Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 158
________________ तपोगच्छपतिश्रीविजयदेवसूरि प्रति श्रीविजयसिंहसूरिप्रेषिता [९] - विज्ञप्ति का - [आदौ श्रीमहावीरजिनवरनमस्काराः ।। खस्तिश्रीमुद्यदुद्यधुसदधिपनमन्मौलिमौलिस्थरत्न-प्रोत्सर्पद्दीप्रदीप्तिप्रकरझरभरोन्मग्नमूर्तिः स्वयं यः । चित्रं नानाभवाविर्भवभयसलिलोन्मजदङ्गिव्रजेभ्यः, प्रस्फूर्जद्भक्तिभाग्भ्यो जगति जिनपतिस्तारयेत् स श्रिये स्तात् ॥१॥ खस्तिश्रीपृष्ठभासः क्रमणनखभुवः सर्वदिङमण्डलेषु, प्रांशुप्रत्युग्ररज्जुव्रजवदिव समाकर्षयन्त्यः स्फुरन्ति । सद्भ्यः किं दत्तुकामाः प्रभवसमरमा अच्छदिग्वैभवस्य, यस्सोचैर्वश्यभावं नयतु स भगवान् माद्यदन्तर्विपक्षान् ॥२॥ खस्त्यस्माभिः समत्वं किमवयवनखैस्तजिनेन्दोः पदानां, लब्धुं शक्नोति साकं खदशशतकरैरप्यहो ! व्योमरत्नम् । यस्मादन्तस्तमोघा वयमिति च हसन्त्युच्छ[ल]द्भिः करैस्तं, यत्पादोद्यन्नखौघाः स मयि निजदृशौ शा] तुष्टिपुष्टी विदध्यात् ॥ ३॥ स्वस्तिश्रीसमवायि वीरभगवत्पादद्वयं स्तान्निजाद्वैतध्यानविधानशुद्धमनसां तच्छ्रेयसे भूयसे । नम्राखण्डलमण्डलप्रतिफलन्मौलिस्थमौलिस्फुरन्मालालीसुमनोवजः किमपि तत्तेजोऽभजद् यद्गुणात् ॥४॥ खस्तिश्रीप्रतिबद्धरागरसिका यत्पादकामानुशाः, प्रोचैः स्वीयकरप्रसारकरणैः संसूचयन्तीति किम् । अस्मद्वच्चरणाश्रितौ भगवतो ये रक्तचित्ताः स्वयं, ते केनोर्ध्वगतिं भजन्ति सततं निश्छिद्य सद्यस्तमः ॥५॥ खस्तिश्रीरिति यस्य शस्यचरणाम्भोजन्मयुग्माश्रितेः, श्रीरेव प्रतिवासरं समभजत् स्वस्मिन् प्रकृष्टान्वयम् । मन्ये तच विचित्रकृद्भगवतो यद्भक्तियुक्ताङ्गिनः, सद्यः स्वस्तिसमन्विताः प्रतिभवं भूयासुरस्मिन्न के १ ॥६॥ खस्तिश्रीरिव नः समाश्रयकृतेरासाद्यतां वन्द्यतां, स्वर्लोकादिजगत्रयेषु भविनः संवीक्ष्य किं सम्मुखम् । जल्पन्तीति करप्रसारकरणाद् यत्पादकामाङ्कुशाः, स श्रेयस्तनुतां सतां स्तुतिकृतां तां तां ततां तां पुनः ॥ ७॥ खस्तिश्रीबहुरूपिणां समभजद् विद्यां यदंहिश्रयात्, तद्भक्तिप्रणताङ्गिनोऽनुगमनाद् यस्यानुभावात् स्फुटम् । " तत्सत्यं यदनेकनम्रभविभिस्तत्पादकामाकुशश्रेणीषु प्रतिबिम्बितैः प्रतिदिनं कैः कैर्न साऽऽसाद्यते ॥ ८॥ खस्तिश्रीपरिभूषिताः प्रतिदिशं यत्सन्नखाभीशवो, दीप्यन्ते किममर्षतस्त्विति सदा रक्तास्तमोध्वंसिनः। अस्मद्भक्ति[कृतां कथं परिभवत्येतज्जगजन्मिनां, स श्रेयोव्रततीततीनवघनः श्रीवर्धमानः श्रिये ॥ ९॥ स्वस्तिश्रीप्रतिपूर्णतां तनुमतां दत्तां स वीरप्रभुर्यस्योद्यन्नखराः करैर्दिशि गतैः किं ज्ञापयन्तीत्यहो ! । अस्माकं द्युतिनिर्झरेषु विहितैः स्नानैः शुचीभूय भो!, श्रीमन्तः! प्रतिपद्यतां नतिकृतेः शस्यात्मतां जन्मिनः॥१०॥ खस्तिश्रीस्मितवारिजन्मवदना वक्षःस्थलस्थायिनी, मुक्ताहारलतेव यत्क्रमभवस्फूर्जन्नखानां ततिः। तस्याः किं स्फुरदोष्ठसंक्रमणतश्चञ्चत्प्रवालद्युति ति स्वस्ति तनोतु वः स भगवान् श्रीत्रैशलेयो जिनः ॥११॥ खस्तिश्रीततिसमनः परिणमत्क्ष्मापैः स्वयं मूर्ध्नि यान् , धृत्वाऽऽसादि समस्तशस्तकमला दुष्टांहसां च क्षयः । लिप्सोस्तत्तुलनां हियोऽपि नहि तेनोकैः पुरस्कुर्वतः, सूर्य यस्य नखाः करैरिव हसन्त्येवं स वः श्रेयसे ॥१२॥ स्वस्तिश्रीजनकोऽस्तु यन्नखततिर्भास्वत्करैः संनमत् , सन्मौलिं परिमृज्य सम्मुखमिवाऽऽलोक्येति वक्ति स्फुटम् । " चेदभ्यन्तरदुस्तमोहतिपरास्तन्नः स्खचित्ते स्थिति, धत्ताऽस्मत्स्थितितः प्रयाति न कुतो यस्मात् तमः सर्वतः ॥१३॥ वि. म.ले.१८ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238