________________
विज्ञप्तिलेखसंग्रह
शङ्के मृगाङ्कोऽप्यवलोक्य यन्मुख श्रियं विशिष्टामटति स्म विस्मितः ।
इतीक्षितुं वस्तु किमस्ति वा न यत्, समानतामर्हति यन्महीतले ॥ ५१ ॥ - मुखवर्णनम् ।
सम्पूर्ण पार्वणनिशा मणिवर्णनीय - ज्योतिष्मदष्टदिशि यस्य यशोऽभिगीतम् । जानीमहे मनुजखञ्जनलोचनाभिः श्रोतुं प्रजापतिरभूदयमष्टकर्णः ॥ ५२ ॥
• विमलीकुरुते वसुन्धरां, प्रसरन् यस्य यशोमहोदधिः । इह यन्न सुधांशुमण्डलं, शुशुभे पाण्डुरपुण्डरीकवत् ॥ ५३॥ सुरनिकरकराग्रव्यग्रचामीकराद्रि-क्षुभितजलधिमध्यस्पर्धिवर्धिष्णुरोचिः । गगनतलकुवेलेऽनर्गलं खेलति स्म, प्रतिदिनमिह यस्य लोकलीलामरालः ॥ ५४ ॥ तैः सुप्रपञ्चितचरित्रगुणप्रवीणैरस्तोकशोकविषयव्यवसायरीणैः ।
तातैः प्रसादितनिजाङ्गपरिच्छदाङ्गवार्त [र्ता] प्रवृत्तिकलितं प्रतिपत्रमहे ॥ ५५ ॥ तातेन तेन मुनिमानवसेवितेन तुष्ट्यै शिशोः शशभृतेव कुमुद्वनस्य ।
सद्यः प्रसद्य निरवद्यहृदा प्रसाद्या, पत्री प्रसत्तिकलिता वरचन्द्रिकेव ॥ ५६ ॥ श्रीतातपादैः प्रगतप्रमादैर्महाप्रसादैर्मुनितिग्मपादैः । त्रिसायमंशुप्रमिता नतिर्मेऽवधारणीया गणिपुङ्गवैश्च ॥ ५७ ॥ ब्रह्माण्डमण्डलसरःप्रसरच्छर दिन्दुकीर्तिकुमुदवनाः । श्रीकनकविजयवाचकसरोजिनीजीविताधीशाः ॥ ५८ ॥ विहितगुणमणिपरीक्षणविचक्षणाभरणसत्य सौभाग्याः । अवगतधर्माधर्मस्वरूपकविधर्मचन्द्राश्च ॥ ५९ ॥ श्रीदेवविजयकवयः श्रीमत्पूज्य क्रमाब्जविशदवयाः । सन्मूर्तिकीर्तिविजया विशारद द्विजपतिप्रतिमाः ॥ ६० ॥ वरसुमतिसुमतिकुशलाः कुशलाः पाखण्डखण्डने मुशलाः ।
कुंअरविजया गणयः प्रवीणजननलिनदिनमणयः ॥ ६१ ॥
निर्मितवैयावृत्त्या गणयः श्रीखीम विजयनामानः । सद्बुद्धिऋद्धिविजयाभिधानगणिरोहिणीरमणाः ॥ ६२ ॥ लावण्यपुण्यवसति श्रीमल्लावण्यविजयनामानः । श्रीसौम्यसोमवदना गणयः श्री सोमविमलाश्च ॥ ६३ ॥ निरमर्षचतुर हर्षप्रकर्षगणिहर्ष विजयनामानः । सन्मानदानगानप्रधानमुनिमान चन्द्राह्वाः ॥ ६४ ॥ नीलोत्पलदलदर्शन गणिदर्शनविजयनामधेयाश्च । सद्भाव भावविजया मुनयः प्रतिपन्नवरविनयाः ॥ ६५ ॥ सद्धर्मधर्मविजयाभिधानमुनयः प्रधानगुणनिधयः । विलसद्गुणमणिरोहणधरणीधरसाधुगुणविजयाः ॥ ६६ ॥ तेजखितेज विजया मुनयोऽपि च मेघविमलनामानः । सिद्धिविमलाभिधानाः कल्याणप्रवरसौभाग्याः॥६७ साध्वीश्रीरूपाई - सुनयश्री लालबाइसाध्ध्यश्च । राजश्री - सहजश्री - चाम्पा साध्व्यश्च वरसाध्व्यः ॥ ६८ ॥ इत्यादितातपादप्रसादनारसिकसाधुसाध्वीनाम् । प्रणमत्यनुनती मे, शिशोः प्रसाद्या कृपावद्भिः ॥ ६९ ॥ इहत्याः किञ्च कवयः श्रीलब्धिविजयाभिधाः । शान्तिविजयनामानश्चारित्रविजयाभिधाः ॥ ७० ॥ सूरविजयनामानः सत्यादिविजयास्तथा । मुनीन्द्र विजयाह्वाना वेलाकूल स्थिता अपि ॥ ७१ ॥ श्रीमत्पण्डित लावण्य विजयाः प्राप्तसज्जयाः । चन्द्र-वीरादिविजयौ रविविजयनामकाः ॥ ७२ ॥ इत्यादिकाः प्रशमिनः सकलश्च सङ्घः, श्रीपूज्यपादगुणगानविधानदक्षाः । कुर्वन्ति तातचरणाम्बुरुहप्रणामं, सर्वंसहा निहितमस्तकपुण्डरीकाः ॥ ७३ ॥ विद्वन्मनोयुव विनोदपदप्रचारा, श्लेषप्रगल्भरससारखचः प्रपञ्चा । चेतश्चमत्कृतिकरी हरिणेक्षणेव, पत्री मुनीश्वरकरग्रहणं करोतु ॥ ७४ ॥
10
15
20
25
30
१५४
Jain Education International
[ 'अस्य लेखस्याऽऽद्यन्तकाव्यद्वयं गतं ज्ञायत इति ज्ञेयं ज्ञानविद्भिः । - इति आदर्शे टिप्पणिः । ] ॥ सं० १७४१ वर्षे श्रीभुजनगरे श्रेयः सर्वसङ्घस्य ॥
For Private & Personal Use Only
www.jainelibrary.org