________________
विज्ञप्तिलेखसंग्रह
यः स्याद् बहुवार्थनिबद्धबुद्धिः, स चर्मचक्षुर्विषयामुपास्तिम् । करोति तत्त्वे तु निविष्टदृष्टिस्त्रिधापि तत्राभ्यधिकं हृदेव ॥ ११ ॥ अवामनन्ते न मनोऽखिलार्थप्रसाधने ज्ञानधनैर्निगीर्णम् । तपःक्रियाबोधनिरोधनाद्यैः, सिद्धं मनः पारदवत् खसिद्ध्यै ॥ १११॥
वयं तु पश्यामःश्रीइन्द्रभूतिः प्रथितोऽस्ति शास्त्रे, श्रीवीरसंसेवनकर्मधीरः । हेतुं पुनः प्राप्य जनप्रबोधादिकं स दूरे विजहार देशे ॥ ११२ ॥
आदीक्षणाचैनपदाब्जसेवी, देवीभिरुदीतयशाः सुधर्मा । पट्टेशिताऽभूत् स इवैष सूरिगुरोरुपास्तेर्ललितं तदेतत् ॥ ११३ ॥ तस्मात् कृतं केवलभाग्ययोगव्यावर्णनैर्येन गुरावनेके । कृताश्रयाः सन्ति गुणा यदीडाविधौ विधिर्न प्रभुरुप्रधीमान् ॥ ११४ ॥ तदस्तु वस्तु प्रतिपत्तिहेतुः, सेवैव देवैरपि कांक्षणीया। यस्याः स्मृतौ श्रीगुरुराजमग्रे, प्रत्यक्षतो लक्ष्यमिवानमामि ॥ ११५ ॥ एवं विवादे बहुभाग्यलभ्यान् , सभ्यान् परीक्षाकरणे महेभ्यान् । नमाम्युपाध्यायगणद्विपेन्द्रान्, श्रीमद्विनीताद् विजयाभिधानान् ॥११६॥ लक्ष्मीसलक्ष्मीकृतपूर्वलक्ष्मीः, परः स लक्ष्मीविजयः कविस्तम् । पयोधरस्पर्धनधीररावं, पार्श्वस्थभावेन बलान्नमामः ॥ ११७॥ प्रभोः पदाम्भोजरसोपलम्भाद्, भृङ्गायितं यैः सुधियां वरेण्यैः । तान् वादसंवाददृशेऽवनम्रानन्वानतः श्रीरविवर्द्धनाख्यान् ॥ ११८ ॥ लघौ गुरुत्वं च गुरौ लघुत्वं, संस्थापयन्तो भगवनियोगात । प्राज्ञा यशस्तो विजयाः सदाराधना धनादेर्विजयाः कवीन्द्राः ॥ ११९ ॥ सतत्त्वतत्त्वाभिनिविष्टबोधास्तत्त्वादिसम्यग्विजया गणीन्द्राः । श्रीहेम-सौभाग्य-जयादयोऽन्ये, गणिप्रधाना गुरुसन्निधानाः ॥ १२० ॥ युक्तोऽत्र हर्षाद्विजयेन नाम्ना, तथा जयादेर्विजयाभिधेन । गुरुप्रसादाप्तबहुप्रमोदश्रिया प्रमोदाद्विजयाह्वयन ॥१२१ ॥ नत्वाऽनुनम्याथ यथार्हमेतान् , गुरोः पुरोऽहं विनिवेदयामि । विज्ञप्तिमेतामनुभाव्य सद्यः, प्रसद्य देयं ननु पत्रकं मे ॥ १२२ ॥ पादान्तभाक्त्वेन लघुर्गुरुः स्याच्छन्दस्तदावेदयते प्रमाणम् । भाष्येऽपि सिद्धं गुणतः प्रसिद्धे, शब्देन जातेविषयी विमर्शः ॥ १२३ ॥ इति रहस्यम् ॥ श्लेषात् कचिल्लक्षणया क्वचिद्वा, वैचित्र्यभृत्पत्रपिकाह्नपत्री । श्रीमत्प्रभोर्मानसकल्पवृक्षे. विश्राम्यतां रम्यगिरा प्रमोदी॥ १२४॥ पश्चाद् गुरोर्दृष्टिसुधाप्रवाहैराप्लाव्यमानं दलमेव देयम् । स्मार्यश्च कार्येषु जिनार्यनामे(१), भुजिष्यमुख्योऽस्त्विति मङ्गलश्रीः॥१२५ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org