________________
5
राजविजयगणिप्रेषिता विज्ञप्तिका प्रेसद्वीचिकशासदातिकदनैरातन्यमानां व्यथां, वारीशेन श्रियः परिग्रहविधे रत्नानि बुद्धा स्फुटम् । आयातानि सुखाय जीवननिधिदीच्छ्यापणाशंकया, सूरात् सागरकच्छलेन समुपैद् यत्रानुनेत्रं सुखे ॥१४॥ कुष्टं हट्टवसुंधरासु जडता कासारकेषु स्फुटा, सन्तापः कनकादिधातुषु महान् नाडिन्धमानां गृहे । चक्रेषु भ्रमसन्ततिः कररुहे च्छेदक्रिया पीडितं, कान्तानां कुचयोस्तु यत्र न कदा लोकेषु संभाव्यते ॥ १५ ॥ अन्येशुष्कमुखा ज्वरा बहुविधाः प्राचीनवैद्यागमे, विद्यन्ते च पुराणशास्त्रविषये सप्तेतयो निष्ठुराः । संज्ञामात्रत एव कोशसमये रोगाश्च यक्ष्मादिका, एते यत्र परं न सन्ति मनुजे श्रीमद्गुरोरागमात् ॥ १६ ॥ भक्त्या युक्तविविक्तकृत्लजनताशश्वत्कृताभ्यर्चनात् , संतुष्टः कमलामलैकरमणौ यत्सर्वपौराधिपम् । चञ्चत्का वसुधाञ्चितक्षितिभुजो को वर्णयुग् दुर्गको यन्मुद्राखचिताग्रशासनदलव्याजाव्यधत्त क्षणात् ॥१७॥ एतादृक् पुरमेव भूमिवलये ग्रामोऽपि नास्तीह च, लोका यस्य वसन्ति यत्र न सदा नानाकलापारगाः । देशास्तेऽपि न सन्ति यच्च बहुलं येषूद्भवं वस्तु नो, यत्रास्ते क इतस्ततो वसति यच्छ्रीजैनचन्द्रः खयम् ॥१८॥" खर्गिस्त्रीवररूपमानपिशुनप्रौढाव्यवामभ्रुवां, गात्रस्थाद्भुतचन्दनद्रवभरामोदादराकर्षणात् । यत्रोत्तुङ्गगवाक्षदीर्घवसनैर्वातोऽपि संताड्यते, चौर्य मानुषकर्तृकं कुत इतो नूनं भवेत् कर्हिचित् ॥ १९ ॥ श्रीमन्नाभिनरेन्द्रसूनुरुचिरप्रासादशृङ्गस्थिताचाक्षुष्याद् विमलाद् विशालकलशादादाय जाग्रच्छवैः । आकण्ठं तु तदा तदा कलकलायुक्तो भवेच्छीतरुक्, पीयूषानि यदा यदा हि पिबति स्वादूनि यत्रोच्चकैः॥२०॥ यस्मिंलुब्धमनाः सुपर्वनिकरो हर्षात् स्वकीयां स्थिति, सम्राश्रीअवरंगसाहकृततत्स्थानच्युतिच्छद्मना। 5 अन्तर्वेदिवसुन्धरास्थितवरप्रासादवासी ध्रुवं, पुण्यान्यर्जयितुं मनीषितकरे हेमाद्रितीर्थे गतः ॥ २१॥ तारामण्डलसर्वगर्वहरणस्थास्तूरुकीर्त्तिक्रमहालीशिखरानकोटिमहसा भिन्ना वियन्निम्नगा। यत्रानेककवर्णचित्रितलसद्वामध्वजानां छलादुद्दण्डैः शतशः प्रवाहनिवहै रुद्धव संशोभते ॥ २२ ॥ खखाचारविचारसारविहितोद्योगप्रपञ्चाः सदा, चत्वारः खलु यत्र सुन्दरगुणा वर्णा द्विजन्मादिकाः। श्रीमच्छ्रीजिनचन्द्रसूरिसुगुरोर्वक्त्रस्य पत्पद्मयोवक्षिाभिर्नमनैश्च जन्म सफलीकुर्वन्ति मानुष्यकम् ॥ २३॥ ॥ यत्र श्रीजिनचन्द्रसूरिगुणभृञ्चार्वागमेन क्षणाद्धान्येलातलपूर्तिकृत् सलिलमुक् कृत्वा गरिष्ठां घटाम् । प्रावर्षत् सततात्युदारमनसः श्राद्धाः विशुद्धान्वया, वृष्टिं वार्षिकपुष्कलां हतविधेस्तत्स्पर्द्धयेव व्यधुः ॥२४॥ क्वापि श्रीजिनचन्द्रसूरिसुगुरोः श्लाघां नरः कुर्वते, केचिद् यत्र चतुष्पथे च सुपरीक्षन्ते वसूनि क्वचित् । सज्जन्ते प्रतिवन्दनाय भगवद्विम्बं क्वचिच्छ्राविका, विद्वांसोऽभिवितन्वतेऽतिकठिना युक्तीः क्वचित्तार्किकीः ॥२५॥ यत्र श्रीमदनूपसिंहवसुधानाथस्य नष्टद्विषो, वात्यावेगसमीकृतखकजवास्तुङ्गा अनेके हयाः । नीचैः पातयितुं द्रुतं च नभसो वाहान् ग्रहाणां पतेरभ्यासं सुखलूरिकासु सततं कुर्वन्ति तीक्ष्णैः खुरैः ॥ २६ ॥ यत्र श्रीमदनूपसिंहमनुजेशास्थासमीपाङ्गणे, हेलोत्पाटितशत्रुवर्गनगरद्वारारराणां पटुः ।। तिष्ठन्ती करिणां घटाऽतिशयतो बिम्राजते बन्धुरे, पीताम्भाः सरितां पतेः प्रियतटे जीमूतमालेव सा ॥ २७ ॥ यत्र श्रीमदनूपसिंहनृपतेः स्फूर्जप्रतापोर्मिभिस्तप्तः साधुजनावनैरपि बहु स्पर्द्धानुबन्धोगमात् । उष्माणं च विनेतुमुद्धतमिमं तजं निजं प्रत्यहं, संधत्ते प्रतिबिम्बमुष्णकिरणः कासारवार्ध्वात्मनः ॥ २८॥ " दृष्ट्वाऽन्तःकरणप्रमोदकरणी शोभामनान्यत्रिकी, प्रारभ्यावसनक्षणादपि सुरा आत्यन्तिकी सर्वदा । पश्यन्तस्त्वनिमेषलोचनतिकां ये यस्य याताः समे, नो अद्यापि परित्यजन्ति किल ते हृद्यं खभावं खकम् ॥२९॥ द्वेष्योजोहृदनूपसिंहजगतीसुत्रामदो पालिते, दौःस्थ्यच्छिन्मरुभूमिमण्डलसराट् पुण्ड्रायमाणे सुखे । दासीभूतसुधाभुजीशनगरे श्रेयोनिवासालये, वीकानेरपुरे सुमङ्गलधरे तस्मिन् महाश्रीमति ॥ ३०॥
[-एकविंशत्या विशेषकम् । इति श्रीवीकानेरवर्णनम् ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org