________________
१३३
मेघविजयगणिप्रेषिता विज्ञप्तिका जाग्रत्स्वभावादथ तत्प्रभावादुपाश्रयः सर्वगुणाश्रयोऽत्र । प्राप्तः समाप्तः सकलोऽनुतापो, द्वीपोऽम्बुराशौ परिमजतेव ॥ ६॥ यथा त्रिनेत्रं ननु नालिकेरं, दृष्ट्यापि दिया तनुते जनानाम् । तद्वद्वाक्षत्रयवान्मुनीनामिहालयः पालयते वसङ्घम् ॥ ६१ ॥ पितेव तं रक्षति योऽङ्कमध्ये, प्रासाद उद्यद्रुचिराईतोऽस्ति । श्रीविश्वसेनाङ्गभुवा सनाथः, पाथःप्रपेवाङ्गिमनोविनोदी ॥ ६२॥ यचैत्यमासाद्य विशालशृङ्ग, जयत्यदः पत्तनमेव लक्ष्म्या । वस्तूनि नाना प्रतिसार्थमस्मात्, पुरः पुरो ढोकयतेऽस्य भक्त्या ॥ ६३ ॥ मन्ये चतुर्दिक्षु चतुर्मुखोऽयमुद्भूय रक्षाकरवत् पुरस्य । अहर्निशं विघ्नविघातनाय, बिभर्ति कुन्तं वरदण्डकं(दं?)भात् ॥ ६४ ॥ युधिष्ठिरो भीमरुचिः परेषु, यशोऽर्जुनः श्रीविजयस्य बन्धुः । कुन्तानुरागी सहदेवसेवोऽस्त्यत्रोदयात् सिंह इति क्षितीशः ॥६५॥ गभीरनीरान्तरजैस्तरङ्गः, सरस्सजत्यत्र तटद्रुबन्धून् । तेऽपि स्वशाखापवनैश्च पुष्पैः, सन्तर्पयन्त्येतदतिप्रसज्य ॥ ६६ ॥ वारांनिधिर्मन्थनजातभीतिः, प्रीति महारण्यवरेण कृत्वा । सदोपसंपद्य पुरं च लङ्काशङ्काकृदस्थात् सरसीमिषेण ॥ ६७॥ गवाङ्गणः सर्वदिगङ्गणेषु, प्रातः प्रसारी चरणाय यत्र । मूर्तेव कीर्तिनगराधिभर्तुः, क्रीडां चरीकर्तुमिव प्रयाति ॥ ६८॥
इतश्चश्रीमद्गुरूणां करुणाकटाक्षः, पयोदवृन्दं परितस्ततान । तद्विद्युता मूर्तिमताऽसिनेव, व्याक्षेपि दुर्भिक्षकरालरक्षः ॥ ६९॥ तप्तिर्विलीना तरवोऽपि पीना, मीना जले केलिकलां विचक्रुः । दीना नदीनामपि गन्धवाहाद्, वाहा इवोत्साहमधुप्रवाहाः ॥ ७॥ सन्तापिता भूः खलु वल्लभा नः, क्रूरेण शूरेण करप्रयोगैः । इतीव वैराज्जलदोऽपि धाराकरैर्ममर्दाम्बुजिनीमुखाजम् ॥ ७१ ॥ अन्तद्रुमाम्भःसरसश्छलेन, तटस्थमाद्यन्महिषीगणस्य । भूभामिनी कजलरेखितं द्राग् , विधाय चक्षुः किमिवैक्षताब्दम् ॥ ७२ ॥ मत्ता महिष्यो भुवि पीनपुण्यपयोधराः श्यामतयाऽतिरम्याः । दिनाधिनाथेऽम्बुधरेण रुद्धे, स्थाने विचेलुर्विभयं सबालाः॥७३॥ विनाम्बरं योगिजने प्रसाद उन्मादसादः खलु विप्रयुक्ते । दुर्भिक्षनाशाद् हसितेव पुष्पैर्जातिः पयोवाहसुहृन्ननर्त ॥ ७४ ॥ एकातपत्रे जलवाहराज्ये, प्रसृत्वरे स त्वरतिप्रदेऽस्मिन् । उदकुराभूः समभूत् समग्रा वियोगनाशादिव नीलवासाः ॥ ७५ ॥ बभुर्वलीकेषु पृषन्मिषेण, सतां मनोभिः सह निर्मलानि । सुभिक्षपक्षक्षितिनाथदेशप्रवेशजातक्षणमौक्तिकानि ॥ ७६ ॥
॥ इति प्रावृड्वर्णनाष्टकम् ॥
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org