________________
१३४
विज्ञप्तिलेखसंग्रह
अथ समाचार:
वर्षासु हर्षातिशयादिहैवं, प्रगे मया संसदि सजनानाम् । खाधीयते ह्युत्तरपूर्वशब्दा-ध्यायो निकायः प्रशमोदयस्य ॥ ७७॥ श्रीमद्गुरोर्वर्णनयानुषक्तं, व्याख्यायते शान्तिविभोश्चरित्रम् । ततो यथार्ह मुनिपाठनाद्याः, क्रियाः क्रियन्ते विधिसावधानाः ॥ ७८ ॥ क्रमेण लब्ध्वाभ्युदयं सुपर्व, सांवत्सरं पर्वशतैः परीतम् । श्रीधर्मभूभर्तुरिवर्तुषदे, भोग्यं सदुद्यानमतिप्रसन्नम् ॥ ७९ ॥ जनः समासाद्य जिनाधिराजनात्रैर्मुमोचाङ्गमलीनभावम् । तद्धर्मकर्मोत्सवदष्टितुष्टः, शरत्प्रसत्त्या जलदस्तथैव ॥ ८ ॥ गुरूपदेशोदभरैर्नराणां, प्रशान्तिमायात् प्रतिथानलोऽपि । इरम्मदः खेऽपि शशाम नाम, स्थाने मुनेरागमनान्न किं स्यात् ॥ ८१॥ दीनेषु दानानि वदान्यलोकः, प्रचक्रमे दातुमिहाक्रमेण । तदग्रतो दातुमिवोत्सुकोऽन्दस्तदखलौ स्थापितवान् जलं खम् ॥ ८२ ॥ न्यवारि मारिः पटहात् पशूनां, जनेन संपूर्य धनस्तदाशाम् । जलैस्तदाशाः परिपूर्य सर्वा, जगर्ज मेघोऽपि नृमारिवारी ॥ ८३ ॥ जिनेन्द्रपूजा गुरुवन्दनासु, श्रद्धालुराधाद् बहुवर्णचित्रम् । वैकक्षमैरावतमम्बुवाहो, न्यग्भूय पीताब्धिमुनि निनंसुः ॥ ८४ ॥ क्षेत्रेषु सर्वेष्वपि कल्यशालिः, क्षणैर्यथावापमवाप शोभाम् । आकर्णदेशं शिखयेव पट्टावल्या युतः सत्फलसंभवेन ॥ ८५॥ प्रतिप्रदेशं क्रमतः प्रसाद, सतां मनोवत्समियाय नीरम् । निःपकताऽभूदु भुवने द्विधापि, सन्मार्गचारः कमलोदयश्च ॥ ८६ ॥ निरन्तरायः समवाय एष, पुण्यस्य शस्यो घुसदां स्थलेऽपि ।
अदीपि दुःपापदशां पिधाय, तच्चेष्टितं श्रीगुरुपर्युपास्तेः ॥ ८७॥ अथैवं समाचारसूचनद्वारा सेवाव्यवस्थापने सति क्रमाक्रान्तं श्रीपरमगुरुवर्णनं सूचयन् भाग्यवादी बाह
श्रीमद्गुरोर्गीयत एव भाग्य, द्विधा सुधर्मासु सता सभासु । यस्य प्रभावात् प्रभुताऽद्भुताऽभूत्, तपागणे देवमणेरिवाD ॥ ८८॥ सूरीशितुः श्रीविजयादिदेवस्याङ्गाद् गुणानां गणवत्सु मूर्तिः । स्फूर्ति विधत्ते तदयं प्रदीपात्, प्रादुष्कृतो दीप इव व्रतीशः ॥ ८९ ॥ अहो महोभिर्मरुतामधृष्यैर्भालं विशालं बहुभाग्यशंसि । प्रत्यक्षमेवैक्षत एव सूरेः, सुरांशुपूरेण निबद्धसख्यम् ॥ ९० ॥ स्वयंवरां श्रीविजयादिदेवैः, सज्जीकृतां शासनराज्यलक्ष्मीम् । लेभे खभाग्यात् प्रभुरद्भुताङ्गो, युक्तं यतः श्रीननु वीरभोग्या ॥ ९१ ॥ यदिष्टदिष्टैः करवालधाराप्रायैर्विकालः खलु खण्ड्यमानः । नाभूत् सुराष्ट्राविषये प्रसारी, ध्यायेत कस्तं न युगप्रधानम् ॥ ९२ ॥ देवे गुरौ सत्यपि धर्मधीरे, याऽऽसीन्मुनीनां शिवपूरगम्या । यस्याधिपत्येऽभ्युदितेऽधिभोग्या, साऽभूदतो युक्तमिहैष वीरः ॥ ९३ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org