Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
15
20
25
30
तपागच्छाचार्यश्रीविजयप्रभसूरिं प्रति उदयविजयगणिप्रेषिता
विज्ञप्ति का
[3]
Jain Education International
-
॥ ऐं नमः ॥ श्रीर्जयति प्रत्यहम् ॥ 5
[ आदौ श्रीशान्तिजिनादितीर्थङ्करनमस्काराः - ]
स्वस्तिश्रियः सन्ततमाश्रयन्ते, यत्सुप्रसादैर्विषयीकृतं ज्ञम् । स शान्तिनाथः शिवतातिरस्तु, प्रशस्तकारुण्यरसोर्मिमाली ॥ १ ॥ गर्भावतीर्णेन कृता धरित्र्यां, शान्तिर्जनानां सुखवृद्धिहेतुः । नामानुरूपं फलमर्पयन् स, प्रोल्लासयत्वद्भुतसम्पदं नः ॥ २ ॥ यस्य प्रसादाः परितः स्फुरन्तः, सर्वासु दिक्षु प्रबलीभवन्ति । एकैकशो यैर्विहितान्यभीष्टान्युच्चैः स्युरेभिः सकलैः कियन् न ॥ ३ ॥ तीर्थेशलक्ष्मीरपि चक्रिलक्ष्मी अप्युदीते प्रबलप्रभावात् । पूजा तदीया सुरवल्लि विश्वकर्त्यभीष्टानि किमत्र चित्रम् ॥ ४ ॥ पारापतो यच्छरणं प्रपन्नश्चिरायुरासीदपयातभीतिः । सर्वाणि सौख्यानि ददत् सकामं, दीर्घायुराविः कुरुतात् सदा नः ॥ ५ ॥ सुतेर्विधातार इतीद्धभावा, भवन्ति भूयो गुणरत्नकोशाः ।
यस्य प्रभोः शान्तिरसौ ससौख्याः, श्रियश्चिरं दातुमथोद्यमी स्तात् ॥ ६ ॥ श्री शान्तिनाथं सुषमासनाथं, पाथः पतिस्फारगभीरिमाणम् । प्रमाणभूतं कवितार्किकानां वाणीसुधावारिधरं प्रणौमि ॥ ७ ॥ एनं तथा श्रीवृषभध्वजं च, श्रीनेमिनाथं जिनवर्धमानम् । श्रीपार्श्वनाथं धरणाधिराजसंसेव्यमानस्फुटतीर्थमीडे ॥ ८ ॥ पञ्चतीर्थीमिमां पञ्चकल्पवृक्षगुणाद्भुताम् । पञ्चपाण्डववनमुक्तिपाञ्चालीसरसां स्तुमः ॥ ९ ॥ एतान् जिनेश्वरान् पञ्चपरमेष्ठिपुरन्दरान् । प्रणम्य सम्यग् भावेन रम्यमाहात्म्यशालिनः ॥ १० ॥ [ गच्छाधीशाधिष्ठितद्वीपबन्दिरवर्णनम् - ]
महेभ्यानां ततिर्यत्र मनोऽभीष्टप्रदायिनी । अनयाऽध्यापिता मन्ये कल्पवृक्षाः समर्पणम् ॥ ११ ॥ एकेन्द्रियाणां दानादिचातुरी कोपलभ्यते । युग्मिनां किन्तु संगत्या कर्मभूमिषु लभ्यते ॥ १२ ॥ युग्मिनां प्रतिरूपास्तु यच्छ्राद्धा गुणशालिनः । दानभोगादयोऽमीषां वर्ण्याः के के न साम्प्रतम् ॥ १३ ॥ ^ दानभोगमयं क्षेत्रं यदि तद् द्वीपबंदिरम् । युग्मिक्षेत्रमिव श्रीमत्पूज्यास्तत्र सुरद्रुमाः ॥ १४ ॥ दत्ते सुरद्रुमो भुक्तिं न तु मुक्तिं कदाचन । भुक्ति-मुक्तिद्वयं पूज्या इति तेभ्यो विशिष्टता ॥ १५ ॥ युग्मक्षेत्रमिव श्रीमद्वीपबन्दिर माहितम् । सद्भोगशालिनो यत्र लोकाः स्युः क्षेत्रशक्तितः ॥ १६ ॥ लावण्यपुण्यसौभाग्यभाग्योत्कर्षस्समीह्यते । यैस्तेषां द्वीपसुक्षेत्रप्रसङ्गो युज्यतेऽनिशम् ॥ १७ ॥ समुद्रे सन्ति रत्नानि स च य[]द्रंगसंगतः । रत्नार्थी कामनां स्वां तत् पूरयेत् तत्र नाद्भुतम् ॥ १८ ॥
←
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238