________________
उदयविजयगणिप्रेषिता विज्ञप्तिका
१२७
दामिन्य इव कामिन्यः खेलन्ति चटुलाशयाः । झात्कारमादिमाः कुर्युश्चमत्कारं तदुत्तराः॥१९॥ भूषणे सर्वदोड्योतः कामिनीनां प्रभाजुषाम् । सौदामिनीनामप्येष समये ज्ञायतेऽद्भुतः ॥ २० ॥ यत्सुन्दरीणां सारूप्यमप्सरोभिः समंततः । गेहोचत्वं प्रवृत्त्यर्थं ताभिस्तत्तत्र सूचकम् ॥ २१ ॥ अप्सरोभी रंगरसं देवा अनुभवन्ति यम् । तं लोका यत्र नारीभिस्समं रंगरसाब्धयः ॥ २२ ॥
एवं चनार्यः सुरवधूतुल्या नरा गीर्वाणसन्निभाः । अत्युत्तमत्वं गेहानामिति वैमानिकं सुखम् ॥ २३॥ 'दीव'लोकस्ततो देवलोकः कविभिरुच्यते । गुणोऽभवद्यतः पूज्यस्फुरद्व्याकरणादिह ॥ २४॥ गुरुर्देवो गुरुः खर्गेऽत्रापि देवगुरोः पदी । स्वर्गस्य द्वीपद्रंगस्य वैरूप्यं तेन कीदृशम् ॥ २५ ॥ विरतिस्तत्र नास्त्येव सा पुना रमतेऽत्र तु । किंचिद्वैरूप्यमित्येतद् द्वीप-त्रिदिवयोरपि ॥ २६ ॥ विजयप्रभसूरीन्द्रानधिगत्यैव यजनाः । खं मन्यन्तेऽधिकं खर्गिलोकतः पुण्यपोषतः ॥ २७॥ एकं भोगसुखं स्वर्गे न तु योगसुखं मनाक् । भोग-योगसुखद्वैतमद्वैतमिह वर्ण्यते ॥ २८ ॥ तुर्यारकचरच्छाया समानीतात्र सूरिभिः। महाविदेह इत्येष श्रीगुरुस्तीर्थनायकः ॥२९॥ सीमन्धरान्तरालेऽपि भूयांसः स्युर्जलादयः । अत्रापि ते दुर्निवाराः श्रीगुरोरन्तरे स्थिताः ॥ ३०॥ महाविदेहे तीर्थेशाः केवलं ध्यानगोचराः । श्रीपूज्या अपि सद्ध्यानगोचरा दूरतः स्थिताः ॥ ३१ ॥ पापक्षयाय जायन्ते ध्याता सद्भक्तिशालिभिः । उभयोऽपीति वर्ण्यन्ते सद्यः पद्यैः कवीश्वरैः ॥ ३२॥ ॥ नवलक्षप्रभुः पार्थो योगीन्द्रोऽपि जगत्पतिः । लक्षाधिकधनास्तत्र लोकाः स्युः किमिहाद्भुतम् ॥ ३३॥ नवलक्षप्रभुर्नित्यं सेव्यते यन्निवासिभिः । सहस्रशो भवन्त्येषां स्वर्णमुद्रास्तदर्हति ॥ ३४॥ सुविधिस्तीर्थकृद्यत्र जागरूकः कृपानिधिः । तत्र नो विधिदौर्बल्यं स्वतः सिद्धमिदं ननु ॥ ३५॥ देवः सुविधिरप्यत्र गुरुः सुविधिरक्षकः । अविधिस्तत्र को नाम बलीयस्त्वं समीहते ॥ ३६॥ भोगराजी परित्यक्ता राजीमत्या समं सुखम् । येनायं नेमिनाथोऽस्ति यत्र मूर्तः सुरद्रुमः ॥ ३७॥ 2॥ त्रयीयं तीर्थनाथानां जगत्रितयपूजिता । पूरयत्वीप्सितं पुण्यं करणत्रयशालिनाम् ॥ ३८॥ धन्यास्त एव यत्र श्रीपूज्याः सन्ति कृपालवः । अनुमोदनया तेषां दवीयांसोऽपि सत्फलाः ॥ ३९ ॥ श्रीपूज्यगुणरागेण धर्मिणो यत्र मानवाः । सप्तक्षेत्र्यां निजं वित्तं वपन्ति गुणरागिणः॥४०॥ तस्मिन्नानन्दसन्दोहकन्दकन्दलताम्बुदे । श्रीपूज्यपाविते श्रीमद्वीपबन्दिरसुन्दरे ॥४१॥
॥ इति द्वीपबन्दिरवर्णनम् ॥
[विज्ञप्तिप्रेषकस्य शिष्यस्य स्वकीयावासस्थानवर्णनम् -] गोरसः प्रचुरो यत्र गोकुलानि बहून्यपि । कियन्तो भद्रका यत्र केचित् स्वीकृततत्पराः ॥४२॥ प्रा(१)यसो वादिनो लोका हतं मुञ्चन्ति नो कति । केऽपि संवेगिनामानो मनःपावित्र्यसंशयाः ॥४३॥ धर्मप्रीतिरता धन्या धनधान्यादिपूरिताः । रागवन्तो जनाः प्रायः पटिष्ठाः परमात्मसु ॥४४॥ स्मरन्ति नित्यं श्रीपूज्यान् गच्छरागेषु सादराः । व्याख्यानश्रवणादीनि कुर्वाणाः प्रतिवासरम् ॥४५॥ ३० आवश्यकेषु सोद्योगाः द्विसन्ध्यामपि नित्यशः । ईदृशाः सन्ति यल्लोकाः सर्वदानन्ददायिनः ॥ ४६॥ राजधन्यपुरात् तस्मात् सविस्मयजनबजात् । राजसः प्रकृतिप्रायपुरुषश्रेणिशोभितात् ॥४७॥ विनयावनमन्मौलिभक्तिभावितमानसः । विनेयविधिसोत्साहसर्वतः प्रीतिपेशलः ॥४८॥ तरणिप्रमितावर्तवन्दनैः कृतनन्दनः । व्यातन्वते विज्ञप्तिं उदयात् विजयाश्रवः ॥ ४९ ॥ यथाकृत्यमिह प्रातर्यथोचितसुपर्षदि । वाच्यते भगवत्यङ्गं प्रस्फुरवृत्तिपूर्वकम् ॥५०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org