________________
विज्ञप्तिलेखसंग्रह
क्वचिच्चापणे पण्यते पुण्यपण्यं, क्वचिचास्तिकैः पण्यते साधु पुण्यम् । कचित् पूज्यतेऽर्हन् सभावं खशक्त्या, क्वचिद् भण्यते जैनमार्गः सदुक्त्या ॥ ४६॥ क्वचिद् वैष्णवैः सेव्यते विश्वनाथः, क्वचिद् गीयते सजनैर्गीतगाथः । क्वचिच्चालयो मन्यते चारुभार्गः, कचित् संकटो मानवै राजमार्गः ॥४७॥ क्वचिद् वाजिभिस्ताड्यते विट्सु लत्ता, क्वचिद्दन्तिनो बंभ्रमन्त्युच्चमत्ताः । क्वचित् सादिभिर्विध्यते धत्तधत्ता, कचिद्धस्तिकेष्वंकुशालिश्च दत्ता ॥४८॥ हरेः पादसाहेः सवासे प्रवासे, समं वाहिनीभिः ककुब्वाहिनीभिः ।
नरैः श्रीवरैः शश्वदप्राप्तमध्यः, समुद्रः समुद्रो यथा यः समास्ते ॥ ४९ ॥ [विज्ञप्तिपत्रप्रेषकगणिकृतं स्वकीयशिष्यादिनामनिदर्शनम् -] " तस्माद् द्रंगाद् वाचकविजयादिमवर्द्धनो गणिर्युमणिः । युष्मद्भक्त्यासक्तः शुभधिषणाधोरणीचुचुः ॥ ५० ॥ विज्ञ-ज्ञानात्तिलको विनेयलाभादिसुन्दरगणिश्च । महिमासुन्दरगणिको रंगान्मूर्तिश्चतुर्थश्च ॥५१॥ ज्ञानादिमविजयश्च ह्येतत्संख्याकपरिकरान्वितः । सद्यो वेदयति वचो मार्तण्डप्रमितवन्दनकैः ॥५२॥ [पत्रप्रेषकगणेवसिस्थानवर्णनम् -]
अद्भक्तिव्यक्तवामाकटाक्षक्षीरक्षेपात् क्षेमवृक्षः समक्षम् । वर्वर्ड्सव स्पर्द्धयाऽवर्द्धिमांश्च, वर्वद्वेवं तत्र सत्रा समृद्ध्या ॥ ५३॥ शिष्टानां सच्छिष्टयुपष्टम्भतोऽहं, दुर्गे मार्गे गच्छदागाः समागाम् । सांगानेरान्नश्यतः पश्यतां च, नृणां भीतिं यावनीं चापनीय ॥ ५४॥ अत्रागतः कतिथसंघचयं समूह्य, शालास्थितांश्च पुर एव जनानपास्य । पौषाद्यपंचमदिने सुदिने परुत्के, वर्षेऽध्यवात्समतिहर्षभरं च शालाम् ॥ ५५ ॥ श्रद्धालवोऽत्र नगरे बहुशो वसन्ति, श्रद्धा लवा विषमकालजसंनियोगात् । आध्यात्मिकाः कतिपया हरिगाश्च केचित् , केचिच्च ढुंढमतगाः शठमूढचित्ताः ॥ ५६ ॥ भङ्गातरङ्गविकलाः कतिथा रतीहा, एतादृशा अपि मया सह वासयोगात् । ईषच्छुभाशयवशाः कथमप्यभूवन् , यत्नोच्छ्रितं दकमपि ह्यध एव याति ॥५७॥ एकाब्द ईदृशदिशा प्रसमाप्यते स्म, निर्देशतोऽत्र वसतो मम गृह्यकस्य । आज्ञास्थितः समयवित् प्रथितप्रतिज्ञ, आसेतरामहमिहैव च ऐषमेऽब्दे ॥ ५८ ॥ व्याख्यात्युपासकदशाः पुर आस्तिकानां, पर्वागतेषु तिथिषु प्रग आगतानाम् । शिष्यांश्च शिक्षयति पाठयति क्रियासु, व्यापारयत्यपि धुरं गलिधार्मिकेषु ॥ ५९॥ वरेषु कृत्येषु च हेतुकर्तृतां, तथाऽपरेष्वर्थधरेषु सद्वचः । उपेयति भ्रष्टजनांश्च भूरिशो, निवारयत्युन्नतबुद्धिशुद्धिना ॥ ६ ॥ पर्वाधिराजपर्युषणावर्णना-] इत्थंकारं तिष्ठति प्रीतितत्या, ह्यत्रोद्गच्छत्पूज्यपादप्रसत्तेः । अस्मिन् दिष्टे धर्मपर्वाधिराजो, रागादागाद् भूरिमेघागमश्च ॥ ६१ ॥ तस्मिन्निते परहिते द्वितयेऽपि नूनमत्युत्सुकाः पुनरसंकसुकास्तदिष्टेः । संपिप्रियुः प्रियतमेक्षणहृष्टचित्ता, भव्याशया भविजनाश्च कृषीवलाश्च ॥ ६२ ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org