Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विज्ञप्तिलेखसंग्रह धानास्तत्रापि दिनदशकं स्थितिमजीघटाम । अथ ततः प्रचल्यातिदुरन्तमहामार्गसागरमतिक्रमयन्तः, क्रमेण सप्तरुद्राख्यमहाप्रवाहमयं जलनिवेशमक्लेशेनैव क्रोशचत्वारिंशत्प्रमाणं तरीभिरतिवाहयन्तो यथाक्रमं चडम्यमाणाः श्रीदेवपालपरपत्तनं प्राविशाम । तत्रत्य-मदपक्षीय-सं० घटसिंहादि-खरतरपक्षीय-सा० सारङ्गादि-विविधशुद्धश्रद्धश्राद्धसङ्घन घुम* घुमायमानघनतूर्यम्, गुमगुमायमानगन्धर्वम्, ब्रटन्त्रटायमानकाहलम्, दमदमायमानमर्दलम् , ढमढमायमानढोल्लम्, प्रौढीभवजयजयरवं प्रवेशोत्सवमन्वबोभूयामहि च । तत्रापि कोटीपुरवत् तानि तानि साधर्मिकवात्सल्यसङ्घपूजादीनि सङ्घपत्युचितानि निखिलान्यपि करणीयानि सङ्घपतिमहाधरादिभिस्तथा चक्राणानि यथा श्रीजिनशासनस्य सङ्घस्य साधूनां श्रावकाणां च प्रशंसोल्लापः खपरपक्षीयेषु प्रोल्ललास । तदेवं श्रीजिनशासनं भासयन् 10 सङ्घस्तत्र दशदिनी स्थितिमकरोत् । ततश्च तत्रत्यसङ्घलोकाग्रहेण तथाविधां तत्र योग्यतां मत्वा मेघराजगणिः सत्यरुचिगणि-कुलकेसरिमुनि-रत्नचन्द्रक्षुल्लकैः सहितश्चतुर्मासी स्थापितः। स च यावत्साम्प्रतं तत्रत्यसङ्घन सम्प्रहेठितोऽस्मदुपकण्ठं विजयी समायासीदिति।
___ [तीर्थयात्राप्रत्यावर्तन - स्वस्थानप्रवेशवर्णना-] 15६१३. अथातो वयं सह सहागतेन तेनैव सङ्घन सहसा प्रचेलिवांसः। क्रमेण श्रीमद्देवगुरुप्रासादसान्निध्यबोहित्थेनातिदुरुत्तरमहत्तरसरणिसागरं सुखसुखेनाकुतोभयाः समुल्लङ्घयन्तः, पदे पदे गमनावसरपरिचितानि निवासस्थानानि निश्चिन्वन्तः, अविच्छिन्नैः प्रयाणविपाशाकूलङ्कषां पश्चान्मुञ्चन्तः, प्राक्प्रस्थानमङ्गलवेलापरिचितं पुरोपवनं प्राप्ताः । इतश्च श्रीसङ्घागमनकिंवदन्तीपानोल्लसदालादमेदुरः समस्तालस्यच्छिदुरः प्रस्तावोचितक्रियाविदुरः 20 श्रीफरीदपुरीयः सङ्घस्तत्कालमिलितान्यग्रामसङ्घश्च; किंबहुना?-सर्वोऽपि ग्रामश्च तीर्थयात्रापुण्यपवित्रिताङ्गसङ्घदिदृक्षयातितृषितलोचनः सम्मुखीनोऽत्यौत्सुक्यभावादागात् । ततश्च तमुचिताशीर्वादेन सह प्रमोदेन योजयन्तः सङ्घपतिसोदराभ्यां सा० पासदत्त-सा० हेमाभ्यामतिप्रीतिपराभ्यां पूगीफलनालिकेरादिबहुलताम्बूलादिदानेन सक्रियमाणसर्वजने, वाञ्छितदानेनायाचकीक्रियमाणे याचकलोके, जायमाने प्रवेशोत्सवे फरीदपुरमवापाम । 26 यावत्सर्वोऽपि सङ्घोऽनिर्वाच्यपरमालादसुधाम्भोधौ मग्न इवाभूत् । तद्दर्श च वयमपि सिद्धिसमीहितत्वान्निरुपमसमाधिभाजोऽजनिष्महि ।
अपि चमनसि कृत्य जिनेश्वरवन्दनं प्रचलिता यत एव वयं मुदा।।
अभिनिनंसिततीर्थनमस्यया सुफलिताभिमतास्तत आगताः ॥ ११७॥ ७० सिद्ध्यन्तीशि कार्याणि प्रायेणोद्यमयोगतः । स चाप्यपेक्षते पुण्यं तच्च सङ्के प्रतिष्ठितम् ॥ ११८ ॥
॥ इति श्रीविज्ञप्तित्रिवेण्यां तीर्थयात्रार्थसमर्थिका
गङ्गातरङ्गाख्या द्वितीया वेणिः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238