________________
मेघविजयगणिप्रेषिता विज्ञप्तिका
वराकपाका इव केऽप्यशक्ता, अन्तर्बहिः श्यामलतां भजन्तः । नूनं यदाज्ञाविमुखा भवेयुः, पराभवा वा सदृढप्रबन्धाः ॥ ९४ ॥ पुण्याढ्य भूभर्त्तुरिवेशभाग्यं, कश्चिद्विपश्चिद् यदि वक्ति युक्त्या । तं ब्रूमहेऽशुद्धधियां पुरोगं, क्षोदक्षमो नास्य यतो विमर्शः ॥ ९५ ॥ लब्धप्रशंसो भुवनेऽस्य वंशः, सौन्दर्यमर्यस्य मनोजवर्यम् । कलाकलापः सकलातिशायी, धीरेषु रेखा प्रथमा विशेषात् ॥ ९६ ॥ आकस्मिकत्वात् सुकृतोदयस्य, तौल्यं विकल्प्येत विकल्पशिल्पैः । वाच्यस्तदोदाहरणे धुरीणः, सविक्रमो विक्रमभूमिभर्ता ॥ ९७ ॥ सौभाग्यकल्पद्रुममञ्जरीयं, डिण्डीरपिण्डीकरणा पयोधेः । कृतज्ञतावेणिलताप्रसूनं, गोष्ठीपदं केलिकलन्दिकानाम् ॥ ९८ ॥ श्रीमान् प्रभुर्धार्मिकपुङ्गवानामगण्यपुण्यैर्जनितो विधात्रा । वैदुष्यसीमामहसां निधानं, सन्धानभूर्बोधचरित्रयोश्च ॥ ९९ ॥ यद्भाग्ययोगेऽभ्युदितेऽभ्युदीतः प्रतीतनामा तपगच्छ एषः । ज्ञानक्रियाशालिषु निर्विशेषं, सामान्यताध्यक्षतयैव वेद्या ॥ १०० ॥ अत्राहुः - सत्यम् -
Jain Education Intemational
किं भाग्यसंवर्णनयाऽनया हि, नयाश्रयात् केवलया बलं स्यात् । उपासनाऽप्यस्य गुरोर्गरिष्ठा, पुण्यस्य देवस्य गुरोः कृतेष्टा ॥ १०१ ॥ आबाल्यतो ब्रह्मनिषेवणेन, सूरिर्द्वितीयोऽजनि वज्रसूरेः । दूरेः प्रसर्पन् विजितः स्मरस्तत्, स्त्रीभ्रूधनुर्निर्गुणमेव धत्ते ॥ १०२ ॥ दानं प्रकृत्या स्य परोपकृत्या, निभाल्य लज्जामलिनोऽवनम्य । स्वकण्ठपीठे किमिवाम्बुवाहः, खङ्गं तडिद्दण्डमिषादधत्त ॥ १०३ ॥ मन्ये कलेर्भीतमिव प्रतीतं, धन्यानगारादितपः समग्रम् । गुरौ श्रितं बीजमिवाङ्कुरौघस्तस्येव शीर्षे महसां समूहः ॥ १०४ ॥ गाढानुरक्ता दयितेव सूरेर्जाने दया चित्तमिव प्रविष्टा । तत्किं तदीया ननु विस्मरन्ति, भावा विभावानुगताः स्वभावात् ॥ १०५ ॥ अहर्निशं ध्यानविधावधानाद, भक्तिर्जिने शक्तिरिवाङ्गजन्मा | स्पष्टैव निष्टयत एव देवे, गुणा गुणेष्वेव रजन्ति जात्या ॥ १०६ ॥ अवास्तवैर्द्रव्यबहुस्तवैः किं, भावस्तवस्यार्थसमर्थनं स्यात् । तद्ध्या नलेशोऽभिनिवेशशून्यो, महोदयं प्रापयति प्रसह्य ॥ १०७ ॥ चारित्रलीला ललितैर्मुनीन्दुस्तनोति षट्काय निकायरक्षाम् । तद्विस्मयान्निश्चलशीर्ष एव, क्षमां निधत्ते कलयैव शेषः ॥ १०८ ॥ उपासना स्वीयगुरोरनेन, मुनीन्दुनाऽकारि विकारमुक्ता । साक्षी जिनस्तत्र गुरुस्ससिद्धः, स्वात्मा च देवः सकलस्त्रिलोक्याम् ॥ १०९ ॥
१ 'श्रीश्रेणिकः क्ष्माम्बुजपद्मिनीशः' इति वा पाठः ।
For Private & Personal Use Only
१३५
5
10
16
20
25
www.jainelibrary.org