________________
श्रीमेरुविजयगणिप्रेषिता
[१०] - विज्ञप्तिः । -
खस्तिश्रीः क्रमपङ्कजं ऋतुभुजां राजीभिरभ्यर्चितं, भव्यानामपुनर्भवप्रतिभुवस्तस्य प्रदिश्यात् सदा। यन्मूर्धानमलञ्चकार चिकुरश्रेणीमिषेणोल्वण-व्यालः किं वदनेन्दुमण्डलवचःखच्छामृतेच्छादधिः ॥१॥ आवाल्याधिगमाद् वयं प्रणयतो मूर्धानमारोपिताः, सौभाग्यैकभुवो बभूम भगवान् कस्मादकस्मादय । अस्मानाशयतीत्यसातवशतः श्यामानवेक्ष्येव तान् , केशान् मूर्धनि किं दधौ व्रतविधौ कारुण्यपुण्योदधिः ॥२॥ खाहाभुक्प्रभृतिं चतुर्विधगतिं त्यक्त्वा व्रतादानतो, मूलादुद्वनितावशेषविषमद्वेषादिदोषाङ्करः । वर्तिव्ये सततोचपञ्चमगतावेवं किमावेदयन् , स्पष्टं मुष्टिचतुष्टयेन कृतवान् लोचं कचानामसौ ॥३॥
समस्तसुरसुन्दरीदलितनेत्रनीलच्छटा-कटाक्षलहरीजलस्खपितपादपीठस्थलम् । तमाप्तमुकुटं जटानिशितखड्गखण्डीकृत-प्रचण्डमदनद्विषं मनसि कृत्य नित्योदयम् ॥४॥
-
-श्रीऋषभजटामुकुटवर्णनम् ॥ यत्राऽनंलिहशम्भुपुङ्गवगृहप्रोत्तुङ्गशृङ्गप्रभा, शुभ्रादभ्रविभूतिविभ्रमवती वेल्लत्पताका बभौ । पूर्णवर्णपटो यदीयनिकटे प्रष्ठप्रतिष्ठां दधावम्भःकुम्भ इवाऽभ्रवर्त्मसरितो मुक्तः प्रतीरस्थले ॥५॥ यत्राऽनकषपौरुषोत्तमगृहे गौरीगुरुस्पर्धके, शृङ्गारोपितरौप्यकुम्भविलसत्केतूप्रभूतप्रभौ । जानीमः समवेक्ष्य दक्षतनयाधीशान्तरिक्षापगे, हीते प्राविशतां महानटजटाजूटाटवीकोटरम् ॥६॥ अस्ति स्वस्तिमती मदीयतनया पद्मालया सम्प्रति, क्रीडन्ती व्रतिराजपत्कजरजःपुखेन पुण्यीकृते । द्वीपेऽस्मिन्निति मूलतः कलयितुं वार्तामुदन्वानिव, प्रेषीत् खोत्कलिकां कलङ्कविकलां यच्चैत्यकेतुच्छलात् ॥७॥ किं निर्लजतया विपर्ययरर्ति निर्मापयन्ती जगत्, प्रत्यक्षं समवेक्ष्य नीरनिधिना साध नभोनिम्नगाम् । हीता कीर्तिकनी मुनीशितुरसौ चिक्षेप गोप्तुं तयोरूर्व प्रावरणं यदाप्तशरणे विस्तीर्णकेतुच्छलात् ॥८॥
धत्तेऽतिधौतकलधौतविनिर्मितो यत्रासादसंस्थितघटः प्रकटप्रतिष्ठाम् । किं व्योमवम॑गमनश्रमखिन्नभावदश्वाननान्निपतितोज्ज्वलफेनपिण्डः ॥ ९॥ यस्मिन् विहारहरिणाङ्कविभासिकुम्भ-दम्भेन यन्निहितकेतनकोमलाङ्गी । प्रासूत नूतनमिवाण्डमखण्डमेतत् , श्रीसूरिभासुरयशस्तरुणप्रसङ्गात् ॥१०॥ यस्मिन् विहारशिखरस्थितशातकुम्भ-कुम्भं निभाल्य तरुणीस्तनकुम्भयुग्मम् । ब्रीडानिपीडितमशुक्लमुखं विधाय, नंष्ट्वा प्रविष्टमिव कञ्चुलिकान्तराले ॥ ११ ॥ यत्रोच्चकाञ्चनशिलोच्चयदर्शनीय-प्रासादशृङ्गनिशिताग्रशताङ्गभङ्गात् । मध्यन्दिने दिनकरस्त्वरया प्रयाति, भीतो न विष्णुपदमध्यभुवं गतः किम् ॥ १२ ॥
अभ्रंलिहाहहहतुङ्गशृङ्ग-संयुक्तमुक्ताफलपतिराभात् । यदङ्गनावक्त्रविधेर्दिदृक्षा-व्यग्रा ग्रहाणामिव मालिकेयम् ॥ १३ ॥ यस्यां पुरि स्मेरमुखीमुखाब्ज-राजीसमुज्जृम्भितकान्तिनिर्जितः।
तेने तपःश्वेतघटच्छलादिव, च्छायाभृदर्हत्सदने तदाप्तये ॥ १४ ॥ यदङ्गनामङ्गलकेलिगीतनिर्हादतृप्तार्पयति स्म तासाम् । सारङ्गराजी निजक्सरोजश्रियं किमु प्रत्युपकारहेतवे ॥१५॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org