________________
१३०
विज्ञप्तिलेखसंग्रह
किं तस्य क्षयिता क्षयस्समभवत् किंवा कलङ्कव्ययः, किंवा राहुपराजयः किमथवा नास्ताचलस्याश्रयः । किंवा दैन्यदशा दिने दिनपतेस्तेजोभिजन्मागता, तस्मात् किं महदाश्रयेण जयतात् कर्मैव शर्मावहम् ॥१४॥ मिथ्या किं कथनैर्घनैर्मतिधनैः प्रागेवमावेदितम् , यत्कर्मैव शुभाशुभं समुदितं सम्पद्विपत्कारणम् । पारावारपरिश्रये हि सदृशेऽप्याजन्मतो भूभुजाम् , प्रेयांसो मणयो भवन्ति न पुनस्तत्संगताः क्षुल्लकाः ॥१५॥ एके केऽपि लघु श्रिता अपि जने निष्कम्पसम्पत्पदम् , विश्वश्लाघ्यतमा भवन्ति पृषतः शुक्तिप्रसक्ता यथा । तुम्बीजातफलाश्रयेऽपि सरितः पारं व्रजेयुः प्रजाः, तद्भाग्यस्य विजूंभितं विजयते ह्येकातपत्रं भुवि ॥१६॥ किं चानेन मृगार्भकेण भगवत्सेवा विधेया कथम्, कार्याकार्यविवेकरिक्तहृदयतियक्षु भिक्षुः स्फुटम् । तत्राप्येष वनेचरस्तृणचरः क्षुद्रः प्रकृत्या पुनर्भाग्यादेव जिनेन्द्रसेवक इति ख्यातिं परां लेभिवान् ॥ १७ ॥
॥ इति भाग्यसौभाग्यवर्णनाष्टकम् ॥ अत्रोच्यतेएतत्सर्वमपि प्रमादललितं दुस्तर्कसंपर्कजम् , यन्यायानुगबुद्धयः प्रतिपदं सर्वे वदन्त्यादिमाः । शम्भोः सेवनया दुरन्तदुरितं दूरे भवत्यङ्गिनो, भाग्यं भूरिविभूतिभाजनमलं जागर्ति की. समम् ॥१८॥ वातायोरपि बालको बलमुनेः सेवारसैर्वासित-स्वान्तःकान्तसुधाशनश्रियमतिप्राज्यां समाशिश्रियत् । पार्श्वश्रीजिनभाखदास्यकमलस्यावेक्षणात् तत्क्षणात्, सर्पः श्रीधरणोरगेन्द्रपदवीं चक्रे दविष्ठेतराम् ॥१९॥ आबाल्यादपि पापपङ्ककलुषश्चौरश्चिलातीसुतः, संसर्गात् सुगुरोविवेककलितः स्वर्गालयं भेजिवान् । दग्ध्वा मोहमहाटवीं पटुमतिर्नित्यं नृहत्यादिकृत् , सत्सेवाभिगमाद् दृढाभिहननो निःश्रेयसं जग्मिवान् ॥२०॥ भाग्यस्योदयतस्तदेतदखिलं जातं मतिश्चेदियम् , देवस्याथ गुरोः सतः सुमनसः शुश्रूषयाऽस्योदयः । योगक्षेमसमानमानय मनस्तकं कृतं विस्तरैः, साध्यं सिध्यति सामभिर्ननु तदा किं विस्तृतैः प्रस्तरैः ॥ २१ ॥ सर्वोत्पत्तिनिमित्तमुक्तमियता ग्रन्थेन कर्मैव यत्, तत्सर्वं व्यभिचारभृन्मणिकृताऽगम्यागमादौ कृतम् । यो वार्हत्समयः स चापि विशदः कालादिपञ्चाश्रयः, प्रामाण्यं भजते. नयेन न पुनः कर्मप्रपञ्चारमना ॥ २२ ॥ यच्चाप्युक्तचरं मरुत्तनुरुहानूरुक्षपाखामिनाम् , व्यक्ता भक्तिरपि क्षणादविकलं नासूत पूतं फलम् । तत्तेषां मनसामशुद्धिरिति मे जाग्रन्मुखी शेमुषी, यद्वा तत्फलसंभवोऽपि समभूदु भूयान् स हि श्रूयताम् ॥२३॥ पूज्यत्वं जगतां सदाभ्युदयिता देवेषु मुख्यं यशः, शक्तियॊमसमुद्रलफनविधौ विश्वोपकारी भवः । दुष्टध्वान्तकृतान्ततारिपुजना सङ्गेऽप्यखण्डाङ्गता, शुश्रूषा महतां शुभा सुरगवी किं किं न दिश्यात् फलम् ॥२४॥ तुल्येऽम्भोधिनिषेवणेऽपि मणिषु क्षुद्रेषु शर्केषु वाऽऽभीष्टानिष्टमतिस्तदेतदुदितं खार्थस्य लीलायितम् । यद्वाल्पत्वबहुत्वयोर्विलसितं ज्ञेयं पुनर्वारिधेः, संसर्गाजनतासुपावनमतिः ख्यातैव शङ्खन किम् ॥ २५ ॥ क्षुद्रो बाल्यवया विवेकविकलः सेवाविधौ निर्बलो, नैतचेतसि संनिधेयममलप्रज्ञाधनैः सजनैः । भक्तिर्भावविशेष एव स गुरौ क्षुद्रेऽपि साधारणो, भावग्राहमहाग्रहा हि विभवस्तुष्यन्त्यणीयस्यपि ॥ २६ ॥ अथैवं व्यवस्थापने लेखपद्धतिः
एवं समर्थयति सद्गुरुपर्युपास्तेर्जाग्रत्प्रभावविभवं हरिणोऽङ्कशायी।
यस्य प्रभोस्तमचिरादचिरातनूजं, भक्त्याभिनम्य करुणाचरणाशरण्यम् ॥ २७॥ तत्र श्रीमत्सरसिरसिकैरास्तिकैः श्वेतपक्षैः, पूर्णे पूज्यक्रमजलरुहै!तपद्माकरत्वे ।। सेवाप्रौढेमनसि हसितः कर्मणा नर्मवादम् , कृत्वा तत्त्वाश्रयणविधये प्रेषयत्येष मेघः ॥ २८ ॥ युग्मम् ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org