Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१४४
विज्ञप्तिलेखसंग्रह कलाशालिमहापायचाणूरैकमुरच्छिदम् । गणाधीशं जगद्ध्येयं यानरत्नं शिवाध्वनि ॥ २५०॥ ललितप्रस्फुरद्वाचं संकीर्तीकृतनारकम् । कमलोपमपादाब्जं दलभीत्यपहाभिधम् ॥ २५१ ॥ तुष्टचित्तः ससम्मोदं रञ्जितो मुखदर्शनात् । वन्दामि श्रीस्थिरासूनुं दर्शनस्य प्रभावकम् ॥ २५२ ॥
गतप्रत्यागतरीत्या परिधित्रयराजितं ९६ दलकमलबन्धचित्रम् । २४ कुलकम् । तपगणकमलविकाशनदशशतकिरणैकसममहं वन्दे।
श्रीविजयदेवसूर कामितवरकामकुम्भनिभम् ॥ २५३ ॥- इयं परिधिः । तमपथदशशतकिरणं पञ्चजनवातशरणसमचरणम् । गणसिन्धुशीतकिरणं नवपातकपङ्कभरहरणम् ॥ २५४ ॥ कमलैकतुल्यचरणं मदरेणुमरुत्समानताधरणम् । लब्धिविधिनीतिकरणं विश्वामण्डलविभाकरणम् ॥ २५५ ॥ कारुण्यासममवनं सम्पूर्णप्रवरशीतकरवदनम् । नयनविभावरनलिनं दर्शनस(सं?)मोदिताङ्गिजनम् ॥ २५६ ॥ शशधरकरवरसुगुणं संसारस्यैकतारणं तरणम् । तपनीयचारुकरणं कितवदिवान्धैकवरतपनम् ॥ २५७ ॥ रवगर्जत्सजलघनं नैकमहाश्रीनिवासपदनलिनम् । काष्ठौघकसभेदनसंवररिपुजनकतुल्यगुणम् ॥ २५८ ॥ मदमत्तमहावारणमतङ्गजारिं मनोभवेशानम् । हंसगमनासमानं वरतेजःपादपालिवनम् ॥ २५९॥ देवीविगीतगानं श्रीमद्गुरुविजयदेवनामानम् । विद्याक्षितिरुहकाननजलदसमानैकमहिमानम् ॥ २६०॥ यतनाविधाननिपुणं देशनया रज्यमानमघवानम् । वचनरचनासमानं सूरिसमज्यारमाभरणम् ॥ २६१॥ रिक्तीभवदभिमानं कासारसमं महोजले तूर्णम् । मिषभेदविधिविधानं तत्रादिवशीकृतौ निपुणम् ॥ २६२ ॥ वर्णितशास्त्रार्थगणं रम्यरमानिकरकेलिवरभवनम् । कार्य गतततकदनं मन्दरगिरितुल्यमहिमानम् ॥ २६३॥ कुमतिमदमृगमृगेनं भज भो जन! प्रवरसूरिराजानम् । निजविद्योतितजननं भक्तमनोवनकुरङ्गेनम् ॥ २६४ ॥ इन्द्राणीमनमोहनयशःसमूहं प्रसारिसज्ज्ञानम् । पण्डितसंशयहरणं रिपुगणसम्भेदिसद्ध्यानम् ॥ २६५ ॥
-४८ कमलदलम् । १२ कुलकम् । नवीमि सूरिराजानं ब्रह्माण्डसुयशोऽवधिम् । कल्पितानल्पदातारं सुराचार्यलसन्मतिम् ॥ २६६ ॥ नन्दितानेकराजानं स्वस्तिश्रीश्रेणिसन्निधिम् । नुवामि दमिनां नाथं निर्मलाचारराजिनम् ॥ २६७ ॥ - कर्णिका। श्रीमन्तं विगलद्भीतिं विशदस्वर्णवद्युतिम् । जगद्विस्तारिसत्कीर्तिं यशोजितनिशापतिम् ॥ २६८॥ देवप्रशस्यसज्जातिवंशाकाशदिवापतिम् । सूरीन्द्रं विस्फुरन्नीति लिपिचञ्चुकृतस्तुतिम् ॥ २६९॥ श्रीपर्णपर्णसद्वर्ण स्थिरराजस्य नन्दनम् । राजन्मोहितनाकीनं गणस्थगणतारणम् ॥ २७० ॥ जन्तुसार्थकृतज्ञानं माननिष्पाद्यकारणम् । नुवामि सत्कलापीनमगण्यगुणधारिणम् ॥ २७१॥
-कमलोपरि चमरद्वयम् । ४ कलापकम् । कौककैकककाकंकोकुककेकांककांककः । ककुक्कककिकांकाकोकककांकककाककः ॥२७२॥-एकव्यञ्जनचित्रम् । आनमेनममानामं नमन्मुनिमनूननम् । मुनीनामेनमुन्मानिन् ! मुने! नेना अनाममम् ॥२७३॥-व्यञ्जनद्वयचित्रम्। तत्तत्तां तनुतां तातानन्तानन्तेन तानतम् । ततनीति तते तेनानननूनेति तां ननु ॥ २७४॥ - व्यञ्जनद्वयचित्रम् । ममोद्दाममहाकाममदहामम ते नमः । सद्रासममविनमन् ! मानाममहागम ! ॥ २७५ ॥
-बीजपूरादि ९ चित्रमयश्लोकः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238