________________
खर० श्रीजिनचन्द्रसूरि प्रति वाचक-राजविजयगणिप्रेषिता
[५] विज्ञप्ति का।
॥ श्री॥ अल्प.. ....................... परमेष्ठिनःस्तूयते ॥१॥ करेइ भत्ताण सया जणाणं, ............नियर सुहाणं । पकिट्ठमाहप्पविलासजुत्तं, नमामि............रिंदपुत्तं ॥२॥ दयानिवासा सुगुणप्पयासा, सुनिम्मला......... संतिनाहा । दिसंतु सिग्धं य समीहिअत्यं, सुदिहि संघस्सुवरि प्पसत्थं ॥३॥ मणुनरूवं सययाणुकूलं, सुलोयणं राइमइं विहाय । गहीअपबज्जवओ सुहाई, करेउ सो नेमितिलोयनाहो ॥४॥ समत्थलोयाण नियप्पभावं. महंतमिह विसमे वि काले। सुहस्स दसेइ गुरुणमित्थ, गुवेउ यो सो सिरिपाससामी ॥५॥ विसिट्ठसोहं जियमोहजोहं, पणट्ठकोहं सुविसुद्धबोहं ।
नुवामि वीर अइमित्तधीरं, जिणंदवीरं भवपत्ततीरं ॥६॥ कल्पद्रुभूताय सदैव कल्पते, यस्याभिधानं प्रतिकल्पमुत्सृतम् । गच्छे स रत्नं जिनचन्द्रसद्गुरोः, श्रीगौतमः स्यात् स जयप्रवृद्धये ॥७॥ नो दुईशायाः स्वपनेऽपि दर्शनं, यस्य स्मृतेः स्यात् स्मरणं प्रकुर्वताम् । नृणां सकः श्रीजिनदत्तसंज्ञितः, श्रीजैनचन्द्रस्य तनोतु संपदः ॥८॥
श्रीगुरुः सुजिनकुशलः सेवकांगिविहितसुखः। अस्तु वः सपदि वरदः प्रस्फुरद्भुवनमहिमः ॥९॥ -हलमुखीवृत्तम् ।
[अथ सत्समाजश्रीमत्खरतरगच्छाधिराजांहिसरोजपवित्रितस्य नगरस्य वर्णनप्रक्रमो यथा -] यत्रोत्तुङ्गधनाढ्यमन्दिरसुधाबद्धाङ्गणपोच्छलत्तेजोभिः सहसा तमिस्रनिवहे दूरीकृते सर्वतः । आक्रीडे कुमुदारविन्दकुसुमव्याकोशसंमीलनैर्यामिन्या दिवसस्य मानवकुलैश्चक्रीय्यते निर्णयः ॥१०॥ श्राद्धस्तोमविधीयमानविलसद्धपोत्थधमत्रजव्याजेनाम्बुधरः प्रभातसमयव्याख्याक्षणेष्वादरात् । तद्ध्वानस्य शिशिक्षयेव सुगुरुं संसेवते प्रत्यहं, यस्मिंस्तीर्थकराभिरामसदनेष्वास्थानरोचिष्णुषु ॥११॥ भर्ताऽयं नु वृषाकपिर्मम पितू रत्नाकरस्याश्रयं, लोभानोज्झति तातसमनि सदा पुच्या परं प्रौढया। स्थेयं नेति च नीतितोत्र वसनं निर्गत्य युक्तं ततो, लक्ष्मीर्यत्र विधाय चोरुमनुषीरूपाणि वावस्यते ॥ १२ ॥ श्रीमच्छ्रीजिनचन्द्रसूरिसुगुरोः संविग्नचूडामणेर्यत्रांहीद्वितयाम्बुजाभिनमनात् प्रोद्भूतपुण्याम्बुधेः । अव्यावर्ति समृद्धिवृद्धिसुमनःपौरस्य ते तारका, राजन्तेऽनुपथि त्रिविष्टपसदां डिण्डीरपिण्डा इव ॥ १३॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org