________________
१३२
विज्ञप्तिलेखसंग्रह सतां क्षणादीक्षणमप्यणूना, सौभाग्यलाभाय भवत्यवश्यम् ।
चान्द्रे सुधाविर्भवनं सुधांशोद्देश्चैव तत् किं गुरुसेवनायाः ॥ ४५ ॥ अथैवं व्यवस्थापने सत्येतत्पुरकनामज्ञापनाय प्रस्तावयन् भाग्यवाद्याह -
सेवा स्वसेवातिशयाद् गुरूणां, निःसंशयं भासयते सुखानि । प्रसाधितं युक्तिपदैस्तदेवं, तथापि वांसाधिगमे तु दैवम् ॥ ४६॥ किं वर्ण्यते तन्नगरं गरिम्णो, यस्याभिधैवाभिदधाति रूपम् । श्रीगूर्जरत्रावदनसदैड्यां(?), तत्पृष्ठिभागो झुचितः प्रतीच्याम् ॥४७॥ पृष्ठे पटिष्ठेऽप्यबलो बली स्यात् , पृष्ठे विनष्टे सुभटोऽपि बिभ्येत् । वासानिवासादिति गूर्जरत्रा, स्वस्थानताऽध्यक्षतयैव लक्ष्या ॥४८॥ वासेति नाम प्रकृतिनितान्तं, सहोपैसगैव बुधैर्निबद्धा। स्फुरत्प्रकारा यदि वा विनीता, कारेव कौली निबद्धसख्या ॥४९॥ भतुविविक्ताशयनेऽङ्गने वात्युत्कण्टका भूरविबद्धकान्तिः। पराक्रमेणैव धवस्य योग्या, भोग्या भुजङ्गबहुभोगरङ्गैः॥ ५० ॥ पुरस्य सत्यापयितुं किमाख्यां, पृष्ठ्योपंजीवी सकलोऽपि लोकः । क्षमश्च भारं परिवोढुमुच्चैर्दैहेंऽह्रिवत्संहितकृत्तिवासाः ॥५१॥ सीतानुरागी गहने वियोगी, त्रिकण्टकस्यापि च चूर्णकारी । सर्वो जनो दाशरथी रणार्थी, चित्रं पुनः पुण्यजनैः स्वरूपात् ॥५२॥ अन्यान्यवन्धादिव जातशाखाश्लेषाविशेषात् तरवोऽपि यत्र । चौरे च पौरे कचनाविभेदः, स्नेहातिरेके किमिहाद्भुतं तत् ॥ ५३॥ शमीगणो यस्य वने जनानां, दुर्भिक्षदुःखेषु धृतोपकारः । ववर्ष शम्बामिषतो रसालीस्ता एव संजीवनमेष्वभूवन् ॥ ५४॥ अहो करीरेऽपि परोपकारीभावः प्रसङ्गान्मनुजस्य यस्य । पुष्पैः फलैर्यजनवृत्तिहेतु स्त्रिर्वत्सरे दुर्बलवत्सलः स्यात् ॥ ५५ ॥ छेदैविहीने मनुजे करीरद्रुमे च बद्धोत्कटकण्टकास्ने । रक्षाकरेऽक्षेमकरे विपक्षे, पश्यन्तु सन्तः खलु वत्सलत्वम् ॥ ५६ ॥ विराजिता यत्परितः स्फुरन्ती, नीलाटवी कण्टकिनां द्रुमाणाम् । अमातमाशूरभयादियाय, क्षमापतेः किं शरणं पुरोऽस्याः ॥ ५७॥ कालः स केलीकलिकालवालः, क्षितेः प्रदेशो बहुवित्तरेशः । ग्रामोद्युसङ्ग्रामरुचिः स्मरामस्तदैव शिष्टिं ननु दुर्निवाराम् ॥ ५८॥
अत्रोच्यतेकिं दैववार्ताभिरमूभिरग्रे, दुष्कर्मनापि करोति तावत् ।
यावद्गुरोभक्तिरसौ कृपालुर्मचित्ततल्पेऽस्ति भृशं शयालुः ॥ ५९॥ १ वांसालक्षणं देवं धिगथें कूत्सब्दं एतु(१)। २ पक्षे गूर्जरत्रासु अस्थानता। ३ वर्णनपक्षे उपसर्गः उपकारः। ४ नीति उपसर्ग इति चेत्, निवास इति चेत्, कारा इव । ५ कौलीनाम्ना तस्करविशेषस्तत्स्वामिना। ६ पृष्टवाद । ७ पझे ईश्वरावतार इत्यर्थः। ८धमैंकः राक्षसः। ९ वस्त्रैः पत्रैः। १० पक्षे वत्सभक्षकत्वम् । ११ वर्णभेस्वर्ग(1) तदभावे प्रत्यहं कलहः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org