SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५२ विज्ञप्तिलेखसंग्रह भवेदमीषां दिविषद्रुमाणां, चैतन्यमन्यच मरुन्मणीनाम् । तदाऽऽनुयातां कथमप्यम् यत् , श्रद्धावतां दानसमानभावम् ॥१६॥ यत्पर्वतप्रतिमवप्रशिरस्यमाने, वैडूर्यसूर्यमणिराजिविराजमाने । ब्रनाङ्गजागमननिम्नगयोर्विधत्ते, भ्रान्ति मिथो मिलितयोमिलदंशुजालः ॥ १७॥ गौरीव सेवितमहाव्रतिसन्निधाना, सुखामिकामजननी विजयासमाना । वामभ्रुवां भ्रमति पक्तिरितस्ततो यत्, पौरी परं स्फुरति चित्रमिदं न चण्डी ॥१८॥ यस्या गुरुः स्तनभरो विभवोऽपि भाखांस्ताराकलापि विपुला जघनस्थली च । छायाभृदङ्गलतिका स्मितलोचनेयं, यस्मिन् व्यधायि विधिना दिविषन्मयीव ॥ १९॥ गोत्रान्तकर्ता दिवि देवभर्ता, न यत्र कुत्रापि कदाचिदासीत् । लङ्कानगर्यामभवन्निवासः, कीनाशराशेर्न तु यत्पुरान्तः ॥ २० ॥ सत्सन्निधानोपवने वियोगो, न गीयते भोगिजनेषु यस्मिन् । चिरं सरोगा विहगा यदीया, न केऽपि लोकाः क्वचिदप्यभूवन् ॥ २१ ॥ पतिः सपत्राकृतिरंहिपाणावारामभूमावभवन्न यस्मिन् । सदैव देवायतने विषादी, श्मशानवेश्मेव परं न पौरः ॥ २२ ॥ ॥ तत्र बुधमधुपचुम्बिततत्रभवच्चरणकजरजःपूते । श्रीद्वीपबन्दिरमहासरोवरे घनरसाकुलिते ॥ २३ ॥ जयति नगरीनारी विश्वेशितुर्विशिखामुखा, विविधविपिनोद्यानश्रेणिप्रवेणिविराजिता । सुकृतनिरतस्वान्तश्रद्धावदार्षविलोचन-द्वितयसुषमा चक्षुष्या या जिनालयनासिका ॥ २४॥ सद्दानमानमहनीयगुणाभिराम-श्रीधामधार्मिकविभूषितमध्यभागात् । सम्मर्दकर्दमविमर्दमधर्मरश्मि-श्रीवीतरागसुगुरुस्मरणैकरागात् ॥ २५ ॥ सौभाग्यभाग्यपरभागपरागराजी-राजीवमानवनिवासविभासमानात् । तद्-देवपत्तनपुरादसुरारिनारी-सब्रह्मचारिरमणीरमणीयगानात् ॥ २६॥ सन्नीतिरीतिविनयावनतोत्तमाङ्ग-विन्यस्तहस्तपरिदर्शितभक्तिभावः । आयलकोत्पुलकिताङ्गलताविभागः, प्रह्लादमेदुरमना विनयखभावः ॥ २७॥ निर्मापितग्रहपतिप्रमितप्रणाम, विज्ञप्तिकापुटकिनीमयमेकचित्तः।। भक्त्यावतारयति वर्णविशिष्यमाणां, शिष्याणुमेरुविजयः सनयस्तथा हि ॥ २८॥ यस्मिन्नाशु बिशप्रसूतविकसत्कोशादिवाऽऽकर्षति, स्फूर्जत्तिर्यदभङ्गभृङ्गरमणीश्रेणीमिषेणारुणः । निस्त्रिंशं स्खकरैस्तमोरिनिकरान्निनन्तुमभ्युद्यतस्तेजस्वी द्विषतां श्रियं न सहते स्वस्याऽऽधिपत्ये सति ॥ २९॥ आरूढे सरसीरुहां परिवृढे प्राचीनपृथ्वीधर-प्रस्थे श्रीभुवनप्रबोधनविधिप्रारम्भकुम्भे शुभे । प्रातस्तत्र जरजपासुमनसां राशिप्रकाशे दिशां, सर्वासां विहसन्मुखेष्वनुदिनं कृत्यं यथाऽस्मिन् पुनः ॥ ३०॥ पर्षद्यमर्षमुषि हर्षमुषि प्रसिद्ध-श्रद्धावदिभ्यजनराजिविराजितायाम् ।। श्रीपश्चमाङ्गावरसूत्रपवित्रवृत्तेाख्याकृतिः सुकृतिनिर्मितहृत्प्रसत्तेः ॥ ३१॥ सन्देहवृन्दवनकर्तनकर्कशास्त्र-शास्त्रानुयोगभवनं मुनिमण्डलीनाम् । हृयोपधानवहनं सदुपासकानामङ्गीकृतग्रहपुषप्रमितव्रतानाम् ॥ ३२ ॥ चातुर्यतुर्यनियमोच्चरणप्रवीण-सानन्दनन्दिभवनं भवनं रमायाः। इत्यादिधर्मिजननिर्मितधर्मकर्म, सञ्जायते स्म दिवसं प्रति जायते च ॥३३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy