Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१५२
विज्ञप्तिलेखसंग्रह भवेदमीषां दिविषद्रुमाणां, चैतन्यमन्यच मरुन्मणीनाम् ।
तदाऽऽनुयातां कथमप्यम् यत् , श्रद्धावतां दानसमानभावम् ॥१६॥ यत्पर्वतप्रतिमवप्रशिरस्यमाने, वैडूर्यसूर्यमणिराजिविराजमाने । ब्रनाङ्गजागमननिम्नगयोर्विधत्ते, भ्रान्ति मिथो मिलितयोमिलदंशुजालः ॥ १७॥ गौरीव सेवितमहाव्रतिसन्निधाना, सुखामिकामजननी विजयासमाना । वामभ्रुवां भ्रमति पक्तिरितस्ततो यत्, पौरी परं स्फुरति चित्रमिदं न चण्डी ॥१८॥ यस्या गुरुः स्तनभरो विभवोऽपि भाखांस्ताराकलापि विपुला जघनस्थली च । छायाभृदङ्गलतिका स्मितलोचनेयं, यस्मिन् व्यधायि विधिना दिविषन्मयीव ॥ १९॥
गोत्रान्तकर्ता दिवि देवभर्ता, न यत्र कुत्रापि कदाचिदासीत् । लङ्कानगर्यामभवन्निवासः, कीनाशराशेर्न तु यत्पुरान्तः ॥ २० ॥ सत्सन्निधानोपवने वियोगो, न गीयते भोगिजनेषु यस्मिन् । चिरं सरोगा विहगा यदीया, न केऽपि लोकाः क्वचिदप्यभूवन् ॥ २१ ॥
पतिः सपत्राकृतिरंहिपाणावारामभूमावभवन्न यस्मिन् ।
सदैव देवायतने विषादी, श्मशानवेश्मेव परं न पौरः ॥ २२ ॥ ॥ तत्र बुधमधुपचुम्बिततत्रभवच्चरणकजरजःपूते । श्रीद्वीपबन्दिरमहासरोवरे घनरसाकुलिते ॥ २३ ॥
जयति नगरीनारी विश्वेशितुर्विशिखामुखा, विविधविपिनोद्यानश्रेणिप्रवेणिविराजिता । सुकृतनिरतस्वान्तश्रद्धावदार्षविलोचन-द्वितयसुषमा चक्षुष्या या जिनालयनासिका ॥ २४॥
सद्दानमानमहनीयगुणाभिराम-श्रीधामधार्मिकविभूषितमध्यभागात् । सम्मर्दकर्दमविमर्दमधर्मरश्मि-श्रीवीतरागसुगुरुस्मरणैकरागात् ॥ २५ ॥ सौभाग्यभाग्यपरभागपरागराजी-राजीवमानवनिवासविभासमानात् । तद्-देवपत्तनपुरादसुरारिनारी-सब्रह्मचारिरमणीरमणीयगानात् ॥ २६॥ सन्नीतिरीतिविनयावनतोत्तमाङ्ग-विन्यस्तहस्तपरिदर्शितभक्तिभावः । आयलकोत्पुलकिताङ्गलताविभागः, प्रह्लादमेदुरमना विनयखभावः ॥ २७॥ निर्मापितग्रहपतिप्रमितप्रणाम, विज्ञप्तिकापुटकिनीमयमेकचित्तः।।
भक्त्यावतारयति वर्णविशिष्यमाणां, शिष्याणुमेरुविजयः सनयस्तथा हि ॥ २८॥ यस्मिन्नाशु बिशप्रसूतविकसत्कोशादिवाऽऽकर्षति, स्फूर्जत्तिर्यदभङ्गभृङ्गरमणीश्रेणीमिषेणारुणः । निस्त्रिंशं स्खकरैस्तमोरिनिकरान्निनन्तुमभ्युद्यतस्तेजस्वी द्विषतां श्रियं न सहते स्वस्याऽऽधिपत्ये सति ॥ २९॥ आरूढे सरसीरुहां परिवृढे प्राचीनपृथ्वीधर-प्रस्थे श्रीभुवनप्रबोधनविधिप्रारम्भकुम्भे शुभे । प्रातस्तत्र जरजपासुमनसां राशिप्रकाशे दिशां, सर्वासां विहसन्मुखेष्वनुदिनं कृत्यं यथाऽस्मिन् पुनः ॥ ३०॥
पर्षद्यमर्षमुषि हर्षमुषि प्रसिद्ध-श्रद्धावदिभ्यजनराजिविराजितायाम् ।। श्रीपश्चमाङ्गावरसूत्रपवित्रवृत्तेाख्याकृतिः सुकृतिनिर्मितहृत्प्रसत्तेः ॥ ३१॥ सन्देहवृन्दवनकर्तनकर्कशास्त्र-शास्त्रानुयोगभवनं मुनिमण्डलीनाम् । हृयोपधानवहनं सदुपासकानामङ्गीकृतग्रहपुषप्रमितव्रतानाम् ॥ ३२ ॥ चातुर्यतुर्यनियमोच्चरणप्रवीण-सानन्दनन्दिभवनं भवनं रमायाः। इत्यादिधर्मिजननिर्मितधर्मकर्म, सञ्जायते स्म दिवसं प्रति जायते च ॥३३॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238