________________
१२८
विज्ञप्तिलेखसंग्रह आवश्यकस्य सूत्रं तु स्वाध्याये वाच्यतेऽनिशम् । इत्यादिधर्मकृत्येषु जायमानेषु सादरम् ॥५१॥ पर्व पर्युषणानाम समायातमभीप्सितम् । तत्रापि धर्मकृत्यानि संजातानि यथोचितम् ॥ ५२॥ अथापि नित्यकृत्यानि धर्माण्युदयमीर्यति । कारणं तत्र सद्ध्येयः श्रीमत्पूज्यादिसंस्मृतिः ॥ ५३॥
अपरम्प्रतिगच्छं विराजन्ते शतशोऽपि गणाधिपाः । श्रीपूज्यानां समस्तेषां स्वप्नेऽपि महिमा कुतः ॥ ५४॥ भूयांसः सन्ति सद्विद्या भूयांसो रूपशालिनः । पुण्यप्रकर्षवन्तस्तु श्रीपूज्या एव केवलम् ॥ ५५॥ मुखे सरस्वती येषां हस्ते येषां पयोधिजा । वशीकरणलक्ष्मीस्तु पार्थे येषां सदा स्थिता ॥५६॥ यत्र तिष्ठन्ति तत्रत्या वश्यतां यान्ति मानवाः । दवीयांसोऽपि तच्चित्रं तद्वश्या सर्वदैव हि ॥ ५७ ॥ सोऽयं पुण्यप्रकर्षों हि येषामेवोपलभ्यते । न प्राचां तादृशो जातो नित्यमुद्यमशालिनाम् ॥५८॥ वृद्धि नीतो गणः सर्वे मुनयः पण्डितीकृताः । सर्वेषां भक्तिरागोऽपि रोपितश्चित्तकानने ॥ ५९॥ सर्वेषामीप्सितं दत्तं दीयतेऽद्यापि तादृशाम् । लघवोऽपि महीयांसः कृताः केचिन्निरर्गलम् ॥ ६॥ राग-द्वेषौ परित्यक्तौ सर्वे समदृशेक्षिताः । स्वपार्श्ववर्तिनः सर्वेऽप्याकण्ठं परिपोषिताः ॥ ६१॥ इतोऽप्यधिकता हन्त, कल्पवृक्षेषु का भवेत् । कल्पद्रु-कामकुम्भाद्या हारिता यत्पुरस्ततः ॥ ६२ ॥ मिथ्येदं चेद् भवेत् तर्हि, दृश्यन्ते ते कथं न हि । लज्जया किन्तु ते नंष्ट्वा गताः कुत्राप्यगोचरम् ॥ ६३॥ -प्राञ्चः सूरिवराः केचिद् गीतार्थावर्जनादिना । सातमुत्पादयामासु सातं कस्यचित परम् ॥ ६४॥ ये पुनः साम्प्रतं पुण्यबलबाहुल्यशालिनः । गणयन्ति न गीतार्थान् यादृक् तादृक् पदप्रदाः ॥ ६५॥ तथापि गीतार्थगणो भक्तिपूरितमानसः । दूरेऽपि ध्यानसंलीनः श्रीपूज्यानामहर्निशम् ॥ ६६ ॥ तैः श्रीपूज्यैर्जगत्पूज्यैः कृपादृष्टिः पटीयसी । रक्षणीयाऽधुना वृद्धभावान्मयि विशेषतः ॥ ६७॥ प्रसाद्यः पत्तनादेशो जातान्यब्दानि भूरिशः । प्रत्यब्दं प्रागभूत् तच्च सर्वेषामपि गोचरः ॥ ६८॥ पण्डिता वीरविजया वृद्धावस्थतयैषमः। धीणोजवंशादि वरं लम्भनीयाः पुरं ध्रुवम् ॥ ६९॥ समीक्षेत्रवरादेशो ज्ञानादिविजयात्मनाम् । विज्ञानां सुप्रसाद्यः श्रीपूज्यसेवाकृतां पुरा ॥७॥ वलमाने पुनलेषे(खे) प्रसाद्यं सप्रसत्तिकम् । वन्दना मम धर्तव्या राजहंसीव मानसे ॥७१॥ प्रसाद्याऽनुनतिः श्रीमत्पूज्यपादनिषेविणाम् । महिमासुन्दरज्ञानां परीक्षादक्षधीजुषाम् ॥ ७२ ॥ हेमादिविजयाह्वानां प्रधानपदवीभृताम् । विमलाद्विजयज्ञानां, श्रीपूज्यपदसेविनाम् ॥ ७३ ॥ ऋद्धेर्विजय विज्ञानां, लब्धेर्विजयधीमताम् । नयादिविजयज्ञानां, रूपाद्विजयवाग्ग्मिनाम् ॥७४॥ अन्येषामपि साधूनां ज्ञाताज्ञाताभिधाभताम् । सुख-प्रेमादि-गादि-विजयाद्वानां तपस्विनाम् ॥७॥ अत्रत्यानां च कुसलाद् विजयादिमनीषिणाम् । ज्ञानादि विजयानां पाण्डित्यगुणपोषिणाम् ॥ ७६ ॥ नयाजिनादुत्तमाच विजयानां सुखस्पृशाम् । मनजीकस्य च ऋषेर्नतिर्धार्या खचेतसि ॥ ७७॥ सर्वः सङ्घः प्रणमति ध्यायन्ति मुनयः प्रभून् । अत्रोचितं पुनः कृत्यं प्रसाद्यं सुप्रसत्तितः ॥ ७८ ॥ मार्गशीर्षे सिते पक्षे त्रयोदश्यां पुनस्तिथौ । विज्ञप्तिलेखोऽलेखीति नित्यं मङ्गलमालिका ॥ ७९ ॥ एतलेखसहृल्लेखकाव्यादिकरणादरः । विशेषतः प्रणमति ज्ञानादिविजयः शिशुः ॥ ८॥ एते च ज्ञानविजया अधीता विनयाश्रिताः। श्रीपूज्यानां कृपायोग्या मनोरञ्जनतत्पराः ॥ ८१॥
॥ पत्तनं सर्वथैव प्रसाद्यमिति तात्पर्यम् ॥
॥ श्रेयः श्रीरस्तु ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org