________________
5
10
15
20
25
30
30
११२
Jain Education International
विज्ञप्तिलेखसंग्रह
तस्मिन् स्वधाम्येव पुनर्व्यधाम, पर्वाधिराजं समजत् समाजम् ॥ ७९ ॥ गलीनिव स्पष्टवलीन् प्रणुद्य, समाऽसमाञ् श्राद्धजनान् समांश्च । विधाप्यते टिप्पनिका स्म शीघ्रं, मया स्थलार्थं शतरूपकाणाम् ॥ ८० ॥ मुंजेषीकतूलमिव तनुकुड्यमभूत् पुरा । एतहींड्य (?) तदेवोरुप क्वेष्टकचितं वचः ॥ ८१ ॥
संप्रधार्य्यं मम श्राद्धैरुत्पलमालभारिभिः । कार्यते ही सदार्येषु, फलदा च प्रवर्त्तना ॥ ८२ ॥ - युग्मम् ।
माधवे माधवे पर्णयुग्मं पुरा हं सदा वः सदावर्जितेभ्यो मुदा । प्रादिषि प्रावृषि प्रोत्सुको मोरको, ज्ञायते तद्भवद्धस्तसान्न स्थितम् ॥ ८३ ॥ युष्मदीयं छदं छद्मना वर्जितम्, प्राजगामाद्भुतं भूयसा नेहसा । पट्टणोदन्तकज्ञापितं नोन्तिके, तीर्थयात्राप्रभृत्युत्पतत्प्रीतिकम् ॥ ८४ ॥ तत्पुरं संप्रति प्रक्रमाभावतो, दूरदेशाध्वतः साध्वसोद्भानतः । मानसाभासनाच्चात एतुं वयमर्यमाधिष्ठितामक्षमास्तां दिशम् ॥ ८५ ॥ अभिषिषेणयिषुर्नृपतित्रयी, यवननाथमभिप्रतिजग्मुषी । तुरगि (ग) लक्ष्ययुता पृथुनर्मदानिकटरोधसि योद्धुमभीच्छति ॥ ८६ ॥ अवितथा वितथा अथ काश्चन, ननु जनश्रुतयः श्रुतिसौख्यदाः । नियतिनिघ्नगता बत वर्त्तना, जिनपबोधवशा यत आयतौ ॥ ८७ ॥ उपपुरं सरसोऽत्र बृहद्वनात्, प्रतिदिनं खलु याति च पूरुषान् । प्रतिनियंत्र्य सुतर्जन सर्जनं, विटजपाटघटा झटिति च्छलात् ॥ ८८ ॥ प्रजयिराजकतर्जनसंजनाद्, भयमदोऽध्वनि नृस्तु निषेधति । भ्रमदिवेत इतो बत तद्भयाच्चिचलिषा न च वीकपुरं प्रति ॥ ८९ ॥ स्वकीयवस्तूच्चयरक्षणाय, पुरस्य चास्यैव निदेशवेशः । कार्यः सुतर्केरिततर्कुकाणां, याच्या मोघा प्रभुषु प्रथिना ॥ ९० ॥ युष्मदीयमपि पर्णयुग्मकमागतं परुदखेदमन्दके ।
लिङ्गिनीं भवदुदन्तलंघिनीं, लेखितं प्रतिवचो मुधैव तत् ॥ ९१ ॥ नायकस्य वचनं प्रमादिषु, चञ्चलेषु च विलुठ्यते हठात् ।
तत्तु वित्तसुमुखान् शिलीमुखान्, भ्रष्टलक्ष्यत इवाश्ववाङ्मुखान् ॥ ९२ ॥
सर्वस्य द्वे सुमति-कुमती वः सती बुद्धिरेव, वृद्धो यूनाप्युरुगुणघृतासन् गणो भूषितोऽलम् । एको गोत्रे यतिप सदयो गच्छभारं बिभर्षि, स्त्रीपुंवच्च प्रसरतिगणे लिङ्गिनी तद्विचित्रम् ॥ ९३ ॥ या साधूनां वितरणचये ह्यर्गलेवाग्रगैव, या टाटीति प्रतिकुटमटद् घट्टनाटा शुनीव ।
या स्वच्छन्दं बहु च रमते मोहनावेशयोगा, जैनाभासा वसति नगरे पण्यरामेव वामा ॥ ९४ ॥ पूज्येन्द्राय प्रथितमतये संघसंघाय साक्षात्, गुर्वी वाचा लघुनि वदने याऽब्रवीच्च द्विजिह्वा । काऽप्यस्माकं भवति च कथा यत्र ही वायुनेभा, उड्डीयन्ते भवति गणना तत्र का दंशकेषु ॥ ९५ ॥ कस्या व्रतिन्या अपि नैव देया, शिष्टिर्हि शिष्टैरिति लिख्यते स्म । संघेन युष्मद्वचनस्थितेन पूज्यैर्विधेयं वचनं तदेव ॥ ९६॥ विज्ञेषु विज्ञप्तिरियं मदीया श्रोत्रातिथीभूय करोतु वासम् । आर्या यतः सेवकलक्षणेहा अचित्यकस्यैव (?) मदौचितीयं ॥ ९७ ॥
For Private & Personal Use Only
www.jainelibrary.org