________________
विजयवर्द्धनगणिप्रेषित विज्ञप्तिपत्र तस्मिन् द्वयेऽभ्युपगतेऽधिकदानशौण्डा, ऊपुस्तरां विपुलवित्तमनेकमेके। अन्ये च धान्यनिचयं सुखसप्तसंख्ये, क्षेत्रे पवित्रविपुलोप्तिशुभे द्विहल्ये ॥ ६३ ॥ प्रानतिपुर्निन्युषि हंत तस्मिन् , श्राद्धा मयूरा उरभाकलापाः । गीतैः स्वनैः श्रोत्रसुखाभिरामैः, धर्मध्वनदुन्दुभिवादनोन्मुखाः ॥ ६४ ॥ एतद् द्वयं जैनमतं नभश्च, जीवातुरूपं जगतः समस्य । समस्करोद् दानदकस्य धारया, भुवस्तलं वर्षदवर्षवर्जितम् ॥ ६५॥ प्रचण्डहण्डाद्यवसर्पणी च, करालसपीव विसर्पति खयम् । तद्वर्तनामूछितपूरुषावली, रसप्रमाणारफणा विराजति ॥ ६६ ॥ तत्संपर्कादर्कतौरुष्कयोगात्, कार्पण्याब्धेरन्यनैपुण्यपण्यात् ।
दानादीनां छित्तिरत्रास्ति लोके, तत्राप्यत्राधिक्यतो दानहानिः ॥ ६७॥ जातेऽप्येवं गणरतिरसात् संघसिंहः स्वधानि, ह्यस्मत्पान्नियतपतितं पुस्तरत्नं प्रशस्तम् । जाग्राढि स्म प्रवरललना रात्रितो जागरां च, कुर्वन्ति स्मागुरुमलयजोद्भूतधूम सुरूपम् ॥ ६८ ॥
उदीते पतङ्गे स्फुरदीप्तिचङ्गे, पुरे वाद्यमानेषु वायेषु सत्सु । तथा गीयमानेषु गीतेषु गाद, भृशं चार्थिषु प्राथ्यमानेषु वित्तम् ॥ ६९॥ महाडम्बरं चाम्बरापातिशब्द, सुसंघेन संघेन भासां व्यसर्जि। लसत्पुस्तकं न्यस्तशोभं प्रशस्तं, तथाऽऽनीय चास्मत् करे स्मेरवक्त्रम् ॥ ७० ॥-युग्मम् । सदानन्दसख्याभिरस्माभिराशु, मुदा वाचनाभिर्द्धवाचि स्फुटं तत् । जनानां समक्षं स्फुरच्छुद्धकक्षं, सुमेर्वा दिसाम्यस्य संघस्य शिष्टेः ॥ ७१ ॥ क्षरद्दानिनो मानिनो मत्तनागाः, पुरे सत्करा वारणाः संगराणाम् । इतीवात्र हेतोर्निषिद्धार्थदाना, जना आस्तिका व्यस्तचित्ता वसन्ति ॥ ७२ ॥ आकस्मिकोल्लासजभावभासातू, डागाख्यवंशे रिषभाख्यनामा । साधर्मिकौकःसु सुमोदको द्वौ, प्रादात्तमां सारमुपोषितेभ्यः ॥ ७३ ॥ प्राशीलि शीलं बहुभिः सुशीलैः, प्रातापि शुद्धं तप एव कैश्चित् । अभावि कैश्चित् सुगमा च भावना, धनं विनेदं त्रयमर्थकारि हि ॥ ७४ ॥ सर्वपर्वसु परा_पर्वणः, सेवनं सुखदवस्तु साधनम् । ज्ञेयमित्थमपि नो व आशु तत्, ज्ञापनीयमखिलं ह्यनाविलम् ॥ ७५॥ उगाढमाषाढकमा च भाद्रादस्मिंश्च वर्षे प्रववर्ष मेघः । ऊनं च पूर्ण सममेव तूर्णं, प्रापूरयन् पूरसुतुदिलापे(१) ॥ ७६ ॥ वृष्टे च तस्मिन् प्रलयादिवाते, झंझाझरन्निर्झरवारिघोरे । परःसहस्राश्च गृहा अजस्रं, नरस्वराकीर्णमहो अपप्तन् ॥ ७७ ॥ द्विभूममुख्येषु गृहेषु तेषु, पतत्विवापत्पतितेषु बाढम् । उच्चेषु नीचाऽपि विशालशाला, ध्वस्ता समस्ता च विहस्तसाधु ॥ ७८॥
धर्मानुभावादिव मन्दभावं, किंचिद्गतेऽने त्वनदभ्रहर्षम् । + इतोऽग्रेतनानि पद्यानि प्रथमादर्श नोपलब्धानि । पश्चादेतानि विरचितानि संभाव्यन्ते । प्रतिलिपिकतुष्टिदोषादज्ञानाद्वा अग्रेतनपयेषु बहवः पाठदोषा दृश्यन्ते । ते च मूलादर्शाभावात् तादृशा एवान मुद्राङ्कणं प्रापिताः सन्ति ।
Jain Education Intemational
For Private & Personal Use Only
cation International
www.jainelibrary.org
For Private & Personal Use Only