________________
10
20
38
१३८
विज्ञप्तिलेखसंग्रह
तस्यास्त्वस्तु जिनेश्वरस्य चरणोद्भूतप्रभूतप्रभा-स्फारीभूतनखोत्करस्य च रवेः साम्यं कुतश्चिद् गुणात् । एकं किन्तु समाश्रिता अपि विभामाद्यत्तमोनाशिका, नीचैस्तत्परमाश्रितास्तु नितरामुच्चैर्गतिं प्राप्नुयुः ॥ १४ ॥ स्वस्तिश्रीगरिमागरिष्ठभगवान् सत्पुण्यपुष्टः प्रथं, शिष्टानां श्रयतां सतां यतिमतां तन्यात् प्रकृष्टं(ष्टां) श्रियम् । यसोद्यन्नखरोच्छलत्करभरः पिण्डीकृतस्तर्क्यते, रागः संस्तुवतां जयादिव पदे लग्नोऽस्ति रागोऽथवा ॥ १५ ॥ स्वस्तिश्रिया समधिगम्य यतः प्रसारं, मन्दारतो व्रततिवन्मरुतां प्रजग्मुः । सच्छायकायरुचिरः शरणं भवान्तर्भ्रान्ताङ्गिनामिह स मोक्षफलं प्रदत्ताम् ॥ १६ ॥ स्वस्तिक्रमाब्जनखदर्पणमण्डलेषु यः पश्यति स्ववदनं नतिकृत् प्रभाते । श्रीवर्धमान इव कः खलु वर्धमानो, न स्यात् स यन्नयविदुक्तिरनन्यथा स्यात् ॥ १७ ॥ स्वस्तिप्रशस्तपदपद्मपुनर्भवश्रीसंक्रान्तमद्भुततरश्रि विलोकयन्ति ।
पद्मं तडाग इव वक्त्रममर्त्यगौर्यश्चित्रं तदत्र जडतोपचितं न तद् यत् ॥ १८ ॥ स्वस्तिश्रियाऽऽश्रितविशिष्टपदारविन्दद्वन्द्वस्य यस्य जिनपस्य समाश्रयेण । आमोदलब्धिरभवन् मधुपायितानां, चित्रं समापि मधुपत्वमहो ! नतैर्यत् ॥ १९ ॥ स्वस्तिश्रियं प्रथयतात् प्रथितां स देवो, यस्य प्रभोर्जगति चित्रकरं चरित्रम् | स्वर्वासिमौलिमणिकान्तिजलाशयेषु खस्नानतोऽतिविमलीकुरुते स्म तान् यः ॥ २० ॥ स्वस्तिश्रीभिर्भास्वदस्यांऽह्रियुग्मं यत् सँस्ताभिः श्रीयते तच्छ्रयेण । यद्वद् वृक्षैः सङ्गतेश्चन्दनस्याऽऽमोदाश्लिष्टैर्भूयते नैव कैः कैः ॥ २१ ॥ स्वस्तिश्रीभिस्तत्पदं शिश्रिये श्रा (सा) I, मत्वा तत्त्वाश्रित्य बाह्यां किमाह्वाम् । यस्मादस्मिन्नो तदन्या भवान्तर्भ्रान्तिश्रान्त श्रेणिकानां पदाप्तिः ॥ २२ ॥ सत्पादाम्भोजन्मपद्माङ्कितं यत्, तस्मात् तत् स्यात् तन्निधानावलब्धिः । युक्तं यत्सान्वर्थसृष्टिर्विधातुर्यद्वलोके शीतरश्मिः सुधांशुः ॥ २३ ॥ मन्ये गत्वा तत्पदाम्भोजपद्मा, चौर्यं पद्मं तोयदुर्गं प्रविष्टम् । पश्चा[दा]दच्चैौरवत् तत् तदादि, तस्माल्लेमेऽन्तःपुरः स्थायितां नो ॥ २४ ॥ तत्तन्नापि प्राप तत्तुल्यभावं, किन्तु स्वस्मिन् दूषणं पङ्कजत्वम् । युक्तं यस्माद् यद् यदूर्ध्वं विधत्ते, स्वः सल्लोकस्तत्तथा किं तदन्यत् ॥ २५ ॥ साम्यानातौ स्पर्धितस्याभवत् तत्, पद्मं लब्ध्वा ऽगाधपानीयदुर्गम् । मत्वा तत्सत्पादपद्मः स्वरूपं, मन्ये जज्ञे कोपटोपात् स रक्तः ॥ २६ ॥ पश्चाद्धृत्वा वज्रचक्रादिचत्रं, तत्पादस्तत् स्वीयलक्ष्म्या जिगाय । अप्युच्चैस्तं जाड्यदुर्गप्रभेदं, सल्लोकानां निर्मिमीते तदादि ॥ २७ ॥ तस्मान्मन्ये तत्पदस्यैव भीत्या, पद्मश्रेणिः कम्पतेऽद्यापि नित्यम् । गुञ्जद्वायुप्रेरिताङ्गच्छलेन, किं नैजं तं तोयदुर्गं प्रविश्य ॥ २८ ॥ चित्रं चित्रं यस्य सत्पादपद्मो, नीरागोऽपि स्पष्टरागी स्वयं यः । भक्त्या नम्रप्राणभाक्षु द्विधाऽपि तद्धर्ता यत्तद्विशेषाजनानाम् ॥ २९ ॥ तं लब्ध्वाऽपि प्राणभाजो भजन्ते, तन्नः सिद्धिद्रङ्गवासं परत्र । चित्राच्चित्रं तत्सतामेति चित्ते, किं वा सन्तोऽचिन्त्यमाहात्म्यभाजः ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org