं तप्तदुस्तापतपसं सकलं जिनम् ॥५६॥ - शरः । जग्मुर्यस्माद् विपक्षौघा भजेयं भवभेदकम् । कम्बुकण्ठं कलाकनं रंकताकककं तकम् ॥ ५७॥ - मुद्गरः । जवात् त्यक्त्वा मदं भव्य ! भज सन्ततमीश्वरम् । रजनीनाथवदनं गत्याऽसममतङ्गजम् ॥ ५८ ॥ - वज्रम् । जडताभेदिपादाम्भोजन्मानं जिनपुङ्गवम् । जनतातारकं वन्दे, जपापुष्पौघपूजितम् ॥ ५९॥ - स्वस्तिकबन्धः। जङ्घास्तम्भयुगश्रीभिर्जितशुण्डा(ण्ड) लसत्प्रभम् । भक्तियुग् भविसम्भारतमोरविकरं परम् ॥६॥-ध्वजबन्धः ।
कल्याणवत्कान्तकरो जनव्रजकष्टातिभिन्यायकजे विभावसुः । कल्याणवृन्दानि करोतु निर्धमः, कलायुतः कञ्जकरो नमद्धरिः ॥ ६१॥ जयश्रियं चेद् वरितुं समुत्सुकास्तत् त्रैशलेयं भजतां कथं न तत् । यदीयसत्कीर्तिसुपर्वनिम्नगा, निर्माति नित्यं विमलं जगत्रयम् ॥ ६२ ॥ -अष्टारचक्रम् । आनन्दनं जनमनस्यनयेन मान-श्रीनन्दनत्रिनयनं विनतिं नयैनम् ।
नूनं जिनं विनयनमनरा नरेनं, पीनध्वनद्घनघनखनमानतेनम् ॥ ६३ ॥-२८ दलकमलम् । सुरनरभरपरशरणं, रदरम्यरमारतारतरवक्त्रम् । सुरवरकारस्करमारहरमरं वरकरं धीरम् ॥ ६४ ॥ स्मरपरवरकरचरण रतिरकर दरहरं निरस्तारम् । नरवारपरस्थरतरपरमार मारमारहरम् ॥६५॥-यमलम् । विनमे नमतं तेन विनतं नयिनन्दनम् । भिन्नं मानवनं ध्यानस्थानं सन्नयनं जन!॥६६॥-गोमूत्रिकात्रयम् ।
मादान्तरायमदनोत्कटदुष्टकुम्भिकुम्भिद्विषन् प्रवरभागतभीतिनीतिः ।
नीतिप्रयुक्तनतसङ्गतपाददामादा मानवान् प्रति कुरुष्व जिनेन्द्र सन्माम् ॥ ६७॥-दर्पणः । • संसारापारसारप्रबलसममहाकष्टक(कृ)न्नक्रवास[:], संयुक्ताम्भोधिसाधिबुडदसमनृणां पातृपाच्छ्रीविलासः । सत्त्वान् पायादपादत्त भव सकुशलस्तारहारप्रकाशः, सर्वज्ञः प्रत्नसातः प्रणतसंततससिद्धिसिद्धिप्रदः सः॥६८॥श्रीवत्सः।
श्रीवर्धमानभगवानसमानमानः, श्रीवर्धमानभगवानसमानमानः।
श्रीवर्धमानभगवानसमानमानः, श्रीवर्धमानभगवानसमानमानः ॥ ६९ ॥ इत्थं वर्णनपद्धति प्रणयतां नानाविधालङ्कृतिश्रेणीभूषितनैकवृत्तनिवहैरानन्दनं सर्वतः । - नत्वा तत्त्वविदां महोनिधिमिमं सैद्धार्थितीर्थकरं, ही-श्री-बुद्धिनिवासमन्दिरमहो! सस्फूर्तिकीर्तिश्रियम्।।७०॥
श्रीमहावीरजिनप्रणामकरणपद्धतिः। [अथ यत्र गच्छाधिपतेर्वविासः, तन्नगरीवर्णनम् । ] अथ सा नगरी नरामरासुरसद्विस्मयकारिणी परा । पथिकैः प्रथमं निजागतेरतिथित्वं समनायि चक्षुषोः ॥ ७१॥ परिपीय तदेकमन्दिरं, नवनव्यं प्रथमानमुत्सवम् । अपि तैर्जनितं विचित्रितैरिव जीवद्भिरहो ! सविस्मयैः ॥७२॥ • वरवर्त्मविवर्तिनस्ततो, विषयीभूतविनोदिवस्तुनः । विशदास्पदमेत्य तां पुरं, परमानन्दपदं विजज्ञिरे ॥७३॥ तदवेक्षणतः स्वचक्षुषोः, किल निर्माय सुपारणां ततः। पुरि तत्र विमेनिरे निजं, स्थितिमाधाय कृतार्थमागमम् ॥७४॥ स्फटिकाद्रिसमस्फुटस्फुरत्स्फुटिकागारकराकरैरिव । दधती परिहासिकां तु या, प्रथितायास्तत एव किं दिवः ॥७५॥ किल तत्र समस्तवस्तु यत्, सकलं तन्नगरे सदूषणम् । सकलङ्कतया त्वनीदृशं, नगरेज्ञास्ति तदद्भुतत्वभृत् ॥ ७६ ॥
- अर्थतः कुलकम् ।
Jain Education Intemational
cation International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org