Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 157
________________ विज्ञप्तिलेखसंग्रह यः स्याद् बहुवार्थनिबद्धबुद्धिः, स चर्मचक्षुर्विषयामुपास्तिम् । करोति तत्त्वे तु निविष्टदृष्टिस्त्रिधापि तत्राभ्यधिकं हृदेव ॥ ११ ॥ अवामनन्ते न मनोऽखिलार्थप्रसाधने ज्ञानधनैर्निगीर्णम् । तपःक्रियाबोधनिरोधनाद्यैः, सिद्धं मनः पारदवत् खसिद्ध्यै ॥ १११॥ वयं तु पश्यामःश्रीइन्द्रभूतिः प्रथितोऽस्ति शास्त्रे, श्रीवीरसंसेवनकर्मधीरः । हेतुं पुनः प्राप्य जनप्रबोधादिकं स दूरे विजहार देशे ॥ ११२ ॥ आदीक्षणाचैनपदाब्जसेवी, देवीभिरुदीतयशाः सुधर्मा । पट्टेशिताऽभूत् स इवैष सूरिगुरोरुपास्तेर्ललितं तदेतत् ॥ ११३ ॥ तस्मात् कृतं केवलभाग्ययोगव्यावर्णनैर्येन गुरावनेके । कृताश्रयाः सन्ति गुणा यदीडाविधौ विधिर्न प्रभुरुप्रधीमान् ॥ ११४ ॥ तदस्तु वस्तु प्रतिपत्तिहेतुः, सेवैव देवैरपि कांक्षणीया। यस्याः स्मृतौ श्रीगुरुराजमग्रे, प्रत्यक्षतो लक्ष्यमिवानमामि ॥ ११५ ॥ एवं विवादे बहुभाग्यलभ्यान् , सभ्यान् परीक्षाकरणे महेभ्यान् । नमाम्युपाध्यायगणद्विपेन्द्रान्, श्रीमद्विनीताद् विजयाभिधानान् ॥११६॥ लक्ष्मीसलक्ष्मीकृतपूर्वलक्ष्मीः, परः स लक्ष्मीविजयः कविस्तम् । पयोधरस्पर्धनधीररावं, पार्श्वस्थभावेन बलान्नमामः ॥ ११७॥ प्रभोः पदाम्भोजरसोपलम्भाद्, भृङ्गायितं यैः सुधियां वरेण्यैः । तान् वादसंवाददृशेऽवनम्रानन्वानतः श्रीरविवर्द्धनाख्यान् ॥ ११८ ॥ लघौ गुरुत्वं च गुरौ लघुत्वं, संस्थापयन्तो भगवनियोगात । प्राज्ञा यशस्तो विजयाः सदाराधना धनादेर्विजयाः कवीन्द्राः ॥ ११९ ॥ सतत्त्वतत्त्वाभिनिविष्टबोधास्तत्त्वादिसम्यग्विजया गणीन्द्राः । श्रीहेम-सौभाग्य-जयादयोऽन्ये, गणिप्रधाना गुरुसन्निधानाः ॥ १२० ॥ युक्तोऽत्र हर्षाद्विजयेन नाम्ना, तथा जयादेर्विजयाभिधेन । गुरुप्रसादाप्तबहुप्रमोदश्रिया प्रमोदाद्विजयाह्वयन ॥१२१ ॥ नत्वाऽनुनम्याथ यथार्हमेतान् , गुरोः पुरोऽहं विनिवेदयामि । विज्ञप्तिमेतामनुभाव्य सद्यः, प्रसद्य देयं ननु पत्रकं मे ॥ १२२ ॥ पादान्तभाक्त्वेन लघुर्गुरुः स्याच्छन्दस्तदावेदयते प्रमाणम् । भाष्येऽपि सिद्धं गुणतः प्रसिद्धे, शब्देन जातेविषयी विमर्शः ॥ १२३ ॥ इति रहस्यम् ॥ श्लेषात् कचिल्लक्षणया क्वचिद्वा, वैचित्र्यभृत्पत्रपिकाह्नपत्री । श्रीमत्प्रभोर्मानसकल्पवृक्षे. विश्राम्यतां रम्यगिरा प्रमोदी॥ १२४॥ पश्चाद् गुरोर्दृष्टिसुधाप्रवाहैराप्लाव्यमानं दलमेव देयम् । स्मार्यश्च कार्येषु जिनार्यनामे(१), भुजिष्यमुख्योऽस्त्विति मङ्गलश्रीः॥१२५ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238