SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मेरुविजयगणिप्रेषिता विज्ञप्तिका किञ्च प्रमोदपदवीपथिकीकृताङ्गिवाते निवारितपरस्परवैरभावे । पर्यायतो विदितपर्युषणाभिधानपर्वण्यखर्ववरपर्वसुपर्वशैले ॥ ३४ ॥ आसीन्नवक्षणनवक्षणकल्पकल्पश्रीकल्पसूत्रपरिवाचनमादरेण । नानातपस्तपनमप्रतिमप्रभावपूगप्रदानमसमानजिनार्चना च ॥ ३५॥ चैये जिनाधिपतिसप्तदशप्रकारपूजाविधानविमलीकृतबोधिवृद्धिः । श्रीजैनशासनगुणग्रहणप्रवीणनिःशेषमार्गणगणद्रविणप्रदानम् ॥ ३६ ॥ साधर्मिकैः सुमनसा विहितान्यतुच्छ-वात्सल्यकानि कलिकश्मलनाशकानि । इत्यादिपर्वसुकृतानि कृतान्यविघ्नं, श्रीपूज्यपादचरणस्मरणप्रसादात् ॥ ३७॥ [अथ श्रीपूज्यवर्णना-] अखण्डगुणमण्डलीकलितकीर्तिसीमन्तिनी-वशीकृतजगत्रयीमनुजपूज्यपादाम्बुजः । जयत्यमरभूधरस्थिरतरप्रतिज्ञाधरः, स्मरस्मयशिवाधवः प्रवरसाधुवृद्धश्रवाः ॥ ३८॥ किमिव देव ! तव प्रमुखं मुखं, समवलोक्य विधुर्विधुरोऽभवत् । भ्रमति भीतवदेष तिरोभवन्नभसि दुर्दिनमध्यगतो यतः ॥ ३९॥ असमसौम्यगुणेन भवन्मुख-प्रतिमतामुपगच्छतु चन्द्रमाः। क्षिपति किं नु स बाह्यगतं तमस्तनुमतां मनसि स्थितमप्यसौ ॥ ४०॥ ननु निपीय तवाऽऽस्यवचःसुधां, विधुसुधां विदधुर्विबुधा मुधा । समभवन्निव शैवलवल्लरी, तदुपरि स्फुरदकमिषेण तत् ॥४१॥ किमिदमद्भुतसम्पदहं न वा, समवलोक्य मुखं भगवंस्तव । इति परीक्षितुमङ्कमिषात् करे, हिमकरो मुकुरं किमचीकरत् ॥ ४२ ॥ यतिपते ! त्वदतुच्छमुखच्छविं, किमु निशम्य हिमद्युतिरद्भुताम् । मलिनतां वहति स्म तमामसौ, वपुषि लक्ष्ममिषादमुखोदयात् ॥४३॥ सुविधिना विधिना विधुमध्यगां, किमु सुधां परिगृह्य विनिर्ममे । तव मुखं प्रमुखं कथमन्यथा, भवति चिह्नमिदं तुहिनद्युतेः ॥४४॥ भुवि भवद्वदनेन समं हिम-च्छविमवेक्ष्य गतं प्रतिपक्षताम् । मृदवलिप्तकरः स्थविरः क्रुधा, प्रहरति स्म किमङ्कमिषादिमम् ॥ ४५ ॥ यदि सितद्युतिमण्डलमन्वहं, वहति निर्मलमुत्पलयामलम् । विकचलोचनयुग्मभवन्मुखोपमितिमेति तदा कथमप्यदः ॥ ४६॥ सदृशतां भवदास्यशशाङ्कयोहदि विचार्य विरञ्चिरचीकरत् । किमुपलक्षितुमैन्दवमण्डलेऽचलकलङ्कमिषादुपलक्षणम् ॥४७॥ शशभृतं कृतवानिव तावकाननविनिर्मितये प्रतियातनाम् । शतधृतिः समतामवगाहते, कथमिदं भृशमस्य न चेदिति ॥४८॥ यदाननेन्दोः स्फुरदंशुजालविलासदासीकृतदर्पणस्य । सहस्रचक्षुः किमभूदभूतपूर्व हरिर्द्रष्टुमभीष्टरूपम् ॥ ४९ ॥ यस्याऽऽस्यमासीन्ननु पुष्पदन्तयोर्द्वयोस्तुलामाकलयद्गुणालिभिः । उन्मीलितानल्पकलामृणालिनि, विद्वच्चकोरस्पृहणीयमूर्तिमत् ॥ ५० ॥ वि०म०ले. २० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org For Private & Personal Use Only
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy