Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 151
________________ १३० विज्ञप्तिलेखसंग्रह किं तस्य क्षयिता क्षयस्समभवत् किंवा कलङ्कव्ययः, किंवा राहुपराजयः किमथवा नास्ताचलस्याश्रयः । किंवा दैन्यदशा दिने दिनपतेस्तेजोभिजन्मागता, तस्मात् किं महदाश्रयेण जयतात् कर्मैव शर्मावहम् ॥१४॥ मिथ्या किं कथनैर्घनैर्मतिधनैः प्रागेवमावेदितम् , यत्कर्मैव शुभाशुभं समुदितं सम्पद्विपत्कारणम् । पारावारपरिश्रये हि सदृशेऽप्याजन्मतो भूभुजाम् , प्रेयांसो मणयो भवन्ति न पुनस्तत्संगताः क्षुल्लकाः ॥१५॥ एके केऽपि लघु श्रिता अपि जने निष्कम्पसम्पत्पदम् , विश्वश्लाघ्यतमा भवन्ति पृषतः शुक्तिप्रसक्ता यथा । तुम्बीजातफलाश्रयेऽपि सरितः पारं व्रजेयुः प्रजाः, तद्भाग्यस्य विजूंभितं विजयते ह्येकातपत्रं भुवि ॥१६॥ किं चानेन मृगार्भकेण भगवत्सेवा विधेया कथम्, कार्याकार्यविवेकरिक्तहृदयतियक्षु भिक्षुः स्फुटम् । तत्राप्येष वनेचरस्तृणचरः क्षुद्रः प्रकृत्या पुनर्भाग्यादेव जिनेन्द्रसेवक इति ख्यातिं परां लेभिवान् ॥ १७ ॥ ॥ इति भाग्यसौभाग्यवर्णनाष्टकम् ॥ अत्रोच्यतेएतत्सर्वमपि प्रमादललितं दुस्तर्कसंपर्कजम् , यन्यायानुगबुद्धयः प्रतिपदं सर्वे वदन्त्यादिमाः । शम्भोः सेवनया दुरन्तदुरितं दूरे भवत्यङ्गिनो, भाग्यं भूरिविभूतिभाजनमलं जागर्ति की. समम् ॥१८॥ वातायोरपि बालको बलमुनेः सेवारसैर्वासित-स्वान्तःकान्तसुधाशनश्रियमतिप्राज्यां समाशिश्रियत् । पार्श्वश्रीजिनभाखदास्यकमलस्यावेक्षणात् तत्क्षणात्, सर्पः श्रीधरणोरगेन्द्रपदवीं चक्रे दविष्ठेतराम् ॥१९॥ आबाल्यादपि पापपङ्ककलुषश्चौरश्चिलातीसुतः, संसर्गात् सुगुरोविवेककलितः स्वर्गालयं भेजिवान् । दग्ध्वा मोहमहाटवीं पटुमतिर्नित्यं नृहत्यादिकृत् , सत्सेवाभिगमाद् दृढाभिहननो निःश्रेयसं जग्मिवान् ॥२०॥ भाग्यस्योदयतस्तदेतदखिलं जातं मतिश्चेदियम् , देवस्याथ गुरोः सतः सुमनसः शुश्रूषयाऽस्योदयः । योगक्षेमसमानमानय मनस्तकं कृतं विस्तरैः, साध्यं सिध्यति सामभिर्ननु तदा किं विस्तृतैः प्रस्तरैः ॥ २१ ॥ सर्वोत्पत्तिनिमित्तमुक्तमियता ग्रन्थेन कर्मैव यत्, तत्सर्वं व्यभिचारभृन्मणिकृताऽगम्यागमादौ कृतम् । यो वार्हत्समयः स चापि विशदः कालादिपञ्चाश्रयः, प्रामाण्यं भजते. नयेन न पुनः कर्मप्रपञ्चारमना ॥ २२ ॥ यच्चाप्युक्तचरं मरुत्तनुरुहानूरुक्षपाखामिनाम् , व्यक्ता भक्तिरपि क्षणादविकलं नासूत पूतं फलम् । तत्तेषां मनसामशुद्धिरिति मे जाग्रन्मुखी शेमुषी, यद्वा तत्फलसंभवोऽपि समभूदु भूयान् स हि श्रूयताम् ॥२३॥ पूज्यत्वं जगतां सदाभ्युदयिता देवेषु मुख्यं यशः, शक्तियॊमसमुद्रलफनविधौ विश्वोपकारी भवः । दुष्टध्वान्तकृतान्ततारिपुजना सङ्गेऽप्यखण्डाङ्गता, शुश्रूषा महतां शुभा सुरगवी किं किं न दिश्यात् फलम् ॥२४॥ तुल्येऽम्भोधिनिषेवणेऽपि मणिषु क्षुद्रेषु शर्केषु वाऽऽभीष्टानिष्टमतिस्तदेतदुदितं खार्थस्य लीलायितम् । यद्वाल्पत्वबहुत्वयोर्विलसितं ज्ञेयं पुनर्वारिधेः, संसर्गाजनतासुपावनमतिः ख्यातैव शङ्खन किम् ॥ २५ ॥ क्षुद्रो बाल्यवया विवेकविकलः सेवाविधौ निर्बलो, नैतचेतसि संनिधेयममलप्रज्ञाधनैः सजनैः । भक्तिर्भावविशेष एव स गुरौ क्षुद्रेऽपि साधारणो, भावग्राहमहाग्रहा हि विभवस्तुष्यन्त्यणीयस्यपि ॥ २६ ॥ अथैवं व्यवस्थापने लेखपद्धतिः एवं समर्थयति सद्गुरुपर्युपास्तेर्जाग्रत्प्रभावविभवं हरिणोऽङ्कशायी। यस्य प्रभोस्तमचिरादचिरातनूजं, भक्त्याभिनम्य करुणाचरणाशरण्यम् ॥ २७॥ तत्र श्रीमत्सरसिरसिकैरास्तिकैः श्वेतपक्षैः, पूर्णे पूज्यक्रमजलरुहै!तपद्माकरत्वे ।। सेवाप्रौढेमनसि हसितः कर्मणा नर्मवादम् , कृत्वा तत्त्वाश्रयणविधये प्रेषयत्येष मेघः ॥ २८ ॥ युग्मम् ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238