SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 10 15 28 25 १७६ Jain Education International विज्ञप्तिलेखसंग्रह १२० ॥ वत्रार्थं ते समधित विधिः शारदेन्दोर्विभूषां, सारङ्गाक्ष्णोर्नयनविधये तद्वयोर्योग आसीत् । व्योमारण्ये तुहिनकपटादिन्दुकान्ताऽरुदत्तन् मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ११९ ॥ दासीभूतं प्रभुनवयशो ज्योतिषां पुण्डरीक - खण्डं मन्ये सरसि हसितं निर्मिमीते समीरान् । आमोदाढ्यान् वरुणककुभः पूर्वभागेऽभ्युपेतान् पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति जाने दिग्भिः पवनचमरैवज्यसे त्वं तदेताश्चन्द्रो ज्योत्स्नामलयजरसैरर्चयन् पश्चिमायाम् । नत्वेवैवं वदति भगवद्वन्दने वृत्तिभाजो, नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १२१ ॥ पृथ्वीपाथःपवनतरवश्चन्द्रसूर्यादिदेवास्त्वां सेवन्ते बहुरचनया दूरतोऽपि प्रशस्ताः । मत्सत्त्वं वा गगनशकलं दूयते केवलं यद्, गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १२२ ॥ चेतोवाक्ये मम निगदतोऽन्योन्यमाश्वासनाय, ध्यानाधीनैः स्तवनकथनैर्नीयतां दिष्टमेवम् । पश्चात् साक्षात् सुभग ! भगवत्सङ्गमे सर्ववृत्तं, निर्वेक्ष्यावः परिणतशरञ्चन्द्रिकासु क्षपासु ॥ १२३ ॥ धन्यंमन्यस्तदुषसि विभो ! स्यामहं विश्वविश्वे, यस्यां रात्रौ लयनिलयगः संलये त्वां निषेवे तां निद्रामप्यतिशयमुदा संस्तुवे ध्यानमुद्रां, दृष्टः स्वमेऽकितव ! रमयन् कामपि त्वं मयेति ॥ १२४ ॥ बालस्याऽनुक्षणकृतनतेर्मे स्वविज्ञप्तिरेषा, भाव्या स्वामिन्! हृदयविषये संनिधेयो विधेयः । अर्याश्चर्यानुगतमनसो वर्त्तमाने यदर्थाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १२५ ॥ विज्ञप्यैवं प्रवचननृपं श्रीविनीताभिधानोपाध्यायेन्द्रैर्विपुलमतिभिः सेवितं तन्निवृत्तः । तत्प्रत्युक्तानुनमैनमुखोदन्तवृन्दैर्ममापि, प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२६ ॥ एवं देव ! त्वयि विनिहितं कार्यमार्यं विचार्य, व्यक्तां शक्तिं सहृदयसुहृत् ! तावकीमत्र चार्थे । अङ्गीकारं द्रढयति तवाध्वानधाराप्रसारः, प्रत्युक्तं हि प्रणयिष्षु सतामीक्षितार्थक्रियैव ॥ १२७ ॥ पूर्वं मोदात्तपनृपतिना मे स्वसेवाकुमारी, सौभाग्याढ्या प्रणयसरसोद्वाहिता तद्वियुक्तेः । तापं हृत्वा विचर जलदाभीष्टदेशान् यथेच्छं मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२८ ॥ स्थित्वास्थायां मुनिपतिपुरोऽसौ निसृष्टार्थरूपी दिव्यध्वानैर्जलधरवरो वाचिकं व्याचचक्षे । जातस्तस्मान्मुनिनरपतिः सप्रसादो विनेये, केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ १२९ ॥ प्रत्यागत्य प्रणयिहृदयाम्भोधरेणादरेणादिष्टां वार्तां गुरुगुरुतरानुग्रहव्यञ्जिनीं सः । श्रुत्वा ज्ञानाचरणचरणोद्भूतभाग्यप्रतिष्ठान् भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १३० ॥ माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः । समस्यार्थं समस्यार्थं निर्ममे मेघपण्डितः ॥ १३१ ॥ ॥ इति श्रीमेघदूतसमस्यालेखः संपूर्णः ॥ १ अनुवन्दना । २ अर्थ समस्य संक्षिप्येति एतस्य पदस्यायमभिप्रेत्य यमकितं कविना । For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy