________________
मेघदूतसमस्यापूर्तिमयविज्ञप्तिलेख
१०५ मातुर्दुःखोदयमपदयं भावयित्वा कुमारो, वीरेत्याख्यामिव नियमयन् भाविनी वर्धमानः । पित्रोः सत्त्वे व्रतपरिचयो नेत्ययं निश्चिकाय, प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ १०४॥ मातापित्रोदिवि परिगमे स खयं प्रात्तदीक्षश्चके वक्रेतरमतिधृतिः सूरिराजा स्खशिष्यः । तस्य ज्ञानं चरणमरुणप्रौढतेजः स्तुमः किं, प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥ १०५॥ पट्टे न्यस्तः स इह गुरुणा बन्दिरे गन्धपुर्या, खैकाद्रीला (१७१०) शरदि समहं राधसम्यग्दशम्याम् । । लोकैस्तत्रानिमिषसमता...... नेत्रे यदेतन् मीनक्षोभाञ्चलकुवलयश्रीतुलामेष्यतीति ॥१०६॥ मत्वा गच्छे वरसरसि नः सोऽयमुद्भूतपोऽ-मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ (-पाठान्तरम् ) सोऽयं स्वामी विजयपदतः श्रीप्रभेत्याह्वयैव, लक्ष्म्या वाण्या जयति निलयो दर्शनादस्य पूर्वम् । वार्ता वक्तुं कृतनरतनोदक्षिणस्ते शुभाय, यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०७॥ एतद्वृत्तं सुरशिखरिणस्तुङ्गशृङ्गेषु सिद्धैर्गीतं पीत्वा परमरसिका खर्जनानां वधूट्यः। रम्भाःस्तम्भाऽऽलयमुपगता भर्तृयोगे भजन्ति, सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०८॥ तेजःपुलैर्दिनकरकरस्पर्द्धिभिर्दुर्निरीक्ष्य, शान्तखान्तं तपनरपतिं प्राप्य नम्रीकृताङ्गः।
अत्रोद्भूतां सुकृतसरसां किंवदन्तीं विदग्धो, वक्तुं धीरस्तनितवचनैर्मानिनी प्रक्रमेथाः ॥ १०९॥ [गच्छाधीशाग्रे विज्ञापनीयोदन्तवर्णनम् -] __प्रादुर्भूते दिनमुखसुखे सौरतेजस्त्रिधाऽपि, विश्वं व्याप्तं कथयति महीनाथ ! नान्दीविशेषः । कामक्रीडानिरतमिथुनान्युत्सृजंस्त्यक्तनिद्रं, मन्दस्निग्धनिभिरबलावेणिमोक्षोत्सुकानि ॥ ११०॥ सभ्यास्थायामिह भगवतीपाठपूर्वोत्तराद्या-ध्यायव्याख्या भवति तदनु श्रीगुरोर्गीतवृत्तैः । गन्धर्वाली सुखयति जनं सोत्सवं श्रोत्रपेयैः, कान्तोदन्तः सुहृदुपहृतः सङ्गमात् किञ्चिदूनः ॥ १११ ॥ शिष्याध्यायोऽव्रतविरमणं तत्र बापूर्दिदेश, कीर्त्यङ्करानिव रजतजद्वादशोद्यद्दशाङ्कान् । वात्सल्यानि प्रवरवसनैर्नामजापोऽर्हदादेः, पूर्वाभाष्यं सुरभविपदां प्राणिनामेतदेव ॥ ११२ ॥ अर्हत्पूजाकुसुमरचनैनन्धमन्दोत्सवश्रीर्दानं पात्रेष्वभयसहितं भावना भावनाट्यम् । पर्वण्येवं नवनवभवैर्वार्षिके कल्पपाठः, पूर्वाभाष्यं सुरभविपदां प्राणिनामेतदेव ॥११३॥ (-पाठान्तरम्) कर्तुं कश्चित् स्पृहयति पुनस्तीर्थयात्रां ससङ्घ, कश्चिद्वोढुं व्रतविधिभरं वोपधानानि काचित् । इत्थं सङ्घो गुरुगुरुलसद्भक्तिरद्यापि धर्मे, सङ्कल्पैस्तैर्विशति विधिनाऽवैरिणाऽरुद्धमार्गः ॥ ११४ ॥ एवं नित्योत्सवपरिचयैराश्रितोऽपि प्रकाम, मेघः शिष्यो गुरुपदयगासेवया विप्रयुक्तः । सर्व बाह्यं मनसि रसिको मन्यमानः सुनेतस्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ११५॥ पूर्णाचन्द्रस्तव मुखविभां भावयत्येष पूर्णा, तेजस्वित्वं स्पृशति तरणिधीरतां मेरुरद्रिः। अम्भोवाहः प्रवहति तथाऽन्योपकारप्रकारं, हन्तैकस्थं क्वचिदपि न तेऽभीरुंसादृश्यमस्ति ॥ ११६ ॥ तस्मादस्मादृशजनमनस्त्वन्निरीक्षामृतेन, दिष्ट्या पुष्टं क्वचिदपि रतिं नाप्नुते वस्तुगत्या । नामालम्बात् सहमहमहो वासराणि व्रजन्ति, दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि ॥ ११७॥ राकाचन्द्रेऽभ्युदयिनि भवद्वक्रमारोप्य बुद्ध्या, ध्यानाधीनः क्षणमपि सुखं चेतसि स्थापयामि । अङ्ग्रस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे, क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ११८॥
निर्दयम् । २ वैशाखशुक्ल-। ३ अवाक्षरद्वयं त्रुटितम् तच्च 'प्रापि' यद्वा नैषि' इत्येतदनिमार्थसंबन्धेन संघटेत । +'भक्तां दिदेश' इति पाठान्तरम् । ४पमा लक्ष्मीः , पद्मं कमलं च। ५ अनुकूलेन देवेन प्रदत्तावसर इत्यर्थः। ६ स्वैरम् ।
वि. म.ले. १४
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org