________________
श्रीविजयसिंहसुरिप्रेषिता विज्ञप्तिका
किञ्चिन्निजध्यानविधानतो यो, नयँस्त्रिलोकी निजवश्यभावम् । विश्वत्रये यः किल पूज्यतेऽहश्चित्रं स लेभे नहि धूर्तभावम् ॥ ३१ ॥ य उत्तमानामिह मध्यवर्ती, जहाति नो मानसतस्करत्वम् । विचित्रकृत् तस्य चरित्रमेतत् , श्रीवर्धमानस्य विलोकयन्तु ॥ ३२ ॥ धत्ते स वज्रप्रमुखान् स्वपाणावपि स्फुटं हन्ति विपक्षपक्षान् । निश्छिद्य पापानि तथापि लेभे, सिद्धिं वयं तत्खलु चित्रकर्तृ ॥ ३३॥ चोचं कथं मुक्तिपदप्रगामी, भवेजिनेन्द्रस्त्रिशलाङ्गजन्मा । अद्यापि यावन्महतां मनोभ्यः, स्पष्टं समामोति न यश्च मुक्तिम् ॥ ३४ ॥ चित्तं सतां वासगृहं विधाय, तत्र स्थितस्तद्विमलीकरोति । यः श्रीजिनाधीश्वरवर्धमानश्चित्रं तथाप्येष ममत्वभृन्नो ॥ ३५ ॥ यं संस्तुवन्तः पुनरेव निन्दापरायणाः खोचितमाप्नुवन्ति । शुभाशुभं यच्चरणाद् विचित्रं, स रागविद्वेषहरस्तथापि ॥ ३६॥ अगम्यलक्ष्मीरपि योगिनां यो, न दानदाता तदपि क्षमायाम् । तदेकरक्तात्मिजनव्रजस्य, चित्रं तथाप्येष समीहितप्रदः ॥ ३७॥ येभ्यो जिनाधीश्वरयोगभृद्भ्यः, कदापि नो दूरतरं भवान् यः। तेषां न दत्ते निजगम्यभावं, चित्रं स कार्पट्यधरः कथं नो ॥ ३८॥ जिनाधिपानां कलनीयरूपं, किञ्चिचरित्रं भुवने त्वदीयम् । जाग्रन्महिनाऽपि निवासगेहं, मनःकृतं यत्परमाणुरूपम् ॥ ३९ ॥ खस्तीन्दिरा यस्य सदैव सेवां, तदेकलुब्धा सरसां विधत्ते। . सच्छङ्घ-पद्मावपि यो विभर्ति, स्वपाणिपञ स. तथापि दुर्गतः॥४०॥ भक्तिप्रगल्भाङ्गभृतां मनोब्धिमध्यं वचोवीचिगणास्तु यन्तः ।
यथा यथा जग्मुरहो ! तथा तथा, चित्रं बभूवेत्यजडाशयं तत् ॥४१॥ [ नानाविधचित्रालंकारमयानि पद्यानि । ] जनानां विहितामोदं वन्दे श्रीवीरतीर्थपम् । परमश्रीप्रदं देवं दमकानननीरदम् ॥४२॥-मुशलबन्धचित्रम् । जनय श्रीजिनाधीश! भववारक! सन्मत!। तत्त्वज्ञ! ज्ञत्वतत्सार ! रसातं तत तं ततः॥४३॥-त्रिशूलम् । जञ्जनीतु ततं सातं तत् स मेऽर्हन् ! सदा भुवि । विभुर्दासजगल्लोकः कलोदयिकलायुतः ॥४४॥- शङ्खः । जम्भजिद् भक्तिभरभाग् यस्य तं संस्तुवे समम् । मतिमन्तमहं मत्यमममत्वमतामसम् ॥ ४५ ॥ - चमरम् । जगत्तारकविस्तारि गम्भीरवरवाक्चयम् । यशोभरलसद्राजजगद्व्याप्तततश्रियम् ॥ ४६॥–श्रीकरी । युग्मम् । जय त्वं जगदानन्दप्रद ! प्रास्तमहद्भय ! । यन्नप्तः(१) स्तुतिकृद्विश्वदैवतो दममोदरः ॥४७॥- हलबन्धः । जन्तुजातजयश्रीस्तत् , तन्याद् वः परमं पदम् । दरभूच्छायसङ्घाततरणिश्चञ्चदायत[:] ॥४८॥ - भल्लः । । जगदुद्धृतिमातन्यान्यायवल्लीपयोधरः । रञ्जितानेकभूपालो गतितर्जितसामः ॥४९॥-धनुः।। जय श्रीकरपङ्कज ! निजामलकुलध्वज! । जगदुद्धर वीर ! त्वं प्रमदप्रकरं ददन् ॥५०॥-द्वाभ्यां खड्गः। जनुर्जरामहाकंससम्भेदसुरपानुज ! । जलोद्यत्सद्घनारावराजद्गुणभरो जनुः ॥५१॥-शक्तिः ।। जन्मिनां मङ्गलवातं जनय श्रीविभो! ततम् । शमश्रीललनाक्लुप्तसङ्ग ! विश्वविबोधकृत् ! ॥५२॥-छत्रं । युग्मम् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org