Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
10
15
28
25
१७६
Jain Education International
विज्ञप्तिलेखसंग्रह
१२० ॥
वत्रार्थं ते समधित विधिः शारदेन्दोर्विभूषां, सारङ्गाक्ष्णोर्नयनविधये तद्वयोर्योग आसीत् । व्योमारण्ये तुहिनकपटादिन्दुकान्ताऽरुदत्तन् मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ११९ ॥ दासीभूतं प्रभुनवयशो ज्योतिषां पुण्डरीक - खण्डं मन्ये सरसि हसितं निर्मिमीते समीरान् । आमोदाढ्यान् वरुणककुभः पूर्वभागेऽभ्युपेतान् पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति जाने दिग्भिः पवनचमरैवज्यसे त्वं तदेताश्चन्द्रो ज्योत्स्नामलयजरसैरर्चयन् पश्चिमायाम् । नत्वेवैवं वदति भगवद्वन्दने वृत्तिभाजो, नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १२१ ॥ पृथ्वीपाथःपवनतरवश्चन्द्रसूर्यादिदेवास्त्वां सेवन्ते बहुरचनया दूरतोऽपि प्रशस्ताः । मत्सत्त्वं वा गगनशकलं दूयते केवलं यद्, गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १२२ ॥ चेतोवाक्ये मम निगदतोऽन्योन्यमाश्वासनाय, ध्यानाधीनैः स्तवनकथनैर्नीयतां दिष्टमेवम् । पश्चात् साक्षात् सुभग ! भगवत्सङ्गमे सर्ववृत्तं, निर्वेक्ष्यावः परिणतशरञ्चन्द्रिकासु क्षपासु ॥ १२३ ॥ धन्यंमन्यस्तदुषसि विभो ! स्यामहं विश्वविश्वे, यस्यां रात्रौ लयनिलयगः संलये त्वां निषेवे तां निद्रामप्यतिशयमुदा संस्तुवे ध्यानमुद्रां, दृष्टः स्वमेऽकितव ! रमयन् कामपि त्वं मयेति ॥ १२४ ॥ बालस्याऽनुक्षणकृतनतेर्मे स्वविज्ञप्तिरेषा, भाव्या स्वामिन्! हृदयविषये संनिधेयो विधेयः । अर्याश्चर्यानुगतमनसो वर्त्तमाने यदर्थाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १२५ ॥ विज्ञप्यैवं प्रवचननृपं श्रीविनीताभिधानोपाध्यायेन्द्रैर्विपुलमतिभिः सेवितं तन्निवृत्तः । तत्प्रत्युक्तानुनमैनमुखोदन्तवृन्दैर्ममापि, प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२६ ॥ एवं देव ! त्वयि विनिहितं कार्यमार्यं विचार्य, व्यक्तां शक्तिं सहृदयसुहृत् ! तावकीमत्र चार्थे । अङ्गीकारं द्रढयति तवाध्वानधाराप्रसारः, प्रत्युक्तं हि प्रणयिष्षु सतामीक्षितार्थक्रियैव ॥ १२७ ॥ पूर्वं मोदात्तपनृपतिना मे स्वसेवाकुमारी, सौभाग्याढ्या प्रणयसरसोद्वाहिता तद्वियुक्तेः । तापं हृत्वा विचर जलदाभीष्टदेशान् यथेच्छं मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२८ ॥ स्थित्वास्थायां मुनिपतिपुरोऽसौ निसृष्टार्थरूपी दिव्यध्वानैर्जलधरवरो वाचिकं व्याचचक्षे । जातस्तस्मान्मुनिनरपतिः सप्रसादो विनेये, केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ १२९ ॥ प्रत्यागत्य प्रणयिहृदयाम्भोधरेणादरेणादिष्टां वार्तां गुरुगुरुतरानुग्रहव्यञ्जिनीं सः । श्रुत्वा ज्ञानाचरणचरणोद्भूतभाग्यप्रतिष्ठान् भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १३० ॥ माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः ।
समस्यार्थं समस्यार्थं निर्ममे मेघपण्डितः ॥ १३१ ॥
॥ इति श्रीमेघदूतसमस्यालेखः संपूर्णः ॥
१ अनुवन्दना ।
२ अर्थ समस्य संक्षिप्येति एतस्य पदस्यायमभिप्रेत्य यमकितं कविना ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238