________________
[ अथ च पर्जन्यवच्छास्त्रस्य प्रवृत्तिरित्याश्रित्योच्यते - ]
विजयवर्द्धन गणिप्रेषित विज्ञप्तिपत्र
वि०म० ले० १५
ऊनं च पूर्णं सममेव तूर्णं पर्जन्यवदवर्षसि चेत् पदादि । तदा च पर्यन्यवदित्यतुच्छ न्यायस्य वेत्ता खलु शब्दशास्त्रे ॥ ९८ ॥ सति गुणे गुणतागणना नहि गुणवतः स्फुटहानिरिहेक्ष्यते । गुणपरीक्षणमप्यथ नो सतां क्षतिरिति द्वितयस्य वितन्यते ॥ ९९ ॥ गणेशा गणेशा इव प्रस्फुरन्तु प्रविघ्नच्छिदो निघ्नयोगादविघ्नम् । मनोऽभीष्टदा मन्मनोमोदकानां भवन्तु प्रभावाधिकाः पूरकाश्च ॥ १०० ॥ अललाटिका घाटिका पण्डितानां निराकारवश्चारवोऽभीरवश्च । धियो गर्द्धना धर्मतो वर्द्धनाद्या विभान्तूपकण्ठे सतां पाठका हि ॥ १०१ ॥ भवत्पूर्वजैर्गन्धहस्तित्वमुक्तं तदेव क्रमादागतं पूर्वजेषु ।
सदा भावयन्तोऽधुनाविः सभावं भवत्संनिधिप्राप्तशोभाविशेषात् ॥ १०२ ॥ युग्मम् ॥ पाठकाः सकलशास्त्रपाठकाः शब्दशास्त्रमुरुमध्यजीगपन् । ज्ञानतस्तिलकनामकं यकं पाणिनीयमतदर्पणार्पणम् ॥ १०३ ॥ नंनमीति सहितो विनेयकैः शेमुषीमुखरितः सको यतिः । वैभवेन जितभूरिनायकांस्तान् गुरून् गरिमभारभासुरान् ॥ १०४ ॥ साधवः सविधवर्त्तिनः परे श्रीजितां सुभगभाग्यशालिनाम् । तान् समानति··· रोजनाङ्गकान् वन्दते शुभहृदा दिने दिने ॥ १०५ ॥ समस्तास्तिकाः श्रीमतां दर्शनोत्का, ददत्पुण्यवाहं भवत्पादजाहम् । . मनो- वाक्- शरीरप्रशुद्ध्या सुबुद्ध्या घनानन्तम (?) हायभावानुरागाः ॥ १०६ ॥ पवित्रलेखपत्रकं मदीयमाप्तमाशु तत् । हितेन लेख्यपा (मा) वहो अगाध बोधधीधनैः ॥ १०७ ॥ यदत्र लेखदूषणं त वेक्षतृमां तदादितः । विद्वे भामा श्रसश्यतो यथाहि करकरः खरम् (१) ॥ १०८ ॥
॥ इति श्रेयः ॥
Jain Education Intemational
११३
For Private & Personal Use Only
13
20
www.jainelibrary.org