________________
तपोगच्छपतिश्रीविजयदेवसूरि प्रति श्रीविजयसिंहसूरिप्रेषिता [९] - विज्ञप्ति का -
[आदौ श्रीमहावीरजिनवरनमस्काराः ।। खस्तिश्रीमुद्यदुद्यधुसदधिपनमन्मौलिमौलिस्थरत्न-प्रोत्सर्पद्दीप्रदीप्तिप्रकरझरभरोन्मग्नमूर्तिः स्वयं यः । चित्रं नानाभवाविर्भवभयसलिलोन्मजदङ्गिव्रजेभ्यः, प्रस्फूर्जद्भक्तिभाग्भ्यो जगति जिनपतिस्तारयेत् स श्रिये स्तात् ॥१॥ खस्तिश्रीपृष्ठभासः क्रमणनखभुवः सर्वदिङमण्डलेषु, प्रांशुप्रत्युग्ररज्जुव्रजवदिव समाकर्षयन्त्यः स्फुरन्ति । सद्भ्यः किं दत्तुकामाः प्रभवसमरमा अच्छदिग्वैभवस्य, यस्सोचैर्वश्यभावं नयतु स भगवान् माद्यदन्तर्विपक्षान् ॥२॥
खस्त्यस्माभिः समत्वं किमवयवनखैस्तजिनेन्दोः पदानां,
लब्धुं शक्नोति साकं खदशशतकरैरप्यहो ! व्योमरत्नम् । यस्मादन्तस्तमोघा वयमिति च हसन्त्युच्छ[ल]द्भिः करैस्तं,
यत्पादोद्यन्नखौघाः स मयि निजदृशौ शा] तुष्टिपुष्टी विदध्यात् ॥ ३॥ स्वस्तिश्रीसमवायि वीरभगवत्पादद्वयं स्तान्निजाद्वैतध्यानविधानशुद्धमनसां तच्छ्रेयसे भूयसे । नम्राखण्डलमण्डलप्रतिफलन्मौलिस्थमौलिस्फुरन्मालालीसुमनोवजः किमपि तत्तेजोऽभजद् यद्गुणात् ॥४॥ खस्तिश्रीप्रतिबद्धरागरसिका यत्पादकामानुशाः, प्रोचैः स्वीयकरप्रसारकरणैः संसूचयन्तीति किम् । अस्मद्वच्चरणाश्रितौ भगवतो ये रक्तचित्ताः स्वयं, ते केनोर्ध्वगतिं भजन्ति सततं निश्छिद्य सद्यस्तमः ॥५॥ खस्तिश्रीरिति यस्य शस्यचरणाम्भोजन्मयुग्माश्रितेः, श्रीरेव प्रतिवासरं समभजत् स्वस्मिन् प्रकृष्टान्वयम् । मन्ये तच विचित्रकृद्भगवतो यद्भक्तियुक्ताङ्गिनः, सद्यः स्वस्तिसमन्विताः प्रतिभवं भूयासुरस्मिन्न के १ ॥६॥ खस्तिश्रीरिव नः समाश्रयकृतेरासाद्यतां वन्द्यतां, स्वर्लोकादिजगत्रयेषु भविनः संवीक्ष्य किं सम्मुखम् । जल्पन्तीति करप्रसारकरणाद् यत्पादकामाङ्कुशाः, स श्रेयस्तनुतां सतां स्तुतिकृतां तां तां ततां तां पुनः ॥ ७॥ खस्तिश्रीबहुरूपिणां समभजद् विद्यां यदंहिश्रयात्, तद्भक्तिप्रणताङ्गिनोऽनुगमनाद् यस्यानुभावात् स्फुटम् । " तत्सत्यं यदनेकनम्रभविभिस्तत्पादकामाकुशश्रेणीषु प्रतिबिम्बितैः प्रतिदिनं कैः कैर्न साऽऽसाद्यते ॥ ८॥ खस्तिश्रीपरिभूषिताः प्रतिदिशं यत्सन्नखाभीशवो, दीप्यन्ते किममर्षतस्त्विति सदा रक्तास्तमोध्वंसिनः। अस्मद्भक्ति[कृतां कथं परिभवत्येतज्जगजन्मिनां, स श्रेयोव्रततीततीनवघनः श्रीवर्धमानः श्रिये ॥ ९॥ स्वस्तिश्रीप्रतिपूर्णतां तनुमतां दत्तां स वीरप्रभुर्यस्योद्यन्नखराः करैर्दिशि गतैः किं ज्ञापयन्तीत्यहो ! । अस्माकं द्युतिनिर्झरेषु विहितैः स्नानैः शुचीभूय भो!, श्रीमन्तः! प्रतिपद्यतां नतिकृतेः शस्यात्मतां जन्मिनः॥१०॥ खस्तिश्रीस्मितवारिजन्मवदना वक्षःस्थलस्थायिनी, मुक्ताहारलतेव यत्क्रमभवस्फूर्जन्नखानां ततिः। तस्याः किं स्फुरदोष्ठसंक्रमणतश्चञ्चत्प्रवालद्युति ति स्वस्ति तनोतु वः स भगवान् श्रीत्रैशलेयो जिनः ॥११॥ खस्तिश्रीततिसमनः परिणमत्क्ष्मापैः स्वयं मूर्ध्नि यान् , धृत्वाऽऽसादि समस्तशस्तकमला दुष्टांहसां च क्षयः । लिप्सोस्तत्तुलनां हियोऽपि नहि तेनोकैः पुरस्कुर्वतः, सूर्य यस्य नखाः करैरिव हसन्त्येवं स वः श्रेयसे ॥१२॥ स्वस्तिश्रीजनकोऽस्तु यन्नखततिर्भास्वत्करैः संनमत् , सन्मौलिं परिमृज्य सम्मुखमिवाऽऽलोक्येति वक्ति स्फुटम् । " चेदभ्यन्तरदुस्तमोहतिपरास्तन्नः स्खचित्ते स्थिति, धत्ताऽस्मत्स्थितितः प्रयाति न कुतो यस्मात् तमः सर्वतः ॥१३॥
वि. म.ले.१८
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org