________________
खरतरगच्छाचार्यश्रीजिनसुखसूरिं प्रति पं० विजयवईनगणिप्रेषितं
[४] विज्ञप्ति पत्रम्।
॥ श्रीजिनवाण्यै नमः॥
[आदो अर्हतादीनां नमस्काराः-]
खिस्ति श्रियालंकृत ईश्वरोऽयः, सर्वज्ञ आनन्दमयः स्वयंभूः । श्रीमारुदेवो नतदेवदेव, ईहाप्तये स्यादनिशं जनानाम् ॥१॥ श्येनाजिघांसोः प्रपलायमानं, पारापतं चाऽऽपततः पतंगम् । रक्ष्यं ररक्ष क्षमिता कृपात्मा, यः शान्तिरस्तु त्वरया स शान्यै ॥२॥ यातृहासपरिहासभाषितैरस्मरः स्म परिणेतुमिच्छति । उग्रसेननृपपुत्रिकां सको, नेमिराशु कुरुतात् स नः श्रियम् ॥३॥ काष्ठे प्रदग्धे स्थितनागयुग्मं, यस्य प्रसत्तेहि सुरः सुरी च । ऐन्द्रं पदं प्राप्य सपद्यभूतां, पार्थः प्रभुर्वः स सुखं प्रदेयात् ॥४॥ यो जातमात्रोऽपि कनिष्ठयांहेषूत्वा सुराद्रिं व्यपनीतवांश्च ।
इन्द्रस्य सिस्नापयिषोः सुशंकां, श्रीवीरधीरो भवताच्छिवाय ॥ ५॥ पञ्चतीर्थी सुप्रपञ्चा तीर्थभूतेव भाति या। संसारतरणे सारा सा भृशं दिशतु श्रियम् ॥६॥
15 सभास्थितानां विचिकित्सतां नृणां, जिनस्य पृच्छां स्वमुखादकुर्वताम् । प्राबूबुधत् संशयमत्युदस्य, तान् गौतमः सोऽस्तु सनातिलब्ध्यै ॥ ७॥
श्रीवीरपट्टस्थितिजातधा, सर्वज्ञसेवाभृशपुण्यकर्मा । काष्टघाताप्तविशुद्धशर्मा, श्रेयस्ततिं वः कुरुतात् सुधर्मा ॥८॥ मोक्ता हेनो नन्दनन्दप्रमाणकोटीनां यः श्रेष्ठिकोटीर इभ्यः ।।
ज्ञानादीनां योऽवधिः श्रेयसां च, जंबूनामा स प्रदत्तां स्वसत्ताम् ॥ ९ ॥ प्राग्दुष्कर्मवशात् तुरुष्कतनयं चारुष्करं 'संस्थितम् , ज्ञात्वा स्वीयमहे जनाकुलतते वादिननादाचिते । यः सन्मान्यजिजीवदाशु परया दुर्भेद्यया विद्यया, सोऽनेकान् बिरुदान् दधत् स्मरणतो धत्तां नृणां संपदम् ॥१०॥
अरिहरिकरिमुख्यान् विधुदुल्काग्निपातान् , अमरपुरुषजन्यान् विड्वरौघान् निवार्य । कुशलमिह करोति प्रेयसां भूस्पृशां च, स जिनकुशलसूरिः सूरिमुख्योऽस्तु सिद्ध्यै ॥ ११॥
पजाप्यते साधवो मेरवो वा. स्वर्णाभासा वर्णतः स्थानवश्च।
सेव्या भव्यैर्निर्झरैः पूरुषैश्च, जाग्रत्कीर्त्या स्फूर्तिमन्तो जयन्ति ॥ १२॥ + स्वस्तिश्रियालंकृतमीशमग्र्यं सर्वज्ञमानन्दमयं जिनेशम् ।
श्रीमारुदेवं नतदेवदेवं मीहाप्तये प्राप्तसुखं च नौमि ॥' इति पाठान्तरम् । 1 चातुष्पर्थ = चौक। 2'श्रीजैनादिमदत्तसूरिरनघो धत्तां नृणां संपदम् ।' इति पाठान्तरम् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org