________________
15
10
45
20
25
१०८
विज्ञप्तिलेखसंग्रह
दिक्संख्यांस्तान् वैभवाद् दिक्पतींश्च कर्मेभानां सूदने सिंहसिंहान् । हित्वा हित्वा वैमतं मानसे च, लेखं चेमं वार्षिकं प्रोलिखामि ॥ १३ ॥
[ अथ देशवर्णनम् - ]
आधारोऽग्रयो ग्राहजीवादिकानां नानारत्नोयोतिरत्नाकरोऽस्ति । भाण्डाखण्डाडम्बरैर्मण्डितोऽब्धिर्यस्मिन् देशे चारुदेशे सुवेशे ॥ १४ ॥ चलत्तरङ्गायतवल्गुपाणिभिर्दिशन् महीजाय च यत्र वारिधिः । वरेण्यपण्यैर्भृतपोतपेटकं, विभाति मन्ये करदो निरन्तरम् ॥ १५ ॥ जगत्सुखास्था बहुसस्यसंपदः, अकाल संपक्त्रिमदत्रिमर्द्धयः । अकृष्टपच्याः खलु यत्र नीवृति, सदैव रोहन्तितरां रुहा इव ॥ १६ ॥ विमलविमल भूधः पापतापापहारी, गिरिरिह गिरिनारः सिद्धिसौख्यौघकारी । अजितभगवदाप्तेर्वित्ततारंगकं च, जनपद इह यस्मिन् पावनी च त्रयीयम् ॥ १७ ॥ पुरं सेन्दिरं बिंदरं सूरताख्यं, श्रियाः स्तंभतीर्थं तथा स्तंभतीर्थम् । लसत् संमदाऽहम्मदावादसंज्ञं, पुरस्य त्रयीव त्रयी यत्र वित्ता ॥ १८ ॥ [ अथ यत्र पूज्याः स्थितास्तत्पुरवर्णनम् - ]
पुरोप त्रये नायको नायको यः, शुभं यत्र बाभाति मुक्ताकलापे ।
सदास्यानुभावाद् भवेन्नायको ना, समृद्ध्या सुवृद्ध्या च कीर्त्या सुकान्त्या ॥ १९ ॥ प्रासादानां शितिमणिमयाः सगवाक्षाश्च यत्र, चन्द्रास्याभी रुचिररुचिभिः सेव्यमाना नरीभिः । बोभूयन्ते हिमकरसुखाश्चन्द्रवन्तो दिवापि, तद्गुण्यानां भवति नियतं तद्गुणः संगमाद्धि ॥ २० ॥ सभ्येभ्यानां भृशतरलसच्छर्म्म हर्म्याणि यत्र, चन्द्रज्योतिर्निचयधवलं व्याप्य खं संस्थितानि । आजिष्णूनि प्रचलविलुलच्चन्द्रशालायुतानि, प्रांशुत्वेन विदिह विवदन्ते मिथस्तानि तेन ॥ २१ ॥ श्रियः कन्दरा सुन्दरा सुन्दरी च, सुदत्यच्छरूपा पिकालापरूपा । स्फुरद्भारतीकाऽकठोरप्रतीका, वरीवृत्यते निर्जरीवान्वगारम् ॥ २२ ॥ सकमलं कमलं मलहानिकृत्, सकमला कमलायतलोचना । निजगृहे जगृहे शुचितां जनस्त्रयमिदं पुरि यत्र च वर्तते ॥ २३ ॥ अविरलः सरलो विरलः पुनः, कलिकुठः प्रियको वरुणो जनः । शुचिरशोक उतास्ति पुरे वने, सुरतरुप्रतिमो जन इष्टदे ॥ २४ ॥ सयौवनं यौवनं भाति यत्र, सदानं सदानन्दितखान्तवृत्ति । कणहंसकं हंसकण्ठेष्टशब्द, रसाभाससाभासनं यस्य नित्यम् ॥ २५ ॥ [ अथ तत्र वर्त्तमानानां पूज्यानां वर्णनम् - ]
अधिवसति तमुच्चैर्द्रङ्गमुद्यत्सरङ्गमविरलमिलदाभा निर्जितस्वर्गलोकम् । गणपतिरिव कुर्वन् गौतमर्षिर्विहारं, खपरबहुलशास्त्रोदन्वतः पारदृश्वा ॥ २६ ॥ जनश्रुतिर्या भवदीप्सिता पुरा, श्रुता श्रुतिः सेवपदं यथा स्थिता । तूर्णं त्वयि प्रापुषि हि प्रभूणां, लोकोक्तिरेषा न मृषा कदाचित् ॥ २७ ॥ गुणाः समे सात्त्विकराजसादयो, बभूवुरुवतल के वरा गुरौ । भवन्ति गुण्ये त्वयि ते गुणास्तथा, निदानयोग्यं भुवि कार्यमस्ति हि ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org