Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
श्रीविजयसिंहरिप्रेषिता विज्ञप्तिका
१४१ तथा हिधनदः पुरितत्र योऽस्त्यहो!, स पुनः किं पुरुषेश्वरः स्मृतः । इह ते प्रतिसौधमद्भुता, विजयन्ते नवनव्यभोगिनः ॥७७॥ किल तत्र य ईश उच्यते, स च षण्डः ससुतोऽस्थिमालिकः । इह ते शतशो विरेजिरे, सुपुरोऽनय॑विभूषणं महत् ॥७८॥ न च तत्र तपोगुणाश्रिता, सुमनःपलिरहोऽवतिष्ठते । इह सा च तदादिसद्गुणावलिकेलिप्रवरास्पदं मुदा ॥ ७९ ॥ अपि तत्र महत्यहो! वने, किल पञ्चैव चकाशिरे द्रुमाः। कुसुमैः सुरभीकृतान्तरे, विपिनेऽस्यामपसंख्यपादपाः॥८॥ विबुधाधिप एककः पुनः, स तु गोपाभिधया प्रसिद्धिभाक् । इह वासकृतः परःशता, विजयन्ते त उदीत्वरश्रियः॥८१॥ न गरीयनगरीयसो गुणानिति तस्या अमरावती पुरी । अनुगच्छति किं यदत्र वै, स्फुरति श्रीमहिमा प्रभोर्महान् ॥८२॥ विविधामलरत्नजालयोत्थितब्रह्माण्डहतखवेगतः । प्रणमत्करसङ्घतः पुनर्दिवि वैचित्र्यमधाद् यतस्त्वियम् ॥ ८३॥ द्युविमानविमानताकृतोऽतिविशिष्टत्वगरिष्ठधर्मिणाम्' । स्फटिकोपलकल्पितालयाः, किमु तद्दानजकीर्तयो बभुः ॥८४॥ विधुबिम्बमिलत्स्वमौ ...बहुरूपालिकनेत्रताभृतः। स्फटिकाग्रिमविग्रहा गृहाः, किमु नाऽऽपुर्ध्वजगं गयेशताम् ॥८५॥" रविकान्तमयालयाभया, कृतमार्तण्डभिया यया स्यात् । वदनं सदनं कुतीर्थिनामदधत् प्रापितभीतिदुस्तमः ॥८६॥ प्रसृतायतया पताकयाऽऽवृणते चञ्चलया यदालयाः। निजकाञ्चनकुम्भसन्निभं, समवेक्ष्य धुमणिं स्म लज्जया ॥८७॥ विमलाङ्गभृतां शिरःसु नः, सकलङ्कः स्थितवान् कथं भवान् । इति यन्निलयाः पताकया, ददते चन्द्रमसोऽतिताडनाम् ८८ परमार्थभृतोऽमलात्मनः, सकलङ्का विकलङ्किनः पुनः। निगदन्त इदं यदालयाः, शशिलक्ष्माऽऽवृणते ध्वजोच्छ्रयैः॥८९॥ सततं पुरतश्च पृष्ठतः, प्रसरन्नीलमणीगृहत्विषा । परिचुम्बितदृष्टभूतलास्तृणबुद्ध्या पशवोऽभवन् नताः ॥ ९॥ यदगारशिरःस्थगैरिकोद् घटितस्पष्टघटोपलब्धितः । अभवद् घुमणिभ्रमानिशि धुनदीपद्मगणो विकाशभाक् ॥९१॥ सुदतीवदनानुबिम्बतो, यदगारे विधुविम्बशङ्कया । कृतपञ्जरसंस्थितिर्दिवा, विकटं कूजति चक्रमण्डली ॥ ९२ ॥ निशि तारकबिम्बितेक्षणाच्छशिकान्तालयभित्तिभूमिषु । कजबुद्धिभृतो न तत्यजुर्मधुपास्तान् धृतवार्मधुभ्रमाः॥९३॥ वियदायतवम॑गाहनादिव किं खिद्यति शीतदीधितिः । गलदच्छसुधामिषादिति, व्यजनन् वीक्ष्य यदालयध्वजः॥९४॥ शशिकान्तजयगृहावली, विगलद्वारिझरा बभौ निशि । स्वभया विजयादिवाभवत् , श्रमर्खिन्ना द्युविमानसन्ततः॥९५॥ अत एव किमत्र मीयते, धुसदैश्वर्यभृता कृता इव । प्रतिबिम्बिततारकोत्करच्छलतः सत्कुसुमौघवृष्टयः ॥९६॥-युग्मम् । परिकीर्णमणीन् यदापणस्थल इङ्गालधिया व्यलोक्य तान् । ग्रहणोचितविक्रमोऽभवन्नगरे यत्र चकोरपक्षिणः ॥९७॥ गुरुपादविलोकनेच्छया, दिव एत्य धुपुरी तपस्विनी । अभवत् परिखामिषादसौ, सनिमित्तो हि विधिविधेयजः॥९८॥
क्रमतस्तपसोपलभ्य सा, खमभीष्टं पदसेवनादि यत् ।
___ चलवीचिजलानुबिम्बितच्छलतो नृत्यति किं प्रमोदतः ॥ ९९ ॥ - युग्मम् । न चमत्कृदिदं क्षणेऽगुणं, प्रथमे द्रव्यमतर्कि तार्किकैः । प्रथमानगुणा.........", सह यद्यत्र जनुर्जनैर्दधुः ॥१०॥ गुणिनां गणनातिगा गुणाः, पुरि यत्र प्रसरन्ति सर्वतः । इव तद्भुव एव कीर्तयः, परिपूर्णेन्दुविभा इवामलाः ॥१०१॥ अपि यत्र च सङ्घ ईप्सितैः, किल वर्षत्यखिले महीतले।अभवत् समशस्यवस्तुनः, परिलुब्धिसुखिनस्ततोऽर्थिनः॥१०२॥ अपि राजसमं विरेजिरे, कृतिनो यत्र विशिष्टदीप्तयः । अतिनिर्मलतामिताः पुरीललनाहारसमानसम्पदः॥ १०३॥ जिनशासनमग्र्यभूषणं, शुशुभे यत्र दधञ् जनवजः । नगरी पुनरेव तं ततो, वसुधामण्डलमेव तां पुरीम्॥१०४॥ ० अधिगम्य कलाः सदीप्तितां, किल जग्मुर्यदनेकनागरान् । कमलासुतमित्रमुन्नता, इव सर्वाः क्षितिरुट्परम्पराः ॥१०५॥ अपि यत्र निवासिनः पुनः, सदृशौपम्यमुदन्वतः कुतः। अपि दिक्षु विदिक्षु विसृतं, गुणरत्नैरितरस्य यत्त्वधः ॥१०६॥ नयशास्त्रमनन्यथापदं, जनतोदाहरणान्नयत्यदः । तपनीयमिव खशुद्धितां, कषपाषाणपरीक्षणेक्षणात् ॥ १०७॥ इति रम्यगुणालिमण्डिता, नगरी नागरनागरीभृता । जयति प्रथिता विचित्रकृत् , स्वभया भूतलवर्तिचेतसाम् ॥१०८॥
1 आदर्श 'धार्मिकाणां'। 2 आदर्श पतितमक्षरद्वयमन । 3 आदर्श 'स्फुटि'। 4 अक्षरचतुष्टयं पतितमत्रादर्श ।
25
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238