Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
श्रीविजयसूसिंहरिप्रेषिता विज्ञप्तिका नदीव सारवाग्ज्ञाता तेऽमला कामदुर्मदान् । दीनो हन्त्येव यत्पङ्कान् संसारशङ्करस्वर ! ॥२१९॥-पताकाबन्धः । तं श्रीमन्तं महविप्रवरमभिनुमः सर्वदा दत्तसातं, तत्त्वं पञ्चप्रमादक्षम ! नम नमं नो दिशन्तं नितान्तम् । तत्तच्छ्रीदं परार्थप्रद ! ससमगुणं सम्रसर्व सुकान्तं, रङ्गज्जम्पत्पतत्सद्दननमयदमी नंनमन्मं न दारम् ॥ २२० ॥
-परिधिकाव्यम् । एभिश्चिविंशतिदलकमलबन्धचित्रम् । सता मुत्प्रकरोपारिभद्रं भुवि गतालयः । दत्तां निस्तारकृद्भव्यगुणैस्तारतरोरुकः ॥ २२१ ॥ श्रीमन्मुनीन्द्र ! पापानि, छिन्द्याद् भुवनमण्डन ! । भक्तिनिर्भरसद्व्यवन्दितांहिसरोरुहः ॥ २२२ ॥
-नागपाशबन्धः। ससम्मदमुदा तारं नूनं मां कुरु रक्षक ! । यशोधःसुनुताधीतिकारः सन्याययादरः ॥ २२३ ॥ यतनाश्रीईरा नाऽद्यारजभोघमदानिह । नयतत्तमहो ! रम्याभापरो निर्दरस्तु वः ॥ २२४॥ जगत्तादमने भावं हतप्रयासधीवर ! । प्रत्तमानय मन्दारप्रभ ! स्वश्रेयसं ददन् ॥ २२५ ॥ जय सद्गतसन्नानामन्दश्रीद ! महन्मुने ! । रादाभानानावद्यारहरनूत ! जनप्रभो ! ॥ २२६ ॥ मायाघकुसुमं रुग्धी दारवं निर्जरं हकम् । प्रणयन्तं यशोमन्तं धनतत् सुयमं नुमः ॥ २२७ ॥ हन्ता दारधी रम्याऽतिप्रभाकाभपरखर ! । सत्श्रेणिन्यायदो यः स रयादनु ददन् वरम् ॥ २२८॥
-युग्मम् । परिधिः। कप्रपादद्वयाम्भोजश्रीकृताम्भोजसज्जयम् । संवरारिसमाभासं सस्फूर्तिश्रीकलाभृतम् ॥ २२९ ॥ तत्त्वाधारं गजेन्द्राभगमनश्रीप्रधारकम् । कष्टाम्भोधिनिमजन्मृतारणैकतरीप्रभम् ॥ २३०॥ नागगुणकलावामं दम्भदावाग्निवारिदम् । श्रीमुनीशं स्फुरज्ज्ञानं दरवारनिवारकम् ॥ २३१॥ कलसं मरुतां कामं कामिते कर्ममर्महम् । प्रणमन्मानवानां मुदायकं नायकं सताम् ॥ २३२ ॥ राजमानं तप:श्रीभिर्नेमुषां विहताधकम् । कलधौतप्रभोद्यत्श्रीभासुर महिमाकरम् ॥ २३३॥ नाराचभूलतं मानारमेदविहतादरम् । द्यां प्रति प्रगतश्लोकं वर्णितग्रन्थपेटकम् ॥ २३४॥ कन्दगर्जद्रवं मोहभिदं कन्दर्पशङ्करम् । तिग्मभानुस्फुरदनूनप्रतापश्रियं सदा ॥ २३५॥ जगजनगणाधारं तपखिव्याधिवारकम् । कथितानन्तसन्मार्ग प्रभूतविजयश्रियम् ॥ २३६ ॥ भोजमानतभूपं माकुशलारामनीरदम् । घनतीर्थकदम्बैकयात्रासुविधिकारकम् ॥ २३७॥ कजश्रेणिसमश्वासं प्रकाशितमहागमम् । तपागणपतिं भीरुरयनिर्भयदायकम् ॥ २३८ ॥ दासीभूतसुरश्रेणि धीरसाततायकम् । कदर्थितमहाकोपं वरचन्द्रसमाननम् ॥ २३९ ॥ निरवद्यतपोभाजं कलया कलयाश्रितम् । हंसाभगमनश्रीभी रजितानेकलोककम् ॥ २४०॥ करुणाजलधिं विप्रदत्तधर्म सुमानिनम् । विच्छिन्नप्रबलापायं शोकभूधरवज्रिणम् ॥ २४१॥ यशखिगुणविख्यातं तत्रादिजयकारकम् । कच्छपोन्नतपादाब्जमरुणाधरपल्लवम् ॥ २४२ ॥ ततप्रदत्तसदोधं सुन्दराकारमण्डितम् । तथैव कृतसिद्धान्तं नयशास्त्रादिधारकम् ॥ २४३॥ कमनीयमहान्यायं भवभ्रान्तहृतश्रमम् । नखश्रेण्युच्छलद्भानुं तारस्वर्णमणीकरम् ॥ २४४ ॥ हरिवर्ण्ययशोभारमष्टदुष्कर्मभेदकम् । कलिकालेऽपि गरिमदायकं सर्वशङ्करम् ॥ २४५॥ रक्षाकरं जनव्याधीतिध्वंसकरणे परम् । याचकावलिसङ्गीतं लक्षणान्वितमूर्तिकम् ॥ २४६ ॥ कदनच्छेदकं क्षिप्रं तन्वन्तं दिक्षु सत्प्रभाम् । संहरन्तं जगच्छवां रत्नातिरदप्रभम् ॥ २४७ ॥ परोपकरणे दक्षं भट्टारकविशेषकम् । कल्पितत्वच्छरण्यानां स्वर्गापवर्गसौख्यदम् ॥ २४८॥ लक्ष्म्यालीविशदावासं न्यायसिन्धुनिशाकरम् । निन्दावल्लीकुठारामं श्रेयस्ततिविधायकम् ॥ २४९ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238