SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ तपागणाधीशश्रीविजयदेवसूरिं प्रति पं० मेघविजयगणिप्रेषिता [८] - विज्ञप्ति का - खस्तिश्रीमदमन्दमोदविनमद्देवेन्द्रमौलिस्फुरन् , माङ्गल्याझ्यवाङ्कराकरपरिग्लासाअयासाशया । यस्य श्रीजगदीश्वरस्य चरणाम्भोजन्मचिह्नच्छलात् , तस्थौ पीनतनूरनूनसुखभाग गोकर्णजस्तर्णकः ॥१॥ सर्वानन्दननन्दने भगवतः श्रीनन्दनेऽनन्दने', पादाम्भोरुहिरोहितोऽप्युपहितः सौभाग्यसद्माऽभवत् । नमानेकनृनाकिनायकवधूवृन्दस्य वीक्षाविधे-लावण्याभ्यनुशासनान्निजदृशोः पुष्यन्नदूष्यां श्रियम् ॥२॥ सेवाऽसौ महतां सतां भगवती जीयाजयश्रीपदम् , सर्वाऽखर्वयशःप्रशस्तिसदनं सम्पादनं संविदाम् । कन्दः शर्ममहोदयक्षितिरुहः सौहाईपात्रं श्रियः, सिद्धेः संवननौषधिनिरवधिर्भाग्यस्य वारांनिधिः॥३॥ सेवाया वशतः शतक्रतुपदं प्राप्ता नरोऽनेकशः, श्रीशान्तेर्जगदेकवीरपदवी प्राप्तस्य मोहाहतेः । ताराणामधिपस्य पश्यत जनाः क्रोडे पृषत्याः सुतः, क्रीडत्येष विशेषतः प्रियसुहृत् प्रायः प्रभोः सेवकः ॥४॥" जाग्रन्मानविमानवासिमरुतां मौलौ कृतालङ्कृति-लक्षालक्ष्मण एष किं मृगशिशुर्दिष्ट्याऽकरिष्यत् स्थितिम् । नासेविष्यत चेजगत्रयपति श्रीविश्वसेनात्मजम् , न स्यात् कस्य महन्निषेवणमहो नूनं महत्त्वाप्तये ॥५॥ ख्यातं सर्वजनेऽस्ति यन्मृगपतेः सर्वो मृगादिः प्रजा-वर्गः श्वापदपुङ्गवः स तु मतः सर्वस्य सेवोचितः । जज्ञेऽत्रैष विपर्ययप्रभुरभूदु देवाभिसेवी मृगो, नित्यं मण्डपमूर्ध्वगो हरिरयं तं सेवते भृत्यवत् ॥६॥ मूर्तेरासनसंस्थितं द्वयमिदं सिंहीतनूजन्मनोः, प्रत्यासन्नमपि प्रभोः परिचयाद् रंकुं न चाकामति । तव्योमनि चन्द्रमण्डलगतो नायं पराभूयते, सिंहीदेहभुवा स्वयं विजयते सोऽयं प्रभावः प्रभोः ॥७॥ श्रीमच्छान्तिजिनेन्दुसेवनविधेः प्राप्तं न किं किञ्जलम् , बालेनाप्यमुना मृगेण सहसा भीतिनिरस्ता हरेः । प्रीतिश्चन्द्रमसा बभूव भुवनश्लाघ्यात्मनश्चर्मणः, पावित्र्यं तदहो न किं वितनुते रङ्गत्सतां सङ्गमः ॥ ८॥ ॥ इति श्रीप्रभुसेवाप्रयत्नरत्नवर्णनाष्टकम् ॥ मत्रान्तरे भाग्यवादी प्रावादीत्किं सत्सेवनवर्णनैर्ननु धनैमिथ्याकृतैः प्राकृत-र्दिष्टं शिष्टमनिष्टमेव यदि वादिष्टं बुधैरुत्तमैः । विश्वस्यापि सुखासुखाधिगमने वित्तं निमित्तं सदा, पक्षस्यास्य विपक्षबाधकतया जैनागमो जागरी ॥९॥ दासो दाशरथेः कथं न हनुमान् पाथोनिधि तीर्णवान् , नोत्खातं दशकन्धरस्य विपिनं किं तेन मूलादपि । सीताशुद्धिवचोमृतैर्न शमिताः सर्वाः सुपर्वाग्रहात्, राज्ञो दुस्सहविप्रयोगदहनज्वालाः कराला अपि ॥१०॥ नोऽलङ्कारमणी बभूव स पुनर्देशाधिपत्यं जगद्, व्यात्तं नाप्तमनेन भूषणमपि क्षोणीश्वरस्योचितम् । कौपीनं न नवीनमालभत तद्भाग्यस्य विस्फूर्जितम् , शुश्रूषा कियदेति का बत कियच्चके वराकी बलम् ॥११॥ अध्वानाश्रयवान् वियद्रथवरे पादोऽपि चैकस्तथा, वाहाः सप्तनियन्त्रणस्य विषयः सन्दामिनीपन्नगः । इत्येवं विषमेऽपि सेवनविधौ बद्धादरः काश्यपिः, केनानूरुरभूदु रखेः प्रियतमः प्रेष्यः सहस्रत्विषः ॥१२॥ भालोद्भूतदृशो भृशोदितबृहद्भानोरदीनार्चिषः, पार्थे पन्नगराजसंयतजटाजूटाग्रकूटाश्रयी। गङ्गामङ्गतरङ्गसङ्गमभवक्षोमं दधानोऽनिशं, शीतांशुः प्रभुभालभूषणमयं संसेवते शङ्करम् ॥१३॥ वि. म.ले. १७ 25 Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy