________________
विजयवर्द्धनगणिप्रेषित विज्ञप्तिपत्र
१०९ गुणगुरुगुरुराजप्रत्नपट्टोदयाद्रौ, शिशुतरणिरिवोद्यत् पूर्वपुण्याधिकेन । भविककमलखण्डं बोधयन् दृष्टिदीप्त्या, भुवि जिनसुखसूरिः शोभते भाग्यशाली ॥ २९ ॥ विपुलतरयशोवर्धिष्णुभूष्णुप्रतापः, कुमतितिमिरभेदी सूक्ष्मतत्त्वार्थवेदी । शुचितरवरपादैः पावितेलातलाश्च, मुनिजनततिमान्यः स्विष्टदाने वदान्यः ॥ ३०॥ (-युग्मम् ।)
अध्यूषुषस्तव पदं विपदन्तकारि, राजन् पुरैव सुगुरोः प्रससार शिष्टिः । सद्बुद्धबोधनकरी ह्युदयाद्रिमेव, दीप्तिर्यथा प्रसरति घुपतेः श्रितस्य ॥ ३१ ॥
मुनिता गुरुता विराजिता, वदने वाक्पटुता-सुमिष्टते।
हृदयोक्तिशरीरशुद्धयो, व्यतिभाते भवतां परस्परम् ॥ ३२॥ इवैकशेषः सदृशां विशेषकैर्गुणैरनूनैर्वृहतश्च पूर्वजान् ।
बतातिशेषे त्वमहो विशेषवित्, सुदक्षिणानाहतलक्षणान् धनान् ॥ ३३ ॥ पठिता सद्विद्यानां सन्निधिरिव सन्निधौ मुनीशानाम् । श्रीधर्मवर्द्धनगणिः सत्कविरिव भासते स्वभासा च ॥३४॥ मर्यादाया अविता सन्नेमिरिव प्रवर्तते नित्यम् । श्रीनेमिसुन्दर इति ख्यातोऽभिख्यासमुल्लासात् ॥ ३५॥
सत्पाठकादिमुनयो नयशालिनश्च, पूज्यस्य पार्श्वपरिशीलनलब्धसौख्याः।
सामीपिका इव शठेतरमाठराद्याः, सूर्यस्य सन्ति सुगुणप्रगुणा नितान्तम् ॥ ३६ ॥ तान् पूज्यान् सुरपूज्यमक्षुलधियो धीरान् धराराजितान् , जाग्रद्भाग्यसहस्रभानुभृशभाशुष्कारिपङ्कोत्करान् । ॥ सद्बुद्ध्यध्यवसायबोधितलसद्व्यास्तिकायादिकान् , नत्वाऽरं वरपाठकादिकमुनीन् नम्यानुनम्यांस्तथा ॥३७॥
[अथ साहिर्यत्र वसति तद्-अर्गलापुरवर्णनम् -].
द्विषामर्गलेवार्गलापूः सुदुर्गा, प्रवेशार्थमैन्त्र्या दिशो द्वारिवोच्चैः ।। सुगुाः शुभोळ उरस्सूत्रिकेव, सवार्त वरीवर्ति भर्तृप्रतापात् ॥ ३८॥ पुराऽकबरोऽवासयत् पादसाहिस्ततः स्वामिनाम्ना प्रससर्ति रूढम् । धरायां धरासारशृङ्गारभूतं, वराकबराबादसंज्ञं बहुज्ञम् ॥ ३९ ॥
यत्पुरं धरणिमण्डनायितं, पुण्यपद्मशुभसद्मसुन्दरम् । सद्रसोदकझरौघयौवतं, द्यामपि प्रहसतीन्द्रभर्तृकाम् ॥ ४० ॥ यस्य दुर्गमरिदुर्ग्रहग्रहं, खातिकावलयितं समन्ततः । संकटादृघटनाविचेष्टितं, संहिताश्मदृढसन्धिभूषितम् ॥४१॥ शस्त्रकोशधनधान्यसंचयं, हैमधामबहुधामदन्तुरम् ।
दुर्गपंक्तिमुकुटायितं परं, संचकास्ति यवनोच्चयै तम् ॥ ४२ ॥-युग्मम् । यद_लिहाः सङ्ग्रहाः सूपदेहा, विशालामलाश्चन्द्रशालायुताश्च ।।
शुचो मोचनाः काञ्चनाश्चञ्चदाशाः, सदा पादसाहेनरेन्द्रस्य सन्ति ॥४३॥ यत्पार्धे यमुनासनातिविमला देदीप्यतेऽहर्दिवं, सर्वेषां सुखकारि निर्मलतरं यज्जीवनं जीवनम् । या वेणीव भुवो नवायततता विश्वंभराया वरा, या मुक्तालतिकेव कृष्णगुणभासंमिश्रिता चोज्वला ॥४४॥ पुन्नागाद्याः सफलफलदाः शाखिनोऽखण्डभासः, पम्फुल्यन्ते सुरभितदिशः पुष्पदाश्चानुवेलम् । यच्छ्रित्वा वै सुरतरुसमाः श्रीफलोदारसाराः, दीव्यच्छायाः सरलबहुलाः कानने पत्तने वा ॥४५॥
Jain Education Intemational
Jain Education Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org